________________
११३०
व्यवहारकाण्डम्
अभा. ४४
(२) शुक्लादिप्रभेदांश्च विशिनष्टि - श्रुतशौर्यतप इति । | यदुपार्जितं भवति तत्कृष्णमित्युच्यते । अधममित्यर्थः । शुक्लं तद्भेदाश्चोच्यन्ते । श्रुतेमोपात्तमध्ययनादिना । एवं शुक्लशबल कृष्ण संज्ञाभिस्त्रिविधं धनमेकैकशश्च सप्तशौर्येण युद्धादिना । तपसा जपहोमदेवताराधनादिना । | प्रकारमप्यभिहितम् । कन्यया शुल्क निमित्तम् । शिष्येभ्य आगतं गुरुदक्षिणा । याज्यादुपागतमार्त्विज्येन । अन्वयागतं क्रमागतं यस्य यद् विहितं तस्य तथा प्राप्तमेव । तच्छुक्लमित्युक्तं सप्तप्रकारम् । उदयः फलं तस्य धनस्य, तथाविधं शुक्लमेव, शुद्धं धर्मत एवेत्यर्थः । कुसीदकृषिवाणिज्यशुल्कशिल्पानुवृत्तिभिः । कृतोपकारादाप्तं च शबलं समुदाहृतम् ॥
(२) संप्रत्यशुद्धमुच्यते – पार्श्वकद्यूतमिति । पार्श्वकमुत्कोचादिनोपात्तम् । द्यूतेनोपात्तं सत्यानृताभ्याम् | दूतं दौत्येनोपात्तम् । आर्तादागतम् । प्रतिरूपकं कूटादि • नोपात्तम् । सहसोपात्तं चौर्यादिना । व्याजेन चानृतेन सत्याभासेनात्र सर्वत्र प्रतिषिद्धत्वादसत्यातिसंधानसंबन्धाच्च कृष्णमेव ।
नाभा. २।४१
(१) तत्र कुसीदं वृद्धिप्रायः । कृषिः कर्षणम् । वाणिज्यं भाण्डक विक्रयः । शुल्कं कन्यासंप्रदाने धर्म्य चाधर्म्य । शिल्पमा लेख्यादिविज्ञानम् । अनुवृत्तिः सेवाराधनम् । कृतोपकारः प्रत्युपकारः । तैः सप्तभिः प्रकारैर्ब्राह्मणस्य धनं यद्भवति तच्छबलमित्युच्यते । मध्यममित्यर्थः ।
अभा. ४४
।
(२) संप्रति शबलं तद्भेदाश्चोच्यन्ते । कुसीदमन्यायोद्द्वृत्तमर्थप्रयोगः, अल्पं दत्त्वा भूयसो ग्रहणादधर्मानु षक्तम् । कृषिरपि 'भूमिं भूमिशयांश्चैव हन्ति काष्ठमयोमुखम् ।' इत्यधर्मानुषक्तत्वात्, 'ऋतामृताभ्यां जीवेत ' इत्यादिना विहितत्वाच्च शबलम् । वाणिज्यमप्यतिसंधानपरत्वात् ‘सत्यानृताभ्यामि'ति विधानाच्च शबलम् शुल्कमारभटगुल्मादिषु भूताभूतग्रहणाच्छबलम् । शिल्पं कारुकवृत्तिः स्वश्रमफलत्वाद् अतिसंधानसंबन्धपरत्वाच्च शबलम् | अनुवृत्तिः सेवा, सापि शिल्पवत् । कृत उपकारो यस्य तत एव चोपकारकरणात् तस्य च विक्रयत्वाच्छबलम् । नाभा. २।४२ पार्श्वद्यूत दूतार्तप्रतिरूपक साहसैः । व्याजेनोपार्जितं यच्च तत् कृष्णं समुदाहृतम् ॥
(१) तत्रोत्कोचो लञ्चोपचारः । द्यूतमक्षादिक्रीडा । दौत्यं दूतकर्म । आर्तः कश्चिद्भोगात व्यसनी । तथा प्रतिरूपकं सुवर्णरजतादीनां कूटप्रतिकृतिकरणम् । साहसं चौर्यादि । व्याजं छलम्। एतैः सप्तभिः प्रकारैर्धनं
(१) नासं. २।४२; नास्मृ. ४/४६; अभा. ४४. (२) नासं. २०४३; नास्मृ. ४/४७ पार्श्वक (उत्कोच) दूता (दौत्या) तत् कृष्णं समु (कृष्णं हि तदु); अभा.४४ नास्मृवत्
नाभा. २।४३
धनसाध्यानि " तेन क्रय विक्रयश्च दानं ग्रहणमेव च । aar प्रयुज्यन्ते क्रियाः संभोग एव च ॥ (१) अत्र जगत्यपि कचित्कीदृशेनापि तेन त्रिवि - धेन एकविंशतिभेदभिन्नेन ऋयो विक्रयश्च दानं ग्रहणं च विविधाश्च कर्मक्रियाः प्रवर्तन्ते । विविधसंभोगाश्चेति ।
अभा. ४४
(२) त्रिप्रकारेणैव धनेन क्रयविक्रयदानग्रहणोपभोगा धनानुरूपाः क्रियन्ते, विविधाश्च क्रियाः । नाभा. २।४४ येथाविधेन द्रव्येण यत्किञ्चित् कुरुते नरः । तथाविधमवाप्नोति स फलं प्रेत्य चेह च ॥ (१) एते शुक्लशचलकृष्णा भेदा धनस्यैतदर्थे दर्शिताः । येनैतेषां विनियोग इहलोकपरलोकफलानां त्रयाणामपि वर्णानां यच्छुभं तत्सर्ववर्णसाधारणं त्रिविधं भवति ।
अभा.४४
(२) यथाविधेन द्रव्येण शुक्लेन शबलेन कृष्णेन वा यत्किञ्चित् कुरुते यजनयाजनादि, तथाविधं तत्प्रकारं धनानुरूपमित्यर्थः । शुक्लेन शुद्धमेव दुःखरहितम् । शबलेन मिश्रं, कृष्णेन दुःखोदयं, इहापि तथैव । नाभा. २।४५ सर्ववर्णसाधारणो वर्णविशेष नियतश्चार्थागमः
तँत् पुनर्द्वादशविधं प्रतिवर्णाश्रयं स्मृतम् । साधारणं स्यात् त्रिविधं शेषं नवविधं स्मृतम् ॥
(१) नासं २:४४; नास्मृ. ४।४८ प्रयुज्यन्ते (प्रवर्तन्ते); अभा. ४४ नास्मृवत्.
(२) नासं. २।४५; नास्मृ. ४।४९; अभा.४४. (३) नासं. २।४६; नास्मृ. ४/५० श्रयं (श्रयात्) धं स्मृतम् (धं विदुः ).