________________
११२६
न च
पादको वाशब्द इत्याहुः । अत एवाश्वलायनेन अग्निनाशे युगलोजान्तसंस्कारकलापं कृत्वा पुनर्जुहुयादिमुक्तम् । 'श्रौतं वैतानिकामिषु' इति पृथगुक्तिः सर्वथा वैतानिकान्नीनां विभागो नास्तीति ज्ञापनार्था । अत्राहुः - बैवाहिकामेरलौकिकत्वपक्षे परस्परं पृथगनुष्ठानमेव विभागः । लौकिकत्वपक्षे परस्परमभिस्वीकरणमेव विभाग इति लक्ष्मीधरप्रभृतयः । एतच्च विभागसंदेह निर्णये प्रपञ्च्यते । असहायविज्ञान योगिप्रभृतीनां तु यत् स्वामिसंबन्धादेव निमित्तादन्यस्य स्वं भवति तद्दायशब्देनोच्यते इति; तन्न सहन्ते भारुच्यपरार्कप्रभृतयः - स्वत्वहेतूनां क्रयादीनां तल्लक्षणसंभवात् । वाच्यमेवकारेण क्रयादयो व्युदस्यन्ते, क्रेतरि दायादो दायं गृह्णातीति लौकिकप्रयोगाभावादिति । तर्हि स्त्रीणां दायानर्हत्वात् . ‘तस्मात्स्त्रियो निरिन्द्रिया अदायादाः' इति श्रुतेः स्त्रीधनं दायशब्दवाच्यं न भवतीति तदुत्तरत्र स्फोर्यते । विभागो नाम द्रव्यधर्मयोरन्यतरस्य पृथक्करणमित्याह भारुचिः । विज्ञानयोगी तु विभागो नाम द्रव्यसमुदायविषयाणामनेकस्वाम्यानां तदेकदेशेषु व्यवस्थानमित्याह । तन्न सहते भारुचिः - धर्मविभागे तदभावात् । धर्मविभागो नाम धर्ममात्रविभागः पृथग्वैश्वदेवपञ्चमहायज्ञानुष्ठानपैतृकादिकरणम् । तच्च केषांचिदत्यन्तनिस्स्वानां द्रव्याभावात् धर्मविभागः कर्तव्यः ‘विभागे धर्मवृद्धिः स्यादिति गौतमस्मृतेः । धर्मवृद्धिकामानां धर्ममात्रविभागो वा कर्तव्यः । अत एव विष्णुः'धर्ममात्रं वा विभजेत्' इति । अत्यन्तनिस्स्वानामिति शेषः । अनेन ज्ञायते परिभाषां विना संकल्पमात्रेणापि विभागसिद्धिः । यथा, पुत्रिकाकरणं परिंभाषां विना संकल्पमात्रात्सिध्यतीति । द्रव्यवतां तु धनविभागानन्तरमेव धर्मविभागः । 'विभक्ता भ्रातरः कुर्युर्नाविभक्ताः कथंचन' इति । विभक्तकर्तव्यतया धर्मान् वैश्वदेवादिकानधिकृत्योक्तत्वात् । अतश्च निस्स्वानामितरानुमत्या तदन्तरेणापि धर्मानुष्ठानमेव धर्मविभागः । धनिकानां धनविभागः । एवं विभा गस्य द्वैविध्यम् । अत एवोक्तं विष्णुना - द्विविधो विभागः कर्ममूलो दायमूलश्चेति । अत्र दाय शब्दस्य सामान्यवाचित्वेऽपि विशेषपर्यवसानाद्द्रव्य
1
व्यवहारकाण्डम्
वाचित्वम् । अत्र धर्मशब्देन तत्साधनभूतमग्निहोत्रादिकमुच्यते । धर्मविभागो मनुयाज्ञवल्क्यादिस्मृतिकाराणां तत्स्मृति व्याख्यातृणामसहाय मेधातिथिविज्ञानयोगीश्वरा-परार्काणां निबन्धूणां चन्द्रिकाकारादीनां च संमत एव । सवि. ३४४-३४८
वसिष्ठः
सर्ववर्णसाधारणोऽसाधारणश्चार्थागमः
पैतृकं क्रीत माधेयमन्वाधेयं प्रतिग्रहम् । यज्ञादुपगमो वेणिस्तथा धूमशिखाष्टमी ॥ तत्र भुक्तानुभुक्तदशवर्षम् ।
मनुः सर्वसाधारणोऽसाधारणश्चार्थागमः
सप्त वित्तागमा धर्म्या दायो लाभः क्रयो जयः । प्रयोगः कर्मयोगश्च सत्प्रतिग्रह एव च ॥
(१) दायोऽन्वयागतं धनम् । लाभो निध्यादेः पित्रा - द्यर्जिताद्वा निबन्धात्संविभागः । यद्यपि तत्यित्रादिक्रमायातं तथापि न तद्दायशब्देन शक्यमभिधातुं बहुसाधारण्यात् । तथा च 'निबन्धो द्रव्यमिति स्मृत्यन्तरे पठितम् । अथवा मित्राच्छ्शुरगृहाद्वा यल्लब्धं प्रीत्या लाभः । क्रयः प्रसिद्ध: । जयः संग्रामे । प्रयोगकर्मयोगौ कुसीदकृषिवाणिज्यान्यतश्च वर्णभेद्रेनैतेषां धर्म्यत्वम् । तत्राद्यास्त्रयः सर्वसाधारणाः । जयः क्षत्रियस्य । प्रयोगकर्मयोगौ वैश्यस्य । सत्प्रतिग्रहो ब्राह्मणस्य । विशेषाश्रवणेऽपि प्राग्दर्शनन्यायो विभागः । केचित्क्रये विवदन्ते तन्न युक्तं सर्वव्यवहारोच्छेदप्रसङ्गात् । जयं यानबन्धेनापि केचिदिच्छन्ति सर्वविषयं तदयुक्तम् । द्यूतधनस्य स्मृत्यन्तरे स्वशुद्धित्ववचनात् पार्श्वकद्यूतेत्यत्र (?)। तथापरे प्रयोगमव्यापारमाहुः । तथा हि प्रयोगो दृश्यते 'ज्ञानपूर्वप्रयोग' इति । तत्र शब्दस्य प्रयोग इति गम्यते ।
* स्थलादिनिर्देशः व्यवहारमातृकायां भुक्तिप्रकरणे (पृ. ३८२)
द्रष्टव्यः ।
(१) मस्मृ. १०।११५३ मिता. २।११४; व्यक. १४५; विर. १३०१ पमा. ४८३६ रत्न. १३८६ विचि. ५८; सवि. ४०४ स्मरणम् ; चन्द्र. ४३; व्यप्र.४२३; विता. २८२; सेतु. १५०; समु. १२६; विच.१८१ विव्य. ३७.