SearchBrowseAboutContactDonate
Page Preview
Page 675
Loading...
Download File
Download File
Page Text
________________ दायभागः - पुत्राणां सोद्धारसमविषमविभागाः सर्वेष्वष्टं ज्येष्ठस्तद्रहितेष्विष्टमनन्तर इति । अयमुद्धारः सर्वेषाम् । गौमि. (२) एकैकं वाऽर्थजातमभिप्रेतं ज्येष्ठानुक्रमेण गृह्णीयुः । तत्राभिप्रेतार्थविशेषग्रहणमेवोद्धारः । अयमि सर्वे गुणवन्तश्चेद्द्रष्टव्यः । देशकं पशूनाम् । सभा. (१) अत्रैव पशुषु विशेषः - दशकमिति । दशावयवा अस्य दशकः । पशूनां गवादीनां मध्ये दशकं दशकं पूर्वो लभते न त्वेकमिति । गौमि. (२) धनरूपमित्यनेन काम्यस्यैकस्य पशोर्ग्रहणे प्राप्ते संख्यानियमेन ग्रहणार्थमिदं पशूनां दश ग्राह्या इति । मभा. (३) समानजातीयान्दशतो दश दश पशून् पूर्वः पूर्वो लभेतेत्यर्थः । • विर. ४७९ नैकशफद्विपदानाम् । उक्तः । (१) अस्यापवादः - नैकेति । एकशफानामश्वादीनां द्विपदां दास्यादीनां च दशकं न गृह्णीयुः । किंतु पूर्वोक्तमेकैकमेवेति । द्विपदानामिति पाठे पादशब्देन समानार्थः पदशब्दः। एवमेकमातृकाणां सोद्धारो विभाग गौमि. (२) यदि सर्वे निर्गुणास्तदानीं सममेव विभागो द्रष्टव्यः । अत्र विशेषानुपादानात् स्मृत्यन्तरे च द्विरुक्तेः पूर्वस्य तत्प्रयोजनत्वात् । यथाऽऽह वसिष्ठः 'अथ भ्रातॄणां दायविभागः' इति । यदा केचित् गुणवन्तः केचिन्निर्गुणास्तदा ज्येष्ठो दशममुद्धारं गृहीत्वा अन्यत्समं विभजेत् । यथाऽऽहोशना - ' ज्येष्ठस्य दशमो - द्धारः कनिष्ठस्याभिप्रेतो भागः' इति । अस्मिन्देशे अयमेव विभागो द्रष्टव्यः, समाचारात् । समानजातीयानामेकमातृकाणां विभाग उक्तः । मभा. (१) गौध. २८।१२ कं (तं); मेघा. ९ | ११४ कं (तः ); व्यक. १४२; मभा.; गौमि. २८।१०६ मवि. ९।११४ कं (तश्च); ममु. ९।११४ मेघावत्; विर. ४७९ मेघावत् ; मच. ९।११४ मेधावत्; विभ. ४० मेघावत्. ११८३ (३) एतच्च सर्वेषां समत्वे धनबहुत्वे च मन्तव्यम् । विर. ४७९ (२) गौध. २८।१३; मेघा. ९।११४ नै (ए); मभा. गौमि. २८।११ दानाम् (दाम् ); विर. ४७९; विभ. ४१. म्य. का. १४९ हारीतः पुत्राणामुद्धारविचार: 'विभजिष्यमाणे गवां समूहे वृषभमेकधनं वरिष्ठं वा ज्येष्ठाय दद्युर्देवतागृहं च, इतरे निष्क्रम्य कुर्युः एकस्मिन्नेव दक्षिणं ज्येष्ठायानुपूर्व्यमित रेषाम् । एकधनमुत्कृष्टधनम् । देवता विष्ण्वादिप्रतिमा गृहं पैतृकम् । निष्क्रम्य कुर्युर्गृहान्तराणीति शेषः । यदा गृहान्निष्क्रम्य गृहान्तरकरणासंभवः, तदा दक्षिण श्रेष्ठं ज्येष्ठाय भवेदिति शेषः । आनुपूर्व्यमनुपूर्वता, तेन मध्यमाय मध्यमं, कनिष्ठाय ततोऽपि हीनमित्यर्थः । हरिहरस्तु देवतागृहपदेन दुर्गादिपूजामण्डपं व्याख्याय तज्ज्येष्ठाय दत्त्वा अन्ये मण्डपान्तरं कुर्युरित्याह । विर. ४७१ 7 सेमानो मृते रिक्थविभागः । (१) उद्धारमन्तरेणापि समविभागमाह पितरीत्यनुवृत्तौ हारीत: - समानत इति । दा. ६५ (२) मृते पितरि भ्रातृभिः क्रियमाणऋक्थविभागः समभागेनैव कार्य इत्यर्थः । स्मृच. २६३ *बौधायनः ज्येष्ठोद्धारः वर्णानां गोवाजावयो ज्येष्ठांशः । अंशनियमेनोद्धारः । मृते जीवति वा पितरि सत्सु गोश्वाजाविष्वेतत् । इतरे समं विभजेरन् । गवा * आपस्तम्बमतं पितृकर्तृकविभागे (पृ. ११६४ ) द्रष्टव्यम् । (१) व्यक. १४१; विर. ४७१. (२) दा. ६५ नो (नतो); स्मृच.२६३; रत्न. १४० मृते + (पितरि ); सवि. ३५६ रिक्थ ( पितरि ); व्यप्र. ४४२ रत्नवत्; व्यम.४४ रत्नवत् ; सेतु. ७७ दाबत् ; समु. १२७ (समेनैव मृते पितरि रिक्थविभागः); विच. ७१ नो (नतो) विभागः (भागिनः ). (३) बौध २२ ९; व्यक. १४२ चतुर्णां (असति पितरि चतुर्णा) विर.४७२ शः+(यथासंख्येन) शेषं व्यकवत्, -)
SR No.016114
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 02
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1939
Total Pages1084
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy