________________
स्त्रीपुंधर्माः
व्रतोपवासनिरता ब्रह्मचर्ये व्यवस्थिता । दमदानरता नित्यमपुत्राऽपि दिवं व्रजेत् ॥ अदृष्टार्थदाने तदुपयोगिनोराधीकरणविक्रययोश्च तेनैवाधिकाराभिधानात् — व्रतोपवासनिरतेति । दिवं व्रजे दित्यनेन कायेsपि दानादौ तस्या अधिकारः प्रतीयते किमुत नित्ये नैमित्तिके च ।
व्यप्र.४९०
नियोगविधिनिषेधः
उक्त नियोगो मनुना निषिद्धः स्वयमेव तु । युगह्रासादशक्योऽयं कर्तुमन्यैर्विधानतः ॥ तैपोज्ञानसमायुक्ताः कृते त्रेतायुगे नराः । द्वापरे च कलौ नृणां शक्तिहानिर्हि निर्मिता ॥ अनेकधा कृताः पुत्रा ऋषिभिर्ये पुरातनैः । • तच्छक्यं नाधुना कर्तुं शक्तिहीनैरिदंतनैः।। कात्यायनः
कन्यायाः पुनर्दानादानपुनर्विवाहविचारः रयित्वा तु यः कश्चित् प्रणश्येत्पुरुषो यदा । रक्तमांस्त्रीनीत्य कन्यान्यं वरयेत्पतिम् ॥ ' वाग्दत्ताविषयमेतद्वाक्यम् । रक्तागमो रजोदर्शनम् । अप. ११६५
प्रदाय शुल्कं गच्छेद्यः कन्यायाः स्त्रीधनं तथा । धार्या सा वर्षमेकं तु देयाऽन्यस्मै विधानतः ॥ अथ प्रवृत्तिरागच्छेत् प्रतीक्षेत समात्रयम् । अत ऊर्ध्वं प्रदातव्या कन्याऽन्यस्मै यथेच्छतः ॥ * व्याख्यासंग्रहः स्थलादिनिर्देशश्च दायभागे द्रष्टव्यः । (१) व्यक. १३७; स्मृच. २५४:२९२ दम (धर्म); विर. ४४३; व्यप्र.४९० कात्यायनः; व्यम. ६१ कात्यायनः; सेतु. २८८ निर (निय) यें (यं) नरता (नवती); विभ. २८ यें (र्यं) दम (धर्म); समु.१४१ कात्यायनः.
(२) अप. १।६९ उक्तो (उक्त्वा) अन्यै (सर्वै); व्यक.१३९; मु९।६८ मनु ( मुनि) हासा (क्रमा); विर. ४४९ अन्यै (म); मच. ९।६८; विभ. ३२; नन्द. ९।६८ उक्तो नियोगो ( नियोगमुक्त्वा ).
(३) अप. १।६९ निर्हि (निर्वि); व्यक. १३९; ममु. ९/६८ तेत्रे (तत्रे); विर. ४५० अपवत् मच ९।६८ ममुवत् ; विभ. ३२ निर्मिता (जायते); नन्द. ९/६८.
(४)
अप. ११६५; बाल. २।१२७.
(५) अप.१।६५ शुल्कं गच्छेद्यः (गच्छेच्छुल्कं यः); बाल. ११२७. (६) बाल. २११२७०
११०९
(१) एतदपि प्राग्विवाहाद् द्रष्टव्यम् । अप. ११६५ (२) शुल्कदातुर्देशान्तरगतौ तु कात्यायनः-प्रदायेति । अत्र धार्येत्यनेन धार्यत्वेन ततः पूर्वमपि देयेति सूचितम् ।
बाल. २।१२७
अनेकेभ्योऽपि दत्तायामनूढायां तु यत्र वै । पुरागतश्च सर्वेषां लभेताद्यो वरस्तु ताम् ॥ पश्चाद्वरेण यद्दत्तं तस्याः प्रतिलभेत सः । अथागच्छेत्समूढायां दत्तं पूर्ववरो हरेत् ॥ वरो विवाहार्थोपस्थितस्तेन यच्छुल्कं दत्तं तदेव लभेतेत्यर्थः । तत्र वै पुरागतश्च सर्वेषां लभते, तदिमां सुतामिति पाठान्तरम् । अन्यस्मै दत्तायां कन्यायां पूर्ववरोऽप्यायाति तदाऽनूढां तां लभते, ऊढायां तु स्वदत्तं द्रव्यमेव लभते, न तु कन्यामित्यपि सिद्धम् ।
बाल. २।१२७
पूर्वदत्ता तु या कन्या अन्येनोढा यदा भवेत् । संस्कृताऽपि प्रदेया स्याद् यस्मै पूर्व प्रतिश्रुता । चेद्गुणवत्तर इति शेषः ।
अप. ११६५
अनेकभार्यस्य कर्तव्यं, स्त्रीधर्मांश्च अभिशिष्टादिशुश्रूषां बहुभार्यः सवर्णया | कारयेत्तद्बहुत्वं चेज्ज्येष्ठया गर्हिता न चेत् ॥ या वा स्याद्वीरसूरासामाज्ञासंपादिनी च या । दक्षा प्रियंवदा शुद्धा तामत्र विनियोजयेत् ॥ " दिनक्रमेण वा कर्म यथाज्यैष्ठयं स्वशक्तितः । विभज्य सह वा कुर्युर्यथाज्ञानमशाठ्यवत् ॥ स्त्रीणां सौभाग्यतो ज्यैष्ठयं विद्ययेव द्विजन्मनाम् । न हि स्वल्पेन तपसा भर्ता तुष्यति योषिताम् ।। भर्तुरादेशवर्तिन्या योषया बहुभिर्व्रतैः ।
ः शुश्रूषितो यत्र सा स्त्री सौभाग्यमाप्नुयात् ॥ (१) बाल. २।१२७. (२) अप. ११६५. (३) व्यक. १३१; विर. ४२०; विभ. ११.
(४) व्यक.१३१; विर.४२० रासा (रेषा) च या (प्रिया); विभ. ११.
(५) व्यक. १३१; विर. ४२०; विभ. ११ स्वशक्तित: ( प्रयत्नतः).
(६) व्यक. १३१; (७) व्यक. १३१३
( यामया).
विर. ४२०; विभ. ११.
विर. ४२०; विभ. ११ योषया