________________
११२४
1
मुख्यः संभवति तद्विधौ युगपद्वृत्तिद्वयविरोधात् । न च पुत्रप्रतिग्रहविधिर्विप्राधिकारिक एव न क्षत्रियाद्य धिकारिक इति वाच्यम् । 'दौहित्रो भागिनेयश्च शूद्रस्यापि च दीयते' इत्यादिशौनकादिवचोभिस्तदधिकारिकत्वस्यापि अवगमात् । एवं ब्राह्मविधिना क्षत्रियादिकन्यया सह विप्रस्योद्वाहे दानप्रतिग्रहयोगौणत्वमङ्गीकार्यम् । अन्यत्र मुख्यत्वमिति वृत्तिद्वयविरोधः । क्षत्रियाम्प्रति ब्राह्मादिविवाहप्रवृत्तिस्तु सर्वेषामविप्रति पन्नैव । अत एव पुत्रादीनां दानं गौणमिति तन्त्ररत्ने 1 मिश्राः । न च स्वा भार्यापुत्रकन्या इति शाब्दव्यवहारात्स्वत्वकल्पना । तस्य स्वः पिता स्वा मातेत्यादाविव ज्ञातिवाचकत्वेनाप्युपपत्तेः । अस्ति च ज्ञातावपि स्वशब्दस्य शक्तिः । 'स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वोऽस्त्रियां धने' इति कोशात् । यत्तु षष्ठे गर्भदासदानमुक्तं तच्चिन्त्यम् । तन्मातरि मुख्यदानप्रतिग्रहक्रयविक्रयाद्यभावेन स्वत्वाभावे तदुत्पन्ने गर्भदासे सुतरां तदयोगात् । इत्यस्तु प्रासंगिकम् । व्यम. ४०-४१ 'वैश्यस्याधिकं कृषिवणिक्पाशुपाल्यकुसीदम् । एवं राज्ञोऽधिकं स्वत्त्वमूलमुक्तम् । सांप्रतं वैश्य स्याह—वैश्यस्याधिकमिति । कृषिः प्रसिद्धा । वणिगिति वाणिज्यम् । पशुपालस्य कर्म पाशुपाल्यम् । कुसीदं वृद्धयर्थो धनप्रयोगः । कृष्यादिभिर्यल्लब्धं तदधिकं स्वं वैश्यस्य । + गौमि. पैतृके स्वत्वोत्पत्तिः उत्पत्त्यैवार्थस्वामित्वं लभत इत्याचार्याः । (१) उत्पत्त्यैव मातृगर्भशरीरोत्पत्त्यैवेत्यर्थः ।
*स्मृच. २५८ (२) पितृस्वत्वोपरमेऽङ्गजत्व हेतुनोत्पत्तिमात्रसंबन्धे
+ मभा. गौमिगतम् । * सवि स्मृचगतम् । - (१) गौध. १०/४८; मभा.; गौमि. १०।५०.
व्यवहारकाण्डम्
(२) मिता. २।११४ भत (भेत); स्मृच. २५८ थे (थं) त्वं (त्वात् ); पमा. ४८४ थे (र्थ) त्वं लभ (त्वालभे); दात. र्थ १६२ पमावत् ; सवि . ४०२ र्थ (यं); व्यप्र. ४१४ मितावत्; व्यम. ३९; विता. २७८; विभ.४४ मितावत् समु. १२६ मितावत्; विच.२५ त्वं (त्वात्) भत (भेत).
नान्यसंबन्धाधिकेन जनकधने पुत्राणां स्वामित्वाद्धनं पुत्रो लभेत नान्यसंबन्धीत्याचार्या मन्यन्ते । न च पितृस्वत्वे विद्यमानेऽपि जन्मना तद्धने पुत्रस्वत्वमिति वाच्यम् । देवलवचनविरोधात् । तस्मात् देवलवचने पितरि विद्यमाने तद्धने पुत्राणामस्वाम्यश्रुतेः 'उत्पत्त्यैवार्थ स्वामित्वाल्लभेत इत्याचार्याः' इति गौतमवचनं पितृस्वत्वोपरमानन्तरमेव जन्मना पुत्रस्वत्वसंपादनात् स्वामित्वेन तद्धने पुत्रो लभेतेत्येतत्परम् । न तु पितृस्वत्वकाले जन्मानन्तरम् ।
दात. १६२ (३) वस्तुतस्तु लौकिकमेव स्वत्वं, लोके च जातमात्राणामेव पुत्रादीनां पित्रादिधने स्वाम्यव्यवहारोऽन्येषामपीति (१) साधयिष्यामः ।
यच्च पित्रादीनामनुमत्ययोग्यपुत्रादिसाधारणस्वत्वे कथमनुमतिमन्तरेणाधानादिकं स्यादित्युक्तम्, तंत् अनुमतियोग्येष्वपि पुत्रादिषु स्वातन्त्र्यात्पित्रादीनां न तदनुमत्यपेक्षा किमुतानुमत्ययोग्येष्विति परिहृतप्रायमेव । तद्विधिवलादेवाधिकारोऽवगम्यत इति तु विज्ञानेश्वराचार्य: । अतश्च 'उत्पत्यैवार्थस्वामित्वम्' इति गौतमवचनस्य यज्जीमूतवाहनरघुनन्दनाभ्यां पारम्परिकोत्पत्तिस्वत्वहेतुत्वेन व्याख्यानं कृतं तदपि व्यर्थमेव ।
व्यप्र.४१८
विभागप्राशस्त्यंम्
'विभागे तु धर्मवृद्धिः ।
दा. ६२
(१) तन्मातुरुपरमे वेदितव्यम् | (२) तुशब्दः पक्षं व्यावर्तयति, नैतदेवं ज्येष्ठ एव बिभृयादिति । यदुक्तं, विभाग एव ज्यायान् यतस्तत्र धर्मवृद्धिः । गौमि.
(३) तुशब्द हेत्वर्थः । यस्मात्प्रत्येकमतिथिदानादिकर्मानुष्ठानेन धर्मवृद्धिस्तस्माद्विभाग एव युक्ततर इति । अर्भकावस्थायामपि भिन्नबुद्धित्वे सति विभागः कर्तव्य इत्येवमर्थ उपदेशः । वृद्धिवचनाच्चांशप्रदातुरपि धर्मोऽस्त्येवेति ज्ञापयति ।
मभा.
(४) केषांचिदत्यन्तनिस्स्वानां द्रव्याभावात् धर्म
(१) गौध. २८|४; दा. ६२; मभा.; गौमि. २८|४; . स्मृच. २५९; सवि. ३४७, ३५१ ( तु० ); समु. १२६.