________________
११९८
(२) ज्येष्ठ इति तस्मिन् सम्यग्वृत्तावितरेषामन्यथात्वेऽपि कुलं वर्धत एवेत्यर्थः । पूज्यतमः कनिष्ठैः । सद्भिः शिष्टैः कनिष्ठैरगर्हितो न गर्हणीयः । मवि.
I
(३) अकृतविभागो ज्येष्ठो यदि धार्मिको भवति तदाऽनुजानामपि तदनुयायित्वेन धार्मिकत्वाज्ज्येष्ठः कुलं वृद्धिं नयति । यद्यधार्मिको भवति तदानुजानामपि तदनुयायित्वाज्ज्येष्ठः कुलं नाशयति । तथा गुणवान् ज्येष्ठो लोके पूज्यतमः साधुमिश्वागर्हितो भवति ।
+ममु.
व्यवहारकाण्डम्
(४) कुलं वर्धयति सम्यग्व्यापारेण कनिष्ठपरिपालनेन कुलवृद्धिः । विनाशयतीति योग्यतामात्रम् । विर.४५८
ज्येष्ठे इतरेषां वृत्तिः 'यो ज्येष्ठो ज्येष्ठवृत्तिः स्यान्मातेव स पितेव सः । अज्येष्ठवृत्तिर्यस्तु स्यात्स संपूज्यस्तु बन्धुवत् ॥ ज्येष्ठस्य वृत्तिः पुत्र इव स्नेहः । पालनं, शरीरधनेषु तदीयेषु स्ववदनुपेक्षाऽकार्येभ्यो निवर्तनम् । यस्त्वन्यथा वर्तते तत्र बन्धुवत्प्रत्युत्थानाभिवादनैः मातुलपितृव्यवत्संपूजा कर्तव्या अन्यकरण विधेयतानिवृत्तिः । *मेधा.
नारदः सर्वानुमत्या सहवासविधिः बिभृयाद्वेच्छतः सर्वान् ज्येष्ठो भ्राता यथा पिता । भ्राता शक्तः कनिष्ठो वा शक्त्यपेक्षा कुले स्थितिः ॥
+ मच. ममुगतम् ।
* मवि., ममु., मच., नन्द. मेधागतम् ।
(१) मस्मृ. ९।११०; व्यक. १४० स पि (च पि); विर. ४५७ स्तु स्यात् (स्तत्र ); स्मृचि. २९ पू.; व्यप्र. ४३७ व्यकवत् ; बाल.२।१२६:२।१३५ (पृ. २३६ पू.).
(२) नासं. १४/५ क्षा (क्षं) स्थितिः (क्रिया); नास्मृ. १६/५ क्षा (क्षाः) स्थिति: ( श्रियः); दा. २०:६२; अप. २।११७; व्यक. १४०; स्मृच. २७३ ले (ल); विर. ४५८; रत्न.१३९; स्मृसा.५४ उत्त; विचि. १९५६ दात. १७०; व्यप्र.४३७ वेच्छ (वैक) ले (ल); विता. ३११ दूवेच्छ (त्वेक) पू.; बाल. २।११७ स्मृचवत्; विभ.८०; समु. १२७-१२८; विश्व. ६९ स्मृचवत्.
(१) सर्वेच्छया कनिष्ठोऽपि शक्तः सन् बिभृयादिति । दा. २१
शक्तः सन् कनिष्ठोऽपि सर्वान् विभृयात्, मध्यमोऽत्र दण्डापूपन्यायात् सिद्धः । दा. ६२ तदशक्तखिलानुजविषयम् । स्मृच. २६३ (३) सामर्थ्यमेव कारणं भरणस्येति दर्शयति-शक्त्यपेक्षः कुले व्यापारः, न ज्येष्ठापेक्षः, दृष्टार्थत्वात् । अशक्तः किं करिष्यति, नाशयेदेव । नाभा. १४ १५ सर्वेच्छया कनिष्ठोऽपि शक्तः सन् बिभृयात् परान्+ कुटुम्बार्थेषु चोद्युक्तस्तत्कार्यं कुरुते तु यः । स भ्रातृभिर्बृहणीयो ग्रासाच्छादनवाहनैः*।।
(१) भ्रातृविशेषस्य कर्मभूयस्त्वात्फलभूयस्त्वमिति न्यायेन समभागादभ्यधिकेन धान्यादिना विवर्धनमितरैर्भ्रातृभिः कार्यमित्याह नारदः - कुटुम्बेति । X स्मृच. २६४ (२) अत्र हलायुधेन तु यः स्वयोग्यतया भागं न गृह्णाति, तस्यापि किंचिद्दत्वा तत्पुत्राणां विवादनिवृत्त्यर्थ विभागः कर्तव्य इत्यस्यार्थ व्याख्याय तदेतदाहेति कृत्वा, ‘भ्रातॄणां यस्तु नेहेत धनं शक्तः स्वकर्मणा । निर्भाज्यः स्वकादंशात्किंचिद्दत्वोपजीवनम् ॥' इति मनुविर.४८४-४८५ वाक्यमवतारितम् ।
(३) अविभक्तावस्थायां विभक्तानां वा साधारणप्रयोजनतत्परः साधारणकार्ये चेत् कुरुते, स इतरैभ्रतृभिर्वर्धनीयो प्रासादिभिः, येन निराकुलः सर्वैः कर्तव्यं करोति ।
नाभा. १४/३५
+ इदं न वचनं, परन्तु बालम्भट्टीकारेण भ्रान्त्या 'दायभाग 'व्याख्यानं वचनत्वेनोल्लिखितम् ।
* व्यप्र.व्याख्यानं 'अनन्तरः सपिण्डाद्यः' इति मनुवचने द्रष्टव्यम् । x विचि. स्मृचगतम् ।
(१) बाल. २।११७.
(२) नासं. १४।३५ तु (च) वाह (भोज); नास्मृ. १६।३५ चोषु (यश्चो) तु (च) स भ्रातृभिबृंहणीयो (भ्रातृभिर्भरणीयो सौ); अप. २।११६ चो (चे) तु (च); व्यक. १४३; स्मृच. २६४; विर.४८४; स्मृसा. ५६ षु चोयु (चोपयु); विचि. २०२ चो (य); दात. १७०; व्यप्र. ४४८; विभ. ७५१ समु. १२८; विश्व. ६९-७०.