________________
११६८
व्यवहारकाण्डम्
इति । वाशब्दो यक्ष्यमाणपक्षापेक्षः । 'सर्वे वा
समशिन' इति । सर्वे वा ज्येष्ठादयः समाशभाव: कर्तव्याः अयं च विषमो विभागः स्वार्जितद्रव्यविषयः । पितृक्रमायाते तु समस्वाम्यस्य वक्ष्यमाणत्वान्नेच्छया विषमो विभागो युक्तः । + मिता. (२) अस्मन्मते तु इच्छ्या विभजेदिति स्वोपासधनविषयं श्रेष्ठांशतासमानांशतयोस्तु पैतामहधन गोचरत्वमिति न किमप्यनर्थकम् । *दा. ५४ (४) पित्रादिनस्य पुत्रादीनुद्दिश्य विविच्य भागकरणं विभागः । तत्र पितृधनं पिता विभजेदित्युत्सर्गः । हेतुविशेषे तु पुत्रा अपि विभजन्ते तदुपरिष्टाद्वक्ष्यते । तत्र यदि पिता विभजेत्तदिच्छया न्यूनाधिकविभाग-' विषयान्सुतानुद्दिश्य धनं विभजेत् । अस्मद्धनस्यायमंशस्तवायमंशस्तवेति व्यवस्थापयेदिति यावत् । शंख ' यद्येकपुत्रः स्यात्तदा द्वौ भागौ वाऽऽत्मनः कुर्यात् ' । नन्विच्छ्येति न वक्तव्यं, विभागकर्तृत्वादेव तत्प्राप्तेः । न हि चेतनोऽनिच्छक्रियासु स्वतन्त्र भवति, स्वतन्त्र एव कर्तोच्यते । सत्यम् । विभागकर्तृत्वादेव विभागविपवेच्छा प्राप्ता । अत एवासाचिच्छ्या विभजेदित्यनेन (न) विधीयते किं त्वन्यैव । तस्याश्च कस्यचित्पुत्रस्य न्यूनो धनाशः कस्यचिदधिक इत्येवं विषमो भागो विषयः । ततश्चेच्छया न्यूनाधिकविभागैः सुतान्विभजेदित्यर्थः । यद्यपि विभजेदित्यस्माद्विभाग एव प्रतीयते, न वैषम्यविशिष्टस्तथाऽपि व्येवस्य विंश उद्वारः सर्वद्रव्याच्च यद्वरम् । ततोऽधे मध्यमस्य स्यात्तुरीयं तु यवीयसः ||' इत्यादिभिरुद्धारशास्वत उद्धारप्रकारा विहितास्ते सर्वेऽप्रोपलक्षिता भवन्ति । ततश्च पारिशे (प्याद्विभागकर्तुरिच्छ्या विभागवैषम्यं 'इच्छा विभ जेत्सुतान्' इत्यत्र विधीयत इति सिद्धम् । अत्र नारद:- पित्रेव तु विभक्ता ये समन्यूनाधिकेनेः । तेषां स एव धर्मः स्यात्सर्वस्य हि पिता प्रभुः ।।' इति । न चैतदुद्धारवाक्यार्थविषयमिति वाच्यं पिता प्रभुरिति वचनात् । न ह्युद्धारे पितुः प्रभुत्वं किंतु शास्त्रस्य । बृह
1
*याज्ञवल्क्यः पितृकृतसमविषमविभागविधिः
'विभागं चेत्पिता कुर्यादिच्छ्या विभजेत्सुतान् । ज्येष्ठं वा श्रेष्ठभागेन सर्वे वा स्युः समांशिनः ॥ (१) एवं प्रागुक्तानेकप्रकारार्जितस्य द्रव्यस्य -- विभागं चलिता कुर्यात् इच्छ्या विभजेदित्यादि । यदा ह्याश्रमान्तरं प्रपित्सुः पुत्राणां वा गुणवतां धर्मप्रवृत्तिसिद्धयर्थ, कौतूहलाद्वा स्वद्रव्येण पुत्रान् विभजेत् संयोजयेदित्यर्थः । तदेच्छया यावद् यस्मै रोचते । दातुं तावदेव तस्मै दद्यात् न पुत्रेच्छया । न पुत्रैः पिता विभाग विशेषनियमं वा कारवितथ्य इत्यर्थः अत एव च ज्येष्ठं वा श्रेष्ठभागेनौचित्याद् योजयेद् ऊनं वाभ्यधिकं वा । अथवा सर्वान् समाशिनः कुर्यात् । तत्र तथैव स्याद्, । , यथैव पितुरिच्छेति पुत्राश्रयो विधिरनवयः
।
विश्व. २।११८ (२) इदानीं यत्र काले येन च यथा विभागः कर्तव्यस्तद्दर्शयन्नाह — विभागमिति । यदा विभागं पिता चिकीर्षति, तदा इच्छया विभजेत् पुत्रानात्मनः सकाशात् पुत्रं पुत्रौ पुत्रान् । इच्छावा निरङ्कुशत्वादनियमप्राप्तौ नियमार्थमाह-- ज्येष्ठं वा श्रेष्ठभागेनेति । ज्येष्ठं श्रेष्ठभागेन, मध्यम मध्यभागेन कनिष्ठं कनिष्ठ भागेन, विभजेदित्यनुवर्तते । श्रेष्ठादिविभागश्च मनुनोक्तः 'ज्येष्ठस्य विंश उद्धारः सर्वद्रव्याच्च यद्वरम् । ततोऽर्व मध्यमस्य स्यातुरीयं तु यवीयसः ॥ ( ९।११२ )
कोविच (१.११४९) म् (१) यास्मृ. २।११४, अपु. २५६/१६ विश्व. २।११८६ मिता; . दा. ५४; अप. २।११४:२।१२१ पू.; व्यक. १४१; स्मृच.२६०६ ममु.९।१०४ पू. वि२.४६४ इच्छ :४८५ उत्त.; स्मृसा.५४(-) (पिता चेद्विभजन् स्वं स्वं इच्छ्या विभजेत्सुतान् ); पमा. ४८५; रत्न. १३९६ मपा. ६४५६ विचि. १९६-१९७ विरवत्; व्यनि; स्मृचि. २९ हा श्रेष्ठ (च ज्येष्ठ); मृप्र. ३४ उत्त; दात. १६८१ सवि. १७३० मच. ९१०४९२०९ पू. दानि १६ बीमि
प्र. ४.३२-४३३:४३८ उत्त; व्यठ. १४३ उत्त; व्यम. ४२; चित्रा, २९४; राकौ. ४४५; बाल. २।११६ पू.; विभ. ४४.५२ पादः ७४.११० विच.५९,६२.
:
+ विश्वरूपमतमत्र व्याख्यातम् । मपा. व्याख्यानं मितागतं 'एकाधिकं हरेज्ज्येष्ठ' इति मनुवचनस्थमितागतं च विर., पमा, व्यनि. मितागतम् । * दात दागतम् ।