________________
११८८
व्यवहारकाण्डम्
द्धृत्योद्धारावशिष्टमध्योत्तमं किंचिदेव द्रव्यसहितं ज्येष्ठा - यामुद्धारमन्यौ तु द्वौ तदनन्तरजाभ्यां क्रमाद्दत्वा शेषं समं कृत्वा विभाज्यमित्यर्थः । एतत्समगुणत्वे सर्वेषां भातॄणां च त्रित्वे । मवि
(७) ज्येष्ठस्याग्रजस्य विद्यादिवशादुत्तमस्य विभाज्यद्रव्यराशेर्विंशतितमो भागः तस्मिन्नेव राशौ श्रेष्ठमेकं च द्रव्यं उद्धारः । ततोऽर्थं तस्मिन्नेव राशौ चत्वारिंशत्तमो भागो मध्यममेकं द्रव्यं जन्मतो मध्यमस्य विद्यादिवशतश्च मध्यमस्य उद्धारः । तुरीयस्तस्मिन्नेव राशौ अशीतितमो भागः कनिष्ठमेकं द्रव्यं जन्मना विद्यादिवशाच्च यवीयस उद्धारः स्यादित्यर्थः । स्मृच.२६५
T
अयं चासमविभागप्रकारः कलियुगे तु न वर्तत इत्याह संग्रहकारः ‘यथा नियोगधर्मोऽद्य नानुबन्ध्यावधीऽपि वा । तथोद्धारविभागोऽपि नैव संप्रति वर्तते ॥' अद्यसंप्रतिशब्दौ कलियुगमभिसंधायोक्तौ । अत एव पुराणम् -'ऊढायाः पुनरुद्वाहं ज्येष्ठांश गोवधं तथा। कलौ पञ्च न कुर्वीत भ्रातृजायां कमण्डलुम् ||' इति । ज्येष्ठांश जन्मविद्यादिश्रेष्ठ निबन्धनाश गोवधं अनुबन्ध्यादिकर्माङ्ग, कमण्डलुं गृहिणः कमण्डलुधारणम् । एतदेव धारेश्वरेणोक्तम् 'ज्येष्ठस्य विंश उद्धारः' इत्येवमादीनि वाक्यानि न विचार्यन्ते । लोकेनात्यन्तपरित्यक्तत्वात् । कलाविति शेषः । द्वापरादावनुष्ठेय त्वेनात्यन्तपरित्यागा. भावात् । यत्तु पुनर्विश्वरूपेणोक्तं यथा, 'महोक्षं वा महाजं वा श्रोत्रियायोपकल्पयेत्' इत्यस्य शिष्टाचारेण बाधितत्वात् अकरणं एवमुद्धारस्यापीति तदयुक्तं स्मृतिशिष्टाचारयोर्विरोधे शिष्टाचारस्यैव दुर्बलस्य बाध्यत्वात् । दुर्बलत्वं च ‘श्रुतिस्मृतिविहितो धर्मस्तदलाभे शिष्टाचारः प्रमाणम्' इति (२।४ - ५ ) वसिष्ठस्मरणादवगम्यते । किच महोक्षादेरनुपकल्पनं शिष्टाचाराभाव एव न पुनः शिष्टाचार इति शिष्टाचारेण बाधितत्वादित्ययुक्तमुक्तं 'शिष्टाचाराभावादकरणम्' इति श्रीकरोक्तिवद्वक्तव्यम् | न च तथोक्तम् । यत्तु पुनर्विज्ञानेश्वरेणोक्तं 'सत्यं अयं विषमो विभागः शास्त्रदृष्टस्तथापि लोकविद्विष्टत्वान्नानुष्ठेयः' इति । एतदपि वाङ्मात्रेणैतदुद्धारविषमविभागादौ लोक विद्वेषोऽस्ति प्रत्युत विद्यागुण
पुण्यकर्म संपन्न ज्येष्ठादौ भागाधिक्ये लोकानुरागो दृश्यत इति यत्किञ्चिदेतत् । ये पुनः स्मृतिसमुच्चयकाराः शम्भुश्रीकरदेवस्वाम्यादयः संप्रत्युद्धारविषमविभागयोः शिष्टाचारं कापि मन्यमाना उद्धारादिविषयाणि स्मृतिवाक्यानि विचारयितुं ग्रन्थविस्तारं चक्रिरे तेषां धर्मज्ञसमय पुराणवचनाभ्यां कलौ सर्वत्र शिष्टाचारा भावस्य निश्चितत्वात् वृथैव प्रयासो ग्रन्थविस्तारश्च जायत इत्यस्माभिरुद्धारादिविषये दिङ्मात्रमेव प्रदशितम् । स्मृच. २६६ (८) उध्रियत इत्युद्धारः ज्येष्ठस्याविभक्तसाधारणधनादुद्धृत्य विंशतितमो भागः सर्वद्रव्येभ्यश्च यच्छ्रेष्ठं तद्दातव्यम् । मध्यमस्य चत्वारिंशत्तमो भागो देयः । कनिष्ठस्य पुनरशीतितमो भागो दातव्यः । अवशिष्टं धनं समं कृत्वा विभजनीयम् ।
Xममु. (९) यदा बहवः पुत्रा एकमातृका गुणवन्तः किंतु यथाक्रमं गुणहासः । *विर.४६९ (१०) अयं च ज्येष्ठस्य गुणवत्तरत्वे । विंशांशस्तु गुणवत्त्वे । समगुणत्त्वे तु किंचित्पारितोषिक मानतिकरविचि. २०० मिति वर्तुलार्थः । (११) 'ज्येष्ठस्य विंश उद्धारः' इत्यादिना विषमविभागोऽप्युक्तस्तत्कथं समनियम इति चेत् उच्यते । यद्यप्ययं विषमविभागो जीवत्यजीवति च पितरि शास्त्र - दृष्टस्तथापि वचनान्तरानुरोधात्कलौ सम एवेति नियमः । 'अस्वर्ग्य लोकविद्विष्टं धर्म्यमप्याचरेन्न तु ।' (यास्मृ. १११५६ ) इति योगीश्वरवचनात् । अत्र लोकपदेन युगमुच्यते । युगान्तरे धर्म्यमपि युगान्तरे यद्विद्विष्टं प्रतिषिद्धं तन्नाचरेदित्यर्थः । अन्यथा धर्म्यत्वास्वर्ग्यत्वयोर्व्याघातः । शास्त्रविहिते तदभिज्ञविद्वेषो बाधित एव । तदनभिज्ञपामरजन विद्वेषस्तु नास्वर्ग्यत्वापादकोऽमीषोमीयादिहिंसादावतिप्रसङ्गादित्यादिदूषणं स्यात् । अत एव मिताक्षरायां मधुपर्कपशुवधगवालम्भादि कलिवर्ज्यमेव लोकविद्विष्टत्वेनोदाहृतम् । कलिवर्ज्येषु च पुनरुद्वाहादिकमक्षतादीनां यत्रोक्तं तत्र ज्येष्ठांशाद्युद्धारादि
X मच., नन्द, भाच. ममुगतम् । * शेषं स्मृचगतम् ।