________________
दायभागः - विभाज्याविभाज्यविवेकः
(१) अवरुद्धास्तु पित्रा स्वैरिण्याद्याः समा अपि | मेकैकः । पुत्रैर्न विभाज्याः । * मिता. २।११९ (२) याश्च स्त्रियो दास्यो भ्रात्रादिषु केनचित्संयुक्ता उपभोगपरिगृहीतास्तास्तस्यैव । यद्यन्याः सन्त्यन्यत्रान्येषां भागः । यदि न सन्ति तदा द्रव्येण साम्यमापादनीयम् । यदा पुनरेकैव दास्यसंयुक्ता च तदा पर्यायेण कर्म करोतु | गौमि. (३) ननु च दोषाभावः कस्मान्न गृह्यत इति चेत्- 'प्रतिलोमे वधः पुंसाम्' इत्यनेन प्रायश्चित्तश्रवणात् । तासु च पुत्रैर्न विभागः । तासां वृद्धानाम शनाच्छादनं दातव्यं, अन्याभिर्गन्तव्यमित्यभिप्रायः ।
मभा.
वसिष्ठः स्वार्जिते द्व्यंशित्वम् 'येन चैषां स्वयमुत्पादितं स्यात् स व्यंशमेव हरेत् ।
(१) पितृद्रव्यविरोधेन यदर्जितं तद्विभजनीयमिति स्थितं तत्रार्जकस्य भागद्वयम् । + मिता. २।११९ (२) विभाज्यविद्याधनेऽपि भागाधिक्य मर्जकस्यास्ति – येनेति । स्मृच. २७५
(३) यदा बहूनां मध्ये साधारणधनमाश्रित्य एक एव कृष्यादिनार्जयति, तदा तस्य द्वावंशौ, शेषाणा -
* पमा., मपा., व्यम., विता. मितागतम् ।
÷ दा. यथाश्रुतं व्याख्यानम् ।
१२०५
+ विर. ५०८
(४) एषां दायार्हपितृभ्रात्रादीनाम् । मपा. ६४७ (५) इति वसिष्ठवचनात्पिता भजते । इदं च विद्यादिष्वपि योज्यम् ।
व्यप्र.४५०
+ पमा, व्यम. मितागतम् ।
(१) वस्मृ. १७/४५ (स० ); मिता. २।११९ त्पादि (पार्जि) हरेत् ( लभेत); दा. ४२ स्वय ( स ) स ( सोऽपि ); स्मृच. २७५ त्पादि (पार्जि); व्यक. १४७; विर. ५०८: स्मृसा. ५६ (येन चैषां यत्स्वयमर्जितं तद् द्व्यंशमाहरेत् ): ६२ स्मृचवत् ; पमा.५६० स्वयमुत्पादि (यदुपार्जि) (स० ) इरेत् ( लभेत ); मपा. ६४७ मितावत्; विचि. २०२ ( येन तेषां यत्स्वयमुपार्जितं स तद् द्व्वँशमाहरेत् ) : २१४ यंशमेव (तद् द्यंशमा); दानि. ३, ४ चैषां येषां ) शेषं स्मृचवत् ; व्यप्र. ४५० मितावत् ; व्यउ. १४४ चे (वै) शेषं मितावत्; व्यम. ५६ स्मृचवत्; विभ.४२:९३ त्यादि (पार्जि) बंशमेव (तद् शमा); समु. १२२ मुत्पादि (मार्जि ).
विष्णुः पितृदत्तमविभाज्यम्
मातापितृभ्यां यद्दत्तं तत्तस्यैव धनम् ।
न विभक्तजस्तत्रेष्ठ इति विभक्तजस्य स्वं न भवतीत्यर्थः । पित्रा यद्दत्तं तत्तस्यैवेति न्यायप्रतिपादनात् विभागात्प्राक् यद्दत्तं तत्तस्यैवेति सिद्धम् । सवि. ३७७ पैतामहं नष्टमुद्धृतं स्वार्जितं च पिता न विभजेत् अनुपन्नन् पितृद्रव्यं श्रमेण यदुपार्जयेत् । स्वयमीहितलब्धं तन्नाकामो दातुमर्हति ॥ पैतृकं तु पिता द्रव्यमनवाप्तं यदाप्नुयात् । न तत्पुत्रैर्भजेत्सार्धमकामः स्वयमर्जितम् ॥ भ्रातृविभागशेषमाह - अनुपन्नन्निति । पितृद्रव्यं अनुपन्नन् पितृधनमनुपयुज्य यच्छ्रमेण कृषिसेवादिक्लेशेनार्जयेत्, यच्च स्वयमीहितं वाञ्छितं सन्मित्रादिभ्यो लब्धं तदकामोऽनिच्छन् भ्रात्रादिभ्यो दातुं नार्हति । तदाह योगीश्वरः – पितृद्रव्याविरोधेनेत्यादि । व्यासोऽपि - 'विद्याप्रातं शौर्यधनं यच्च सौदायिकं भवेत् । विभागकाले तत्तस्य नान्वेष्टव्यं सनाभिभिः ||' इति । अनुपन्नन्निति शत्रा यदुपार्जने पितृद्रव्यानुपयोगस्तस्याविभाज्यत्वमुक्तं, न तु द्रव्यापरिपुष्टेनार्जितस्य इति व्याख्यानमयुक्तम् । 'परभक्तोपयोगेने 'ति वक्ष्यमाण
+ विचि विरगतम् । (१) सवि. ३७७.
(२) विस्मृ. १८/४२: दा. १०५,११३ मनुविष्णू ; विर. ५०१-५० २ र्जयेत् (र्जितम् ) मनुविष्णू ; विचि. २१९ तन्ना (च ना) शेषं विरवत्, मनुविष्णू ; व्यनि. तन्ना ( तु ना ) मनुविष्णू ; विता. ३४१ यदु ( य उ ) मनुविष्णुनारदाः.
(३) विस्मृ. १८।४३ पिता (यदा); दा. ३२ मनुविष्णू; विर. ४६ १ वाप्तं (वाप्यं) मनुविष्णू; दात. १६५ मनुविष्णू; रत्न. १४१ वाप्तं (वाप्यं) त्पुत्रै (त्सुतै); व्यम. ४२ मनुविष्णू; विता. ३२० विश्वत्, मनुविष्णू; सेतु. ७२ मनुविष्णू; विच. ३९ मनुविष्णू.