________________
११७४
व्यवहारकाण्डम्
विशेषवन्तं न कुर्यात् । कारणं च शास्त्रोक्तं पातित्यादिकं विनाऽकस्मात् क्रोधात् सुभगापुत्रस्नेहादिना वा न निर्मा जयेत् भागरहितं न कुर्यादित्यर्थः ।
(२) न विशेषयेत् शास्त्रीयज्येष्ठभागाद्यतिरिक्तैच्छिक द्वंशस्य चैकदेशत्वेन एकदेशिन आकाङ्क्षितत्वात् पुरुषविशेषणतया हरणकर्मत्वेन च द्वयोः समत्वात् परस्परसंबन्धानुपपत्तेः । वित्तार्जनादिति पञ्चम्यन्तेन द्व्यंशरूपैकदेशान्वयार्थोपादानस्याविवादात् अर्धपदेनापि
व्यप्र.४३९
स्वार्जिते पितुरधिकांशहरत्वम् 'व्यंशहरोऽर्धहरो वा पुत्रवित्तार्जनात्पिता + ॥ (१) पुत्रस्य वित्तार्जनात् पितुशहरत्वं अर्धहरत्वं वेत्यस्यार्थः । न च पुत्रश्च वित्तं चेति पुत्रवित्ते तयोरर्जनात् पिता द्यंशहरः पुत्रानर्जनात्तु सर्वहर इति वाच्यं अनर्जितपुत्रस्यापि भ्रातृभिर्विभागे वित्तार्जकतया अंश द्वयस्येष्टत्वात् कथं सर्वहरत्वं अतो विभागार्हसंबन्धिनि विद्यमाने अर्जकस्य द्यंशित्वं असति तु सर्वहरत्वं वाच्यं तथात्र पितापुत्रयोः प्रमत्तगीतता स्यात् । किंचाजैनं स्वत्वहेतुभूतव्यापारः अर्जनं स्वत्वं नापादयति इति विप्रतिषिद्धमित्यभिधानात् न च पुत्रेषु स्वत्वमस्तीति सर्वस्वदाने प्रदर्शितं अतस्तत्र गौणमर्जनपदं वित्ते च मुख्यं न चैतत् सकृत् श्रुतस्य संभवति । न च पुत्रेणार्जितत्वात् पुत्रस्य यंशप्राप्तेः पितुश्च भागद्वयस्यास्माद्वचनादृतेऽपि प्राप्तेः समभागत्वापातात् विधानमनर्थकमिति वाच्यं एतद्वचनमन्तरेण पुत्रधने पितुर्भागद्वयस्याप्राप्तेर्बचनस्यार्थवत्वात् । किंच पुत्रवित्तार्जनादि त्यस्य पितृधनविषयत्वे पितुरिच्छातो शहरत्वं अर्धहरत्वं वेत्यनुपपन्नं इच्छानुरोधित्वात् ग्रहणस्य इच्छायाश्चानियतत्वात् सार्द्धसपादपादोनांशग्रहणस्यापि संभवात् कथं पक्षद्वय मात्रकीर्तनं नियमार्थत्वं च पितृधनगोचरं न संभवतीत्युक्तं प्राक् । अत्र च पुत्रार्जितवित्तस्य यथा यशहरत्वं तथा तस्यैव वित्तस्यार्धहरत्वमिति युक्तम् । न पुनद्यंशस्यार्ध मे कोंऽशस्तद्ग्रहणार्थं वचनं अर्धस्य
+ विता. व्याख्यानं स यथेकपुत्रः स्यात्' इति शङ्खवचने (पृ. ११६७) द्रष्टव्यम् ।
(१) दा.४९; दात. १७४; व्यप्र. ४४४; विता. ३१३; सेतु. ६८; विभ.६५,६७; विच.८६.
तस्यान्वयो युक्तः वित्तार्जनार्धपदयोश्वाव्यवधानात्
।
वित्तस्यैवार्ध प्रतीयते न पुनर्द्यशस्यार्धमेकोंऽशः प्रतीयते स्वायत्ते चैकांशपदे प्रयोक्तव्येऽवाचकपदप्रयोगस्यान्याय्यत्वात् वित्तस्यैवार्धं युक्तम् । तत्र पितृद्रव्योपघातेन पुत्रार्जितवित्तस्यार्धं पितुः अर्जकस्य पुत्रस्यांशद्वयं इतरेषां एकैकांशिता अनुपघाते तु पितुरंशद्वयं अर्जकस्यापि तावदेव इतरेषामनंशित्वम् । यद्वा विद्यादिगुणसंपन्नस्य पितुरर्धहरत्वं विद्यादिनाऽपि ज्येष्ठस्यैवाधिकांशदर्शनात् विद्यादिशून्यस्य जनकतामात्रेण व्यंशित्वम् । तेन क्रमागतधनाद्वा पुत्रार्जितधनाद्वा भागद्वयं पिता स्वयं गृह्णीयात्, अतोऽधिक मिच्छन्नपि नार्हतीति वचनार्थः । स्वार्जितधनात्तु यावदेव ग्रहीतुमिच्छति तावदेव गृह्णीयात् ।
1
+दा.४९-५२
(२) [ जीमूतवाहनं खण्डयति ] तन्न । द्वन्द्वापेक्षया पठ्यर्थलक्षणावतो भवदुक्तसमासस्यायुक्तत्वात् । यच्चानर्जितपुत्रस्येत्यादिद्वन्द्वदूषणं तदत्यसंबन्धम् । भ्रातृभागाद्यविषयकत्वादस्य । पितृधनप्रस्तावात् । न चैवं पुत्रपदं व्यर्थ वित्तार्जनस्यैव यंशहरत्वे हेतुत्वोपपत्तेरिति वाच्यम् । अस्वातन्त्र्यार्थत्वात् । यतः पुत्रोऽपि वित्तवत्तेनैवार्जितस्तेन परतन्त्रः । स्वार्जितधने पितुरंशद्वयग्रहणावग्रहो न भवतीत्यत्र तात्पर्यम् । यच्चार्जनपदवैरूप्यं तदप्यसत् । पुत्रेऽपि पितृस्वत्वस्येष्टत्वात् । न च सर्वस्वदाननयविरोधः । पित्राद्यस्वत्वे तस्य तात्पर्यात् । पुत्राद्यदानस्य तन्नयसिद्धान्तस्य भाष्यप्रदर्शितचोदकविरोधयुक्तिसिद्धत्वात् । अत एव पुत्रकन्यादानादिविधयो मुख्यार्था एव न पुत्रादिपरतन्त्रीकरणरूप गौणदानाद्यर्थाः । इदं च पितुरंशद्वयोपादानं स्वार्जितविषयं न पित्रर्जितविषयम् ।
व्यप्र. ४४५
+ दात दावद्भावः । सेतु. दागतम् ।