________________
दायभागः -- दायभागपदार्थः
११२५
विभागः कर्तव्यः 'विभागे धर्मवृद्धिः स्यादिति । उक्तः । तच्चाग्निहोत्रादि पैतृकमेवाङ्गीकर्तव्यम् । गौतमस्मृतेः । सवि. ३४७ अन्यथा 'कर्म स्मार्त विवाहान्नाविति व्याहन्येतेति । अत्राह काकः — अभ्रातृकस्य वैवाहिको भ्रातृणां दायकालात एवेति व्यवस्थेति । अतश्च दायकाले दायविभागकाले दायत्वेनाहृते स्वीकृत इति । भारुचिः - अजीवद्विभागे श्रोत्रियागारात् ज्येष्ठेनानीत| मग्निं भ्रातरो विभजेयुः । अत्र पैतृकत्वममेरुपचरितम् । जीवद्विभागे पित्रानीतममिं विभजेयुः । पित्रानीतः पैतृक इति मुख्यं पैतृकत्वमग्नेः । अस्मिन्पक्षे तथाविधस्यैवाऽग्नेः पित्रा स्वभ्रातृभ्य आनीतत्वादिति । अत्र केचिदाहुः -दायकालाहृत इत्यस्य अग्निहोत्रस्वीकरणस्य कालान्तरमुक्तमिति । तन्न सहन्ते भारुचिप्रभृतयः । तथा सत्यसंस्कृत्यास्वीकारप्रसंगादिति । केचित्तु —— दायाद्यकाल एकेषाम् इति स्मृतेः अग्न्याहरणस्य कालान्तरमुक्तमिति । अत्रेदं तत्वम् । वैवाहिकोऽग्निर्लोकिकोऽकौकिकश्चेति मतद्वयम् । लौकिकत्वपक्षे प्राकरणिकस्य मन्त्राम्नानस्य वैधदान सिद्ध्यर्थत्वात् कर्तृसंस्कारकत्वमेव । नाग्निसंस्कारकत्वम् । आहरणमात्रस्य मथनमात्रस्य वा संस्कारकत्वं वक्तुमयुक्तं 'मथितेनाग्निना श्रोत्रियागारादाहृतेन वा स्फटिकोत्पन्नेन वा दावानलेन वा विवाहः कार्यः' इति कर्कभाष्ये आहृतत्वमथितत्वयोः स्फटिकोत्पन्नत्वदावानलत्वाभ्यां तुल्ययोगक्षेमतया प्रतिपादनात् । न च स्फटिकोत्पन्नस्य स्फटिकोत्पत्तिरेव दावानलस्य वा दावानलत्वमेव संस्कार इति वक्तुं युक्तं, अतोलौकिक एव वैवाहिकाग्निरिति । अत एवापस्तम्बेन -- 'अग्निनाशे श्रोत्रियागारान्मथनाद्वाऽग्निमाहृत्य उपोध्यायाश्चेति प्रायश्चित्तं कृत्वा पूर्ववज्जुहुयात्' इत्युक्तम् । अनुगतो मन्थ्यः श्रोत्रियागारादाहृतो वायाश्चेति हुवा जुहुयादिति । अग्निनाशेऽप्ययमेव विधिरिति वृत्तिकारः । अत एवं संसृष्टानां पृथगग्निहोत्रकरणं च निषिद्धमिति यद्वचनं जातं तदुपपन्नं भवति । अयमर्थः - विभागकाले आहृतस्याः पुत्राणां परस्परविभागः । वैवाहि--- काझेरलौकिकत्वपक्षे 'भूर्भुवस्स्वरोमि त्यग्निं प्रतिष्ठापयेदिति विधेः श्रौतातिदेशेन अलौकिकत्वमग्नेः अत एवाविभागदशायामपि पृथगग्निहोत्रकरणपृथग्वै: श्वदेवादिकरणविधय उपपन्ना भवन्तीति । पक्षद्वय प्रति
विष्णुः
पैतृके स्वत्वोत्पत्तिः
जन्मना स्वत्वमापद्यते ।
पुत्रस्यैव न तु पुत्रिकाया इति भारुचिः ।
पैतृकधनस्वरूपं तद्विभागस्वरूपं चं
पैतृकधनं द्विविधं भोक्तव्यमनुष्ठातव्यं च । द्विविधो विभागः कर्ममूलो दायमूलश्च । धर्ममात्रं वा विभजेत् ।
(१) सवि. ४०२ | सबि. ३४८.
सवि.४०२
॥
(१) दायो नाम पितापुत्रसमुदायद्रव्यम् । 'पितृद्रव्यं विभक्तव्यं दायमाहुर्मनीषिणः' इति स्मृतेः । विभक्तव्यं विभागार्हम् । बृहस्पतिरपि – ' ददाति दीयते पित्रा पुत्रेभ्यः स्वस्य यद्धनम् । तद्दायं इति । पिता पुत्रेभ्यो यद्धनं ददातीति कर्त्रन्तपितृशब्दोऽध्याहर्तव्यः । एवं दायशब्दः कर्मण्येव व्युत्पन्न इति । अनेन पितापुत्रसमुदायविषयकं द्रव्यं दायमिति सामान्यलक्षणम् । संग्रहकारोऽपि – पितृद्वाराऽऽ गतं द्रव्यं मातृद्वाराऽऽगतं च यत् । कथितं दायशब्देन तद्विभागोऽधुनोच्यते ॥' इति । भारुच्य परार्कादीनां लक्षणं- विभागार्ह पितृद्रव्यं दायमिति । तदेव सम्यक् । धर्मविभागो द्रव्यविभागेऽप्यनुगुतः । न च वाच्यं, धर्माणामग्निहोत्रवैश्वदेवादीनां पितृद्रव्यत्वाभावाद्विभक्तव्यं पितृद्रव्यमिति लक्षणस्य तत्रानुगतिर्नास्तीति । ‘पैतुकधनं द्विविधं भोक्तव्यमनुष्ठातव्यं च' इति विष्णुवचनेन भोक्तव्यं क्षेत्रगवाद्विकं अनुष्ठातव्यमग्निहोत्रादिकमिति अनुष्ठातव्यस्याग्निहोत्रादेः पैतुकत्वस्य प्रतिपादनात् । अत याज्ञवल्क्यः –‘कर्म स्मार्त विवाहानौ कुर्वीत प्रत्यहं गृही। दायकालाहृते वाऽपि श्रौतं वैतानिकानिषु ||' विवाहसंबन्धादूर्ध्वमप्ययमग्निर्वैवाहिको भवत्येवेत्याह कंर्किः। दायकालाहृते वाऽपीत्यनेन अग्निहोत्रादेर्विभाग
एव
(२) सवि. ३४५. (४) सवि. ३४७.