________________
१२१०
1
(५) स्त्रियो भार्या एकस्यैका अन्यस्य द्वे एवं वैष म्येऽपि । योगक्षेमं योगो राजादिलभ्यो निबन्धादिः स्वयमुपात्तः, क्षेमः रक्षोपायः प्राकारेष्टकादिः । प्रचारो वर्त्म । यत्तु 'कृतान्नं चाकृतान्नेन परिवर्त्य विभज्यत' इत्याद्युक्तं बृहस्पतिना तदतिप्रचुरकृतान्नादेरपि तन्मात्रधनैर्विभागः कार्यइत्येतत् । वि.
व्यवहारकाण्डम्
(६) वस्त्रमविभक्तप्रावृतम् । 'वस्त्रं यच्चाङ्गयोजितं ' इति कात्यायनस्मरणात् । पत्रं पत्रारूढमृणं 'धनं पत्रनिविटम्' इति तेनैव व्यक्तमुक्तत्वात् । स्त्रियो दास्यः । उदकं स्वनिवेशस्थकूपवाप्याद्यम्भः । योगक्षेमशब्दौ लौगाक्षिणा व्याख्यातौ । 'क्षेमं पूर्त योगमिष्टमित्याहुस्तत्त्व दर्शिनः । अविभाज्ये च ते प्रोक्ते ॥' इति ।
अथवा योगक्षेमार्थमुपासितेश्वरसकाशात् यो रिक्थानां लाभः स एवात्र योगक्षेमशब्देनोच्यते । प्रचारशब्देन गोप्रचार उच्यते । कात्यायनेन 'गोप्रचारश्चेति' विशेषित त्वात् । अथवा प्रचारशब्देनाङ्गनादिकमुच्यते । अविभाज्यं प्रचक्षते । विचारहीनाः केचनस्मृतिकारा इति शेषः । स्मृच. २७७ (७) हलायुधस्तु योगो योगहेतुर्नीकादिः, क्षेमः क्षेमहेतुर्दुर्गादत्याह । + विर.५०४ (८) पात्रं उदपात्रम् । योगक्षेम इति अप्राप्तप्रापणं योगः प्राप्तस्य रक्षणं क्षेमः, अत्र योगक्षेमशब्देन योगक्षेमहेतवो विवक्षिताः, योगहेतवो याज्याः शिष्यादयः, क्षेमहेतवो द्वारग्रामपालादयः, उभयहेतवो ग्रामपत्तनाधिपादयस्तेऽपि पूर्ववदेव । स्थापनीया न विभाज्याः । प्रचारः क्षेत्रारामादिप्रवेशयोग्यो मार्गः सोऽपि सर्वैः प्रच रितव्योऽनुभावयितव्यो न विभाज्यः । नन्द
विद्याधनविभागविचारः यत्किंचित्पितरि प्रेते धनं ज्येष्ठोऽधिगच्छति । भागो यवीयसां तत्र यदि विद्यानुपालिनः ||
+ शेषं मितागतम् । ÷ शेषं मेधागतम् । x मिता. व्याख्यानं 'पितृद्रन्याविरोधेन' इति याज्ञवल्क्यवचने द्रष्टव्यम् ।
(१) मस्मृ.९।२०४ क., ख., घ. पुस्तकेषु, लिन: (लित:); मिता. २।१९१९; दा. १२१ अप. २।११९ नारदः; व्यक.
(१)
|
पितृक्रमागतान्मित्राद्राजामात्यपुरोहितादेव क्षेत्राद्वा कयाचिद्युक्त्याऽधिकोत्पत्तिं जनयेत्तत्सर्वेषां साधारणम् । नैव मन्तव्यं ममैतद्बुद्धया पित्रा प्रागनुपार्जितं मयैतल्लब्धं ममैवैतदिति । विद्यानुपालिन इति वचनात् विद्याजीविनां शिल्पिकारुकप्रभृतीनामेव विधिवैद्यनट गायनादीनाम् । मेघा.
(२) तस्यायमर्थः - 'पितेव पालयेत् पुत्रान् ज्येष्ठो भ्रातृन् यवीयसः । पुत्रवच्चानुवर्त्तेरन् ज्येष्ठे भ्रातरि धर्मतः ॥' एतस्माद्वचनात् पितापुत्रवदवस्थानात् पित्रर्जित इवानुपघातार्जितेऽपि ज्येष्ठधने कनिष्ठानामधिकारः, एतावान् परं विशेषः, पित्रर्जितेऽविदुषामप्यधिकारो, ज्येष्ठार्जिते पुनर्विदुषामेव । एतच्च पितरि प्रेत इति ज्येष्ठ इति यवीयसामिति विद्यानुपालिन इति पदप्रयोगस्यानर्थक्यात् सिध्यति । तस्मादविभक्तार्जितत्वमात्रेणाविभक्तभ्रात्रन्तरस्य भवतीत्यसंगतं वचनम् | दा. १२१-१२२
(३) ज्येष्ठोऽविभक्तः, स्वयं विद्याप्रकर्षेणापि लब्धे धने ज्येष्ठो भागं दद्यात् । विद्यानुपालिनस्तद्विद्यानुकूलकुटुम्बवच्चर्याकारिणः (?) । ज्येष्ठ इतिवचनात् कनिष्ठार्जितेष्वेवंभूतेषु न ज्येष्ठस्याधिकार इति दर्शितम् । ÷मवि. (४) पितरि मृते सति भ्रातृभिः सहाविभक्तो ज्येष्ठः किंचित्स्वेन पौरुषेण धनं लभते ततो धनाद्विद्याभ्यासSari कष्ठभ्रातॄणां भागो भवति नेतरेषाम् । Xममु.
(५) यत्किंचित्पितरि प्रेते असाधारणविद्यादिना ज्येष्ठो धनमर्जयति, तत्र ज्येष्ठार्जिते ज्येष्ठस्यांशद्वयं एकैकस्तु भागः कनिष्ठानां, यदि ते विद्याभ्यासरता इत्यर्थः । विर. ५०७ (६) साधारणधनानुप श्लेषविषयमिदम् । स्मृसा. ६२. (७) यया विद्यया ज्येष्ठः पितृपरोक्षे धनमर्जयति,
÷ नन्द मविगतम् । x मच., विता. ममुगतम् । १४७; विर.५०७; स्मृसा. ६२; सुबो. २।११८ (=) पू.; रत्न. १४८; व्यनि; नृप्र. ३७; चन्द्र.८१ यवी (कनी) लिनः (लकाः); मच. 'विद्यानुपालिनां' इति क्वचित्पाठः; दानि. ३ लिन: (लितः) कात्यायनः ; विता. ३५० लिनः (लितम् ); समु. १३२; भाच. मस्मृवत्.