________________
११०४
व्यवहारकाण्डम्
पतिकृतर्णानधिकारीति मन्तव्यम् । आद्यपुनर्वास्तु यः पाणिं गृह्णाति स योषिद्ग्राहो भवत्येव भार्यात्वेनैव स्वीकारात् । चतुर्थ्या अपि स्वैरिण्या भार्यात्वेनैव स्वीकार इति स्वीकर्ता योषिद्ग्राह एव । तेन ताभ्यां पुन: प्रथमायाः पत्या कृतमृणं स्वैरिण्याश्चतुर्थ्याः पत्या कृतं च ऋणं देयम् ।
स्मृच. १७३
(३) परपूर्वाः सप्त । पुनर्भूस्त्रिप्रकारा । स्वैरिणी चतुप्रकारा । ताः क्रमेणोच्यन्ते – कन्यैवेति । कन्यैवासंबद्धा पुरुषेण पाणिग्रहणमात्रेण परभार्याव्यपदेशेन दूषिता पुनर्भूः प्रथमा सोक्का पुनः संस्कारकर्मणा, पुनर्यस्मात् संस्क्रियते तस्मात् पुनर्भूरित्युच्यते । पुनर्विवाह्याऽन्येन सा । देशसंव्यवहारानवेक्ष्य, येषु देशेष्वयं व्यवहारो दृश्यते, गुरुभिर्या प्रदीयतेऽन्यस्मै स्त्री भुक्ता, न कन्या, सा द्वितीया पुनर्भूः पत्यावसत्युत्पन्नसाहसा व्यभिचारिणी । पत्या त्यक्तेत्यन्ये । असत्सु देवरेषु, एतस्मादेव गम्यते द्वितीया गुरुभिर्देवराय दत्तेति, स्त्री मृतपतिका सवर्णायासपिण्डाय बान्धवैर्या प्रदीयते सा तृतीया स्त्री । स्त्री भुक्ता सापत्या नपत्या वा पत्यौ जीवत्येव कामादन्यं पतिं समाश्रयेत् तमुत्सृज्य, सा प्रथमा स्वैरिणी । कौमारं पतिमतिक्रम्यान्येन सह पुरुषेणोषित्वा तमप्युत्सृज्य प्रथमपतिगृहमेव यायात् सा द्वितीया स्वैरिणी । भर्तरि मृते योग्यानपि देवरानपास्योपगच्छेद् ऊनमन्यं, सा तृतीया स्वैरिणी । देशान्तरादागता धनेन क्रीता क्षुत्पिपासातुरा च तवाहमित्युपगता सा चतुर्थी प्रकीर्तिता । - पुनर्भुवां विधिस्त्वेष स्वैरिणीनां प्रकीर्तितः । पूर्वा पूर्वा जघन्यासां श्रेयसी तूत्तरोत्तरा ॥
नाभा.
एके यथापठमेवेच्छन्ति । न तदुपपन्नम् । कथमक्षतयोनिरितराभ्यां जघन्या स्यात् । तस्मात् क्रमेण पुनर्भुवां पूर्वा पूर्वा अजघन्या । आसामक्षतयोनिर्देवराय दत्ता ( या सा ? याः) प्रशस्या । सापि सवर्णाय सपिण्डाय दत्तायाः प्रशस्या द्वितीया। स्वैरिणीनां तूत्तरोत्तरा पूर्वस्याः
(१) नासं. १३।५३ विधिस्त्वेष (एष विधिः) प्र (च); नास्मृ. १५/५१; व्यक. १३९ पुनर्भुवां (पुनव च); विर. ४५१ तू (चो) शेषं व्यकवत् विभ. ३२ विरवत्.
1
पूर्वस्याः श्रेयसी । जीवति पत्यावन्यं समाश्रितायाः पुनः पतिगृहं गता पश्चात्तापात् श्रेयसी । मृते भर्तर्यन्यं समाश्रिता भर्तुरनतिक्रमाद् द्वितीयायाः श्रेयसी । देशान्तरादागता क्रीता प्राणसंशये चान्यमुपगता पूर्वस्याः श्रेयसी, अत्यन्तविरोधानाचरणात् । वर्णसंकरासंकरौ
नाभा.
आनुलोम्येन वर्णानां यज्जन्म स विधिः स्मृतः । प्रातिलोम्येन यज्जन्म स ज्ञेयो वर्णसंकरः ॥
आनुलोम्येन ब्राह्मणस्य चतसृषु यदपत्यजन्म, क्षत्रियस्य तिसृषु, वैश्यस्य द्वयोः, शूद्रस्यैकस्यां स विधिः विधीयते शास्त्रे धर्मः । प्रातिलोम्येन शूद्रस्य तिसृषु वैश्यादिस्त्रीषु, वैश्यस्य द्वयोः, क्षत्रियस्यैकस्यां एवं वर्णसंकरः प्रतिषिद्धः अधर्मः राज्ञः प्रमादादित्यर्थः । नाभा. संकरजातिविचारः
अनन्तरः स्मृतः पुत्रः पुत्र एकान्तरस्तथा । द्वन्तरश्चानुलोम्येन तथैव प्रतिलोमतः || आनुलोम्येन सवर्णानन्तरैकान्तरद्वयन्तराश्चत्वारो ब्राह्मणस्य पुत्राः, एवं त्रयः क्षत्रियस्य सवर्णानन्तरैकातराः, तथा वैश्यस्य सवर्णानन्तरौ द्वौ, शूद्रस्य सवर्ण एव । प्रतिलोमतोऽपि शूद्रस्य त्रयो वैश्यादिपुत्राः, वैश्यस्य द्वौ क्षत्रियाब्राह्मणीपुत्रौ, क्षत्रियस्यैको ब्राह्मणीपुत्रः । नामत एषां विशेषं वक्ष्यति । रिक्थविभागविवक्षयोपन्यासः, स्त्रीपुंससंयोगफलत्वात् तासां च विवाहस्योक्तत्वात् । उम्र: पारशवश्चैव निषादश्चानुलोमतः । उत्तमेभ्यस्त्रयस्त्रिभ्यः शूद्रापुत्राः प्रकीर्तिताः ॥
नाभा.
ब्राह्मणादिभ्यः क्रमेणोग्रपारशव निषादास्त्रयस्त्रिभ्योनुलोमत इति केचित् अन्येनान्यत्र यथासंख्यमुक्तम् । 'उत्तमेभ्यस्त्रिभ्यस्त्रयं' इत्येतावदुक्तम् । अतो ब्राह्मणात् पारशवः, निषादः क्षत्रियात्, उग्रो वैश्यादिति ।
नाभा.
* अन्यस्मृतिगतोऽयं संकरजातिविचारः संस्कारकाण्डे संयते । अत्र तु नारदेन विवादपदे संगृहीतत्वात् संगृहीतः । (१) नासं. १३।१०५; नास्मृ. १५/१०२. (२) नासं. १३।१०६; नास्मृ. १५/१०३. (३) नासं. १३ । १०७; मास्मृ. १५/१०४ पू.