________________
१२०२
मृतः । तत्सुतस्तु पितामहादप्राप्तांशकः पितामहोऽपि नासीत्तदा कात्यायन आह--अविभक्तेऽनुजे प्रेते इत्यादि । जीवनं दायधनम् । अनुजग्रहणं भ्रातुरुपलक्षणार्थम् । अस्मिन्नेव विषये यदा प्रमीतस्य सुता बहवस्तदाप्याह स एव स एवांश स्त्विति । समं स्यादश्रुतत्वादिति न्यायेन मिथः समभागतया भवेदित्यर्थः । यदपरं स एवाह--' लभेत तत्सुतो वाऽपि निवृत्तिः परतो भवेत्' इति तस्यायमर्थः । तस्य विभाज्यधनस्वामिपौत्रस्य सुतोऽपि वा स्वपितुरभावे तद्भागं लभेत । अथ तस्याप्यभावः किंतु तत्सुतादेरेव विद्यमानता तदा तु मृतभ्रातृसंततौ वृद्धप्रपितामहधनभागग्रहणनिवृत्तिरिति । ननु प्रपौत्रस्यापि प्रपितामहधनभागग्रहणमपि कथं संघटते । जन्मनाऽपि पितृपितामहयोरेव धने पुत्रपौत्रयोरेव स्वत्वसिद्धिनियमात् । सत्यम् । तथापि यथा पुत्रादेर्मातृधने पिण्डं दत्त्वैव मातुरूर्ध्वं स्वत्वसिद्धिर्भवतीति वक्ष्यते तथा प्रपितामहधने प्रपौत्रस्यापि स्वत्वसिद्धिरिति युक्तमुक्तं 'लभेत तत्सुतो वाऽपी'ति । एवं च यो यस्य धनस्वामिनः प्रमीतस्य पितृत्वेन पितामहत्वेन प्रपितामहत्वेन वा पिण्डदाता तस्य तद्धनभागित्वं धनस्वामिनः संतत्यन्तशालित्वेऽपि विद्यत इत्यवगन्तव्यम् ।
X स्मृच. २७८- २७९
(३) एतद्बलेन मृतस्य पुत्रे भागो न पत्न्या एतद्वलादपि जीवत्पितृकस्य विभागे तस्याभागः । स्मृसा. ५६
(४) सति तु पितरि पार्वणानधिकारात् पुत्राणां नांशिता । एवं धनिनः पौत्रस्वत्वोपरमे तदंशमात्रे प्रपौत्राणामंशिता । सति पौत्रे तु नांशिता इति पुत्रेभ्यः स्वधनविभागदाने स्वाच्छन्द्यात् यथा न्यूनाधिकदानं तथात्र नास्तीत्येतत्परं न तु पितापुत्रयोस्तुल्यांशित्वम् ।
व्यवहारकाण्डम्
दात. १६७
(५) पितृव्यसुताद्विभागेऽपि स एवांशो भवेद्यो भ्रातॄणां न्यायतो भवेत् । एतदुक्तं भवति विषमसमाः भ्रातृपुत्राः स्वपितृविभागहरा इति । + व्यनि. X पमा. स्मृचगतम् । विचि. स्मृचवत् स्मृसावच्च भावः । सवि. स्मृचगतम् ।
* दात. (पृ.१९०) स्मृचगतम् ।
+ शेषं स्मृचगतम् ।
(६) निजे भ्रातरि । तत्सुतं भ्रातृपुत्रम् । जीवनं भागः । स कीदृशं भागं लभत इत्यपेक्षिते आह-पित्र्यमंशमिति । तत्सुतो यस्य धनं विभज्यते तस्य प्रपौत्रः । पौत्रस्य प्रस्तुतत्वात् । परतः तत्सुतात् निवृत्तिर्भाग निवृत्तिर्भवेत्प्रपौत्रपुत्रो भागं न लभेतेत्यर्थः । व्यप्र. ४४९
प्रपौत्रानन्तरमुक्तो यः प्रणतृप्रभृत्यनधिकारः स सपिण्डत्वेन ध्येयः । सकुल्यत्वेन त्वस्त्येव यथा प्रत्यासत्तिः ।
व्यप्र. ५०५
(७) चतुर्थस्यांशनिषेधो वृद्धप्रपितामहधनवृत्त्यभावे एकदेशे च ज्ञेयः । विता. ३१६
(८) प्रपौत्र पुत्रादिः पितृपितामहप्रपितामहेषु मृतेषु अनन्तरं वृद्धप्रपितामहे मृतेऽन्यस्मिंश्च तत्पुत्रादिके जीवति तद्धनं न लभते । पुत्रपौत्रप्रपौत्रसामान्याभावे सोऽपि लभत एवेत्यर्थः । इदं च नाविभक्तपरं किन्तु संसृष्टपरम् । ऋणं प्रीतिप्रदानं तु दत्त्वा शेषं विभाजयेत् । आ चतुर्थात् तद्ग्राह्यं क्रमेणैव तु तत्सुतैः ॥
व्यम.४४
(१) यच्चान्यदिति चकारः स्वयमित्यनेन संबध्यते स्वयं चार्जितमिति चकारादन्यस्यापि तदर्जनं साधारणधनद्वारेणेत्यर्थः । Xदा. १०५
(२) स्वयमर्जितं पित्राद्यविभक्तद्रव्योपयोगेन । तदनुपयोगेन स्वयमर्जितस्याविभाज्यत्वात् । एतत् त्रिविधं धनं सर्वे विभज्यते । यदि नास्ति पितामहादि - कृतमृणादिकमिति शेषः । अस्ति चेन्न सर्वमपि तु ऋणादिकं दत्वाऽवशिष्टं विभज्यते । तथा च स एव 'ऋणं प्रीतिप्रदानं तु दत्त्वा शेषं विभाजयेत्' इति । प्रीतिप्रदानं प्रीत्या दत्तं शेषं विभाजयेदिति वदन् विभाज्यबाहुल्यविषयमेतदिति दर्शयति । तदबाहुल्यविषये तु ऋक्थवणमपि विभाज्यमित्यजीवद्विभागप्रकरणे दर्शितम् । स्मृच. २७३
x पमा, सवि दावद्भावः । सेतु. दागतम् । (१) व्यक. १४५ दानं (दत्तं ); स्मृच. २७३ पू.; विर. ४९६ ऋणं (ऋक्थं) दानं (दत्त); पमा. ५५७ तु (च) पू.; रत्न. १४५; ज्यनि. ऋणं प्रीति ( रिक्थं प्रति ) भाज (भाव); व्यम.५४ व्यकवत्, पू.; विता. ३३८ व्यकवत् पू.; समु. १२८ व्यकवत् .