________________
११६२
यदि तव शिष्टपश्वपेक्षाऽस्ति तर्हि मां यज्ञे भागिनं कुरु ततस्तुभ्यं दत्तानेतान्पशून्न मारयिष्यामीति रुद्रोऽब्रवीत् । ततो नाभानेदिष्ठस्तस्मै रुद्रायैतं मन्थिनः संस्रावमजु होत् । मन्थिग्रहं हुत्वा तत्पात्रस्थं द्रव्यशेषं परिधेहि स्थापितेऽङ्गारे हुतवान् । ततस्तुष्टो रुद्रस्तस्य नाभा नेदिष्ठस्य पशून्नैव हिंसितवान् । तैसा. तमेवं विद्वान्मन्थिनः सस्रावं जुहोति न तत्र रुद्रः पशूनभि मन्यते ।
आख्यानं परिसमाप्य विधत्ते - ऐन्द्रवायवादिक्यान्तेषु ग्रहेषु गृहीतेषु ऋतुपात्रयोः सोमग्रहणात्प्रागे वैन्द्रवायवमन्थिग्रहप्रचारस्य काल (र्य) त्वान्मधुश्च माधवश्चेत्येतस्मादनुवाकात्प्रागेवाध्वरो यज्ञ इत्याघारमन्त्र एष ते रुद्र भाग इति संस्रावमन्त्रश्च द्रष्टव्यः । तैसा.
*येत आसन् दश जाता देवा देवेभ्यः पुरा । पुत्रेभ्यो लोकं दत्वा कस्मिंस्ते लोक आसते ॥
देवेभ्यः अधिष्ठातृभ्यः अग्न्यादिदेवताभ्यः पुरा पूर्व ये ते देवाः प्रागुक्ताः प्राणापानाद्या दशसंख्याका जाता आसन् ते पुत्रेभ्यः आत्मजेभ्यो लोकं स्वकीयं स्थानं दत्वा कस्मिन् लोके स्थाने आसते उपविशन्ति । यथा लौकिका जनाः पुत्रान् उत्पाद्य तेषां स्वकीयं स्थानं दत्वा स्थानान्तरं स्वनिवासाथै आश्रयन्ति एवं एषां सृष्टानां इन्द्रियाणां तदधिष्ठातृणां च देवानां निवासाश्रयः क इति प्रश्नार्थः । अस्य प्रश्नस्य 'देवाः पुरुषं आविशन्' इति प्रतिवचनं अग्रे भविष्यति ।
असा.
व्यवहारकाण्डम्
ज्येष्ठपुत्रः द्विभागघनभागी पिता वा द्विभागघनमादाय प्रक्षिणात्य । . अग्निः पुत्रस्य ज्येष्ठस्य यः क्रव्यादनिराहितः ।। जीवति पितरि पुत्रकृतपैतृकधनविभागः
. नाभानेदिष्टं वै मानवं ब्रह्मचर्यं वसन्तं भ्रातरो निरभजन्सोऽब्रवीदेत्य किं मामभाक्तेत्येतमेव निष्ठावमववदितारमित्यब्रुवंस्तस्माद्धाप्येतर्हि पितरं पुत्रा निष्ठावोऽववदितेत्येवाऽऽचक्षते ।
(१) तैसं. ३।१।९।६. (२) असं. ११।१०।१०. (३) असं.१२।२।३५. (४) ऐबा. २२/९.
स पितरमेत्याब्रवीत्त्वां ह वाव मह्यं त ( ता) ताभाक्षुरिति तं पिताऽब्रवीन्मा पुत्रक तदाहथा अङ्गिरसो वा इमे स्वर्गीय लोकाय सत्रमासते ते षष्ठं षष्ठमेवा हरागत्य मुह्यन्ति तानेते सूक्ते षष्ठेऽहनि शंसय, तेषां यत्सहस्रं सत्रपरिवेषणं तत्ते स्वर्यन्तो दास्यन्तीति तथेति ।
मनोः पुत्रो नाभानेदिष्ठो नाम बालको गुरुगृहे ब्रह्मचर्ये वसत्युपनीतः सन्वेदमध्येतुं तत्र तिष्ठति । तदानीं तस्य ज्येष्ठभ्रातरो मनोः पितुर्धनं स्वार्थं विभजन्तस्तं बालकं निरभजन्भागरहितमकुर्वन् । बालोऽयं ब्रह्मचारी वेदमेवाभ्यस्यतु किं तस्य धनेनेति मत्वा भागं न दत्तवन्तः । तदानीं स नाभानेदिष्ठ एत्य वेदाभ्यासं कृत्वा समागत्य भ्रातृनिदमब्रवीत् । हे भ्रातरो मह्यं किमभाक्त, किं नाम वस्तुभागत्वेन यूयं पृथक्त्वेन कृतवन्त इति । ते च भ्रातर एतमेव मनुं पितरं हस्तेन प्रदर्य हे नाभानेदिष्ट वयं नो जानीमस्तमेव पृच्छेत्यब्रुवन् । कीदृशं मनुम् । निष्ठावम् । धनविभागादेर्धर्मरहस्यं (स्वस्य ) निःशेषेण स्थितिर्निर्णयो निष्ठा सा यस्मिन्नस्ति स निष्ठावः । तादृशं धर्मरहस्यनिर्णेतारमित्यर्थः । अववदितारम् | ज्येष्ठपुत्रस्यैतावत् द्वितीयस्यैतावत् अन्यस्यैतावत्, इत्यवच्छिद्य वे (वं) दितुं समर्थोऽववदिता तादृशम् | अयमर्थः। अयं मनुर्धर्मशास्त्रक्रर्तृत्वाद्धर्मरहस्यनिर्णयवान्पितृत्वेन तवैतावदित्यवच्छिद्य वक्तुं समर्थश्च । तस्मान्मदीयो भागः क इति मनुमेव पृच्छेत्यब्रुवन् । यस्मादस्य भ्रातर एवमुक्तवन्तस्तस्मादिदानीमपि पितरं पुत्रा इत्यनेन प्रकारेणाऽऽचक्षते । केन प्रकारेणेति सोऽभिधीयते । अयं पिता निष्ठावो निर्णयवानस्यैतावदित्यवच्छिद्य वदिता चेति । तत ऊर्ध्वं नाभानेदिष्ठस्य कृत्यं दर्शयति स पितरमेति इति । स नाभानेदिष्ठो भ्रातृभिस्तथोक्तः सन्पितरं प्रत्यागत्येदमब्रवीत् । हे पितर्मह्यं वा (त्व) हवाव त्वामेव भ्रातरः सर्वेऽप्यभाक्षुर्भागमकार्षुरतो मदीयो भागस्त्वय्यस्ति तं मे देहीत्यभिप्रायः । ततस्तं नाभानेदिष्टं पिता मनुरेवमब्रवीत् । हे पुत्रक बालक भ्रातॄणां वचनं माऽऽदृथास्तस्मिन्वचन आदरं मा काषीः । नास्येव पद्धस्ते त्वदीयो भागः सर्वमपि धनं | त्वद्भ्रातृभिर्गृहीतम् । तव तु धनप्राप्त्यर्थमेकमुपायं