________________
११०२
व्यवहारकाण्डम्
अविद्यमाने तु गुरौ राज्ञो वाच्यः कुलक्षयः । ततस्तद्वचनाद् गच्छेदनुशिष्य स्त्रियं च सः ॥ गुरौ नियोक्तर्यविद्यमाने राज्ञस्तत्कुलक्षयमुक्त्वा तेनानुज्ञातो देवरस्तदभावेऽन्यो वा गच्छेद् अनुशिष्य वक्ष्यमाणेन विधिना घृताभ्यक्तेन तया सह गात्रस्पर्श- वर्ज ऋतौ गन्तव्यं प्रजार्थमेवेति ।
नाभा.
पूर्वोक्तेन विधानेन स्नातां पुंसवने शुचिः । • सकृदा गर्भाधानाद्वा वृत्ते गर्भे तथैव सा ।।
दम्पत्योर्वादस्य विषयः
* ईर्ष्यासूयासमुत्थे तु संरम्भे रागहेतुके । दम्पती विवदेयातां न ज्ञातिषु न राजनि ॥ ईर्ष्यासमुत्थेऽन्यशङ्कानिमित्ते परस्परतः अमुका अशो भंना असावशोभन इत्यादि, ( ईर्ष्या ?) असूयासंभवे च सङ्गानुमिते संरम्भे चित्तवैषम्ये दम्पती परस्परत
(१) नासं. १३।८८; नास्मृ. १५१८६ ( नियुक्तो गुरुभिर्गच्छदेनुशिष्यात् स्त्रियं च सः) उत्त; व्यक. १३८ शिष्य (शिष्यात्); विर.४४६ शो (शे) शिष्य (शिष्यात् ); नृप्र. ३४; विभ. २९ विरवत् .
.
पूर्वोक्तेनैव विधिना घृताभ्यक्तो गात्रस्पर्शवर्ज व्रजेत्, ऋतुस्नातां पुमान् जायते यस्मिन् दिवसे तस्मिन्, 'युग्मासु पुत्रा जायन्त' इति वचनात् । ऋतावृतावसकृत् सकृद्वा यावद् वा गर्भो भवति तावद् युग्मास्वेकस्मिन्नप्यृतौ । कृत उत्पन्ने गर्भे स्नुषैव सा कनीयसोऽपि गुरुरेव सा । अतोऽन्यथा वर्तमानः पुमान् स्त्री वाऽपि कामतः विनेय सुभृशं राज्ञा विप्लवः स्यादतोऽन्यथा ॥ कामाद् वर्तमानावुत्तरकालं च सुष्ठु दण्डयौ राज्ञा । अदण्डने राजा प्रत्यवेयात् ।
नाभा.
।
नाभा.
(२) नासं. १३।८९ न विधानेन (नैव विधिना) वृत्ते (कृते) तथैव (स्नुषैव); नास्मृ. १५/८७ स्नातां (स्नुषां वृत्ते (कृते); उसक. १३८ द्वा (तु); विर. ४४६ व्यकवत्; विभ. २९ स्नातां (स्नुषां द्वा (तु).
(३) नासं. १३।९० विल... न्यथा (किल्बिषी स्यादनिग्रहे); नास्मृ. १५/८८ विने (निने); व्यक. १३८३ विर. ४४६ सुभृशं (स्वभगं); विभ.२९ सुभृशं ( तावुभौ ).
एव चित्तविशुद्धिं कुर्यातां, न स्वजने न राजनि वा विवादः कर्तव्यः ।
नाभा.
(४) नासं. १३ । ९१; नास्मृ. १३।८९ सूया (सूर्य) संरम्भे (संबन्धे).
बीजिक्षेत्रिणोरपत्यस्वाम्यविचारः अपत्यार्थं स्त्रियः सृष्टाः स्त्री क्षेत्रं बीजिनः प्रजाः । क्षेत्रं बीजवते देयं नाबीजी क्षेत्रमर्हति ॥
अपत्यार्थं स्त्रिय उत्पादिताः । तदुभयोरपतनं करोति । बीजिनः क्षेत्र स्थानीया स्त्री । तत उभयसंपत्तौ प्रजाः सस्यवदेव । तस्मात् क्षेत्रं बीजवते देयं, ततश्च सस्यनिर्वृत्ति: । अबीजी क्षेत्रेण किं करिष्यति । तत्र क्षेत्रस्य समर्थस्यापि नागः । तस्मात् परीक्ष्य पुरुषाय देया ।
नाभा.
नाभा.
अपत्यमुत्पादयितुस्तासां या शुल्कतो हृता । अशुल्कोपनतायां तु क्षेत्रिकस्यैव तत् फलम् ॥ तासां सप्तानां या शुल्केन हृता तस्यामपत्यमुत्पाद: • यितुरेव भवति, क्रीतत्वात् तस्याः । पुनर्भूष्वेव तत् संभवति, न स्वैरिणीषु । अथ तत्रापि संभवति, तथा नामास्तु । (अ) शुल्कोपनतायां यदपत्यं क्षेत्रिण एव । क्षेत्रस्य तेन तत्संबद्धैर्वानुत्सृष्टत्वात् । क्षेत्रिकस्य यदज्ञानात् क्षेत्रे बीजं प्रकीर्यते । न तत्र बीजिनो भागः क्षेत्रिकस्यैव तद् भवेत् ॥ 'अशुल्कोपनतायां क्षेत्रिकस्येत्युक्तस्य दृष्टान्तास्त्रय उत्तर श्लोका इति केचित् । अन्ये सामान्येन प्रकृतानामेवेति । परक्षेत्रे बीज उसे तेनाज्ञातं, पत्युरेवापत्यं न जारस्य भागः पिण्डदानाशौचादिषु । यथा परक्षेत्रे बीजेऽन्येनाविदिते प्र ( की ? का) रिते क्षेत्रिकस्यैव सस्यं, न बीजिन इति । ओघवाताहृतं बीजं क्षेत्रे यस्य प्ररोहति । फलभाग् यस्य तत् क्षेत्रं न बीजी फलभाग्भवेत् ।
नाभा.
(१) नासं. १३।१९; नास्मृ. १५/१९ नः प्रजाः (नो नराः). (२) नासं.१३।५४ फलम् (भवेत् ) ; नास्मृ. १५/५४ नता (हृता); विर. ५८८ या (याः) हृता (हृताः) समु. १०१ हृता (भृताः) क्रमेण कात्यायनः .
(३) नासं.१३।५५; नास्मृ. १५/५५ ज्ञानात् (ज्ञातं ) कीर्यते (दीयते) भवेत् (फलम् )•
(४) नासं. १३/५६; नास्मृ. १५/५६ फलभाग् यस्य यत् क्षेत्रं (फलभुक्तस्य तत् क्षेत्री).