________________
दायभागः
-००,०९००
दायभागपदार्थः
अर्थागमः सर्ववर्णसाधारणो वर्णविशेषनियतश्च । स्वाम्यस्वत्वविचारः । दायपदार्थः । विभागपदार्थः । विभागप्राशस्त्यम् ।
प्रभवन्तं बहुभरणसमर्थं रथिं धनं यथा विभज्य प्रयच्छन्ति तद्वत् । असिन्वन् सेतुबन्धादिकं कर्म कुर्वन् लोकः पितुः 'ईशानास : पितृवित्तस्य रायो वि सूरयः शत- पालयित्र्या दिवः सकाशादागतं भोजनमुदकं तत्कार्या ओषधीर्दष्ट्रैर्दन्तैरत्ति। भक्षयति । यद्वा असिन्वन् अब्याप्रियमाणोऽग्निः पितुः पालकस्य यजमानस्य संबन्धि भोजनं हविर्लक्षणमन्नं दंष्ट्रैर्दन्तरूपैर्वालैरत्ति । यस्ताकृणोरित्यादि सिद्धम् ।
ऋसा.
*वेदाः
रिक्थम्
हिमा नो अश्युः ।
पितृवित्तस्य पित्रादिपरंपरया लब्धस्य रायो धनस्ये शानासः स्वामिनः सूरयो विद्वांसो नोऽस्माकं पुत्राः शतहिमाः शतं संवत्सरान् जीवन्तः सन्तो व्यश्युः । विशेपेण भुञ्जताम् । अस्मदीयानां पुत्राणामारोग्यं दीर्घमायुश्च भवत्वित्यर्थः ।
ऋसा.
क्रयः
'इमं दशभिर्ममेन्द्रं क्रीणाति धेनुभिः । यदा वृत्राणि जङ्घनदथैनं मे पुनर्ददत् ॥ मम मदीयमिमं स्वभूतमिन्द्रं धेनुभिः प्रीणयित्रीभि र्दशभिर्दशसंख्याकाभिः स्तुतिभिः कः क्रीणाति । क्रयं करोति । तदानीं हे क्रेतारो युष्माकं मध्य एवमपि समयः क्रियते । यदायमिन्द्रो वृत्राणि त्वदीयान् शत्रून् जङ्घनत् हन्यात् अथानन्तरमेवैनमिन्द्रं मे मह्यं पुनर्ददत् । पुनर्दद्यात् ।
ऋसा.
संविभागः
अँजाभ्यः पुष्टिं विभजन्त आसते रयिमिव पृष्ठं प्रभवन्तमायते । असिन्वन्दंष्ट्रैः पितुरत्ति भोजनं यस्ताकृणोः प्रथमं सास्युक्थ्यः ॥
हे इन्द्र पुष्टिं त्वया दत्तं पोषकं धनं स्वकीयाभ्यः प्रजाभ्यो विभजन्तोऽस्यैतावदस्यैतावदिति विभागं कुर्वन्तो गृहमेधिन आसते । स्वस्वगृहेषु निवसन्ति । तत्र दृष्टान्तः । आयते गृहं प्रत्यागच्छतेऽतिथये पृष्ठं धारकं
* वेदेषु धनागमलिङ्गानि वचनानि परः सहस्राणि वर्तन्ते दिग्दर्शनार्थमेवोद्धृतानि एतावन्ति ।
(१) ऋसं. १७३९. (२) ऋसं. ४।२४।१०. (३) ऋसं. २।१३।४.
कर्मयोगः अगस्त्यः खनमानः खनित्रैः प्रजामपत्यं बलमिच्छमानः । उभौ वर्णावृषिरुमः पुपोष सत्या देवेष्वाशिषो जगाम ॥ अगस्त्यो 'मद्गुरुः खनित्रैः फलस्योत्पादनसाधनैर्यज्ञस्तोत्रादिभिः खनमानः फलमभिमतमुत्पादयन् प्रजां प्रकर्षेण पुनः पुनर्जायमानमपत्यं कुलस्यापतनसाधनं पुत्रादिकं बलं चेच्छमानः सन् । यद्वा । प्रजां भृत्यादिरूपां चेच्छन् । ऋषिरतीन्द्रियद्रष्टा महानुभाव उग्र उद्गूर्णः संसारे संचरन्नप्यपापः सन्नुभौ वर्णौ वर्णनीयावाकारौ कामं च तपश्च पुपोष । सत्या आशिषो देवेषु देवेभ्यो जगाम । प्राप्तवान् । यतोऽयं महानुभावस्तस्मादस्मान्पातीत्यर्थः । नानानं वा उ नो धियो वि व्रतानि जनानाम् । तक्षा रिष्टं रुतं भिषग्ब्रह्मा सुन्वन्तमिच्छतीन्द्रायेन्दो परिस्रव ॥ ऋषिरेतदादिभिस्त्रिभिः सूक्तैरपरिस्रवतः सोमस्यामित्वाय मनसो विनोदनं कुर्वन्नाह । हे सोम नोऽस्माकं धियः कर्माणि नानानं नानाजातीयकानि बहूनि भवन्ति । वैशब्दः प्रसिद्धयर्थद्योतनार्थः । उ इति पूरणः । तथाऽन्येषामपि जनानां व्रतानि कर्माणि विविधानि भवन्ति । तक्षा त्वष्टा रिष्टं दारुतक्षणमिच्छति । तथा भिषग्वैद्यश्चि
ऋसा.
(१) ऋसं. १।१७९।६. (२) ऋसं.९।११२।१.