________________
स्त्रीपुंधर्माः
" देशान्तरमृते तस्मिन् साध्वी तत्पादुकाद्वयम् । निधायोरसि संशुद्धा प्रविशेज्जातवेदसम् ॥ ऋग्वेदवादात्साध्वी स्त्री न भवेदात्मघातिनी । त्र्यहाशौचे तु निवृत्ते श्राद्धं प्राप्नोति शास्त्रवत् ॥ विष्णुधर्मे
भेर्तर्येवं प्रवसिते त्यक्तव्या (क्ता वा ) पतिनाऽशुभा । कुर्वीताराधनं नारी उपवासादिना हरेः ॥ शुक्रनीति:
पतिव्रतावृत्तम्
जपं तपस्तीर्थसेवां प्रव्रज्यां मन्त्रसाधनम् । देवपूजां नैव कुर्यात् स्त्री शूद्रस्तु पतिं विना । न विद्यते पृथक् स्त्रीणां त्रिवर्गविधिसाधनम् ॥ पत्युः पूर्वं समुत्थाय देहशुद्धं विधाय च । उत्थाप्य शयनीयानि कृत्वा वेश्मविशोधनम् ॥ मार्जनैर्लेपनैः प्राप्य सानलं यवसाङ्गणम् । शोधयेद् यज्ञपात्राणि स्निग्धान्युष्णेन वारिणा ॥ प्रोक्षणीयानि तान्येव यथास्थाने प्रकल्पयेत् । शोषयित्वा तु पात्राणि पूरयित्वा तु धारयेत् ॥ महान सस्थपात्राणि बहिः प्रक्षाल्य सर्वशः । मृद्भिस्तु शोधयेच्चुल्लीं तत्राग्निं सेन्धनं न्यसेत् ॥ स्मृत्वा नियोगपात्राणि रसान्नद्रविणानि च । कृतपूर्वाहकृत्येयं श्वशुरावभिवादयेत् ॥ ताभ्यां भर्त्रा पितृभ्यां वा भ्रातृमातुलबान्धवैः । वस्त्रालङ्काररत्नानि प्रदत्तान्येव धारयेत् ॥ मनोवाक्कर्मभिः शुद्धा पतिदेशानुवर्तिनी । छायेवानुगता स्वच्छा सखीव हितकर्मसु ॥ दासीव दिष्टकार्येषु भार्या भर्तुः सदा भवेत् । ततोऽन्नसाधनं कृत्वा पतये विनिवेद्य सा । वैश्वदेवोद्धृतैरन्नैर्भोजनीयांश्च भोजयेत् ॥ पतिं च तदनुज्ञाता शिष्टमन्नाद्यमात्मना । भुक्त्वा नयेदहः शेषं सदायव्ययचिन्तया ||
(१) अप. ११८७; व्यक. १३७५ विर.४४२ तु निवृत्ते (निवृत्ते तु ); विभ. २६. (२) अप. १७७. (३) शुनी. ४।४।५- ३१ जीवानन्द भट्टैर्मुद्रितपुस्तकादिमे लोका गृहीताः, अस्माभिर्गृहीतादर्श पुस्तके 'जपं तप' इत्यारभ्य 'कृतशौचा' इत्यन्ताः श्लोका गलिताः ।
व्य. का. १४१
१११९
पुनः सायं पुनः प्रातर्गृहशुद्धं विधाय च । कृतान्नसाधना साध्वी सभृत्यं भोजयेत् पतिम् ॥ नातितृप्ता स्वयं भुक्त्वा गृहनीतिं विधाय च । आस्तृत् साधु शयनं ततः परिचरेत् पतिम् ॥ सुप्ते पत्यौ तदध्यास्य स्वयं तद्गतमानसा । अनग्न चाप्रमत्ता च निष्कामा च जितेन्द्रिया || नोच्चैर्वदेन्न परुषं न बह्वाहुतिमप्रियम् । न केनचिच्च विवदेदप्रलापविवादिनी || न चास्य व्ययशीला स्यान्न धर्मार्थविरोधिनी । प्रमादोन्मादरोषेयवचनान्यतिनिन्दिताम् ॥ पैशुन्य हिंसाविषयमोहाहङ्कारदर्पताम् । नास्तिक्य साहसस्ते यदम्भान् साध्वी विवर्जयेत्। एवं परिचरन्ती सा पतिं परमदैवतम् । यशस्यमिह यात्येव परत्रैषा सलोकताम् ॥ योषितो नित्यकर्मोक्तं नैमित्तिकमथोच्यते । रजसो दर्शनादेषा सर्वमेव परित्यजेत् ॥ सर्वैरलक्षिता शीघ्रं लज्जितान्तर्गृहे वसेत् । एकाम्बरा कृशा दीना स्नानालङ्कारवर्जिता || स्वपेद्भूमावप्रमत्ता क्षपेदेवमहस्त्रयम् । स्नायीत सा त्रिरात्र्यन्ते सचेलाभ्युदिते रवैौ ॥ विलोक्य भर्तृवदनं शुद्धा भवति धर्मतः । कृतशौचा पुनः कर्म पूर्ववच्च समाचरेत् ॥ द्विजस्त्रीणामयं धर्मः प्रायोऽन्यासामपीष्यते । कृषिपण्यादिपुंकृत्ये भवेयुस्ताः प्रसाधिकाः ॥ सङ्गीतैर्मधुरालापैः स्वायत्तस्तु पतिर्यथा । भवेत्तथाऽऽचरेयुर्वै मायाभिः कामकेलिभिः ॥
विधवावृत्तम् । प्रोषितभर्तृकावृत्तम् ।
मृते भर्तरि संगच्छेद् भर्तुर्वा पालयेद् व्रतम् । परवेश्मरुचिर्न स्याद् ब्रह्मचर्ये स्थिता सती ॥ मण्डनं वर्जयेन्नित्यं तथा प्रोषितभर्तृका । देवताराधनपरा तिष्ठेद् भर्तृहिते रता । धारयेन्मङ्गलार्थानि किञ्चिदाभरणानि च ॥ नास्ति भर्तृसमो नाथो नास्ति भर्तृसमं सुखम् । विसृज्य धनसर्वस्वं भर्ता वै शरणं स्त्रियाः ॥ मितं ददाति हि पिता मितं भ्राता मितं सुतः । अमितस्य प्रदातारं भर्तारं का न पूजयेत् ॥ .