________________
स्त्रीपुंधर्माः
१०९१
(३) पूनर्भूप्रसङ्गात् क्षेत्रजपुत्रोत्पत्तिविधानमाह— अपुत्रामित्यादि । मृते जीवति पत्यौ वा गर्भाधानाक्षमे स्त्रियमनपत्यां पुत्रकामां तदुत्पत्तियोग्यां गुरुभिः प्रजोसत्त्यर्थमनुज्ञातो भर्तुर्ज्येष्ठः कनिष्ठो वा भ्राता वा तदलाभे तत्सपिण्डः सगोत्रो वा तामभ्यक्तसर्वाङ्ग ऋतुकाले गच्छेत् । गर्भे जाते निवर्तेत । उक्तप्रकारातिक्रमेण गच्छन् पतितो भवेत् । इत्थमुत्पन्नः पुत्रः क्षेत्रजसंशो भवति ।
।
अप.
नियोगाधिकारोऽस्तीति गम्यते । उच्यते । नैतद् युक्तं, | पतिः । तामनेन विधानेन निजो विन्देत देवर' इति उक्तत्वान्न्यायस्य । भूयसामनन्यपराणां चानर्थक्याद् मनुस्मरणात् । मिता. वरमेकस्यान्यपरस्य च बाधकल्पना । क्षत्रियविषयं चैतद् वाक्यम् । तेषां ह्यापदि नियोगाधिकारात् । स च ब्राह्मणे नैवेत्युक्तम् । तेनैवं योजना – भ्रातर्यध्यापयत्यपि नाध्येतव्यम् । केन | अव्यपदेशेन । न व्यपदिश्यतेऽनेनेत्यव्यपदेशः । अन्यजातीय इत्यर्थः । किमर्थम् । बोद्धव्यं गुरुतल्पस्य निमित्तं भ्रातुः शिष्य भार्यागमनात् । भर्ता ह्यापत्सु देवरः । भर्तेति भरणयोगाच्छ्रुष्ठयाच्च ब्राह्मणः स यस्मादापत्सु देवरो भवति, नियोज्यत इत्यर्थः । तस्मात् ततो नाध्येतव्यम् । आपत्स्विति चैकस्यामेवापदि । बहुवचनं गौरवार्थम् । संतानपरिक्षयलक्षणैवापद् यथा स्यात् । नाध्यापयितव्य इति च वक्तव्ये नाध्येतव्यमि - त्युक्तं क्षेत्रिणः पुत्र इति ज्ञापनार्थम् । कथं वास्य ब्राह्मणविषयत्वोपपत्तिः । न हि सोदर्ययोर्निर्योगसंभवः । कथं कृत्वा । यदि तावन्नियोज्योऽप्यपुत्रः, तदात्मन एवोला दयेत् । अथ तस्य पुत्रोऽस्ति, तदा 'भ्रातृणामेकजातानां यद्येकः पुत्रवान् भवेत् । सर्वे ते तेन पुत्रेण पुत्रिणो मनुरब्रवीत् ॥' इति वचनादक्षीणत्वात् संतानस्य कुतो नियोगः । क्षत्रियविषयत्वे तु नैष विरोधः । अथ सापत्नविषय तोच्येत । तत् क्षत्रियेऽपि समानम् । यदा त्वेक• जातानामित्यस्यैकवर्णजातानामित्यर्थः, तदा स्पष्टैव क्षत्रियविषयता । यत्तु ब्राह्मण्याः प्रोषिते भर्तरि कालप्रतीक्षणवचनं, तद् भर्तुरन्तिकगमनार्थे न नियोगार्थमिति विविच्य वचनीयम् । तस्मात् सूक्ता नियोगवाक्यानां विषयकल्पना । एवं तावच्छूद्राणां नियोगाधिकार उक्तः । विश्व. १ ६८,६९ (२) एवं सर्वप्रकारेणान्यपूर्वापर्युदासे प्राप्ते विशेषमाहअपुत्रामित्यादि । अपुत्रामलब्धपुत्रां पित्रादिभिः पुत्रार्थमनुज्ञातो देवरो भर्तुः कनीयान् भ्राता, सपिण्डो वा उक्तलक्षणः सगोत्रो वा । एतेषां पूर्वस्य पूर्वस्याभावे परः परः घृताभ्यक्तसर्वाङ्गः ऋतावेव वक्ष्यमाणलक्षणे इयाद्गच्छेत् आगर्भोत्पत्तेः। ऊर्ध्वं पुनर्गच्छन् अन्येन वा प्रकारेण पतितो भवति । अनेन विधिनोत्पन्नः पूर्वपरिणेतुः क्षेत्रजः पुत्रो भवेत् । एतच्च वाग्दत्ताविषयमित्याचार्याः । ‘यस्या म्रियेत कन्याया वाचा सत्ये कृते | मिता.; अप; वीमि
(२) यास्मृ. १।८९;
अनेक भार्यकर्तव्यम् सत्यामन्यां सवर्णायां धर्मकार्य न कारयेत् । सवर्णासु विधौ धर्म्ये ज्येष्ठया न विनेतरा ।। (१) नन्वेवं सति भर्तृन्त्रत्वात् स्त्रीणां तस्य च स्वतन्त्रत्वाद् यावत्यो जायास्ताः सर्वास्तुल्यवत् कर्मणि विनियुञ्जीत । नैवं - सत्यामन्यामिति । सत्यां सवर्णायामन्यां धर्मकार्य न कारयेदिति संबन्धः । सवर्णास्वपि ज्येष्ठया विना नेतरां कनिष्ठाम् । तासामपि यथाज्यैष्ठयम् । विधौ अग्निहोत्रादिकर्मणि । धर्म्ये आज्यावेक्षणादौ, क्रत्वर्थ इति यावत् । कनीयसीमपि तु सवर्णामेव कारयेत् । असवर्णास्वप्येकान्तरत्व ज्यैष्ठयादिक्रमेण व्याख्येयम् । विश्व. १८६
(२) अनेकभार्थी प्रत्याह - सत्यामन्यामिति । सवर्णायां सत्यां अन्यामसवर्णो नैव धर्मकार्य कारयेत् । सवर्णास्वपि बह्वीषु धर्म्ये विधौ धर्मानुष्ठाने ज्येष्ठया विना ज्येष्ठां मुक्त्वा इतरा मध्यमा कनिष्ठा वा न नियोक्तव्या । मिता.
पुनदर क्रिया
दोहयित्वाऽग्निहोत्रेण स्त्रियं वृत्तवतीं पतिः । आहरेद्विधिवद्दारानमीश्चैवाविलम्बयन् ॥
(१) नन्वेवं सति ज्येष्ठायां त्रियमाणायां यदि कनिष्ठा प्रमीयेत, तस्या अग्निहोत्राद्यर्थेनाग्निना दाहो
(१) यास्मृ. १८८; विश्व. ११८६६ मिता अप; व्यक. १३१; विर. ४१९; वीमि ; विभ.११.
विश्व. ११८७ लम्बयन् ( लम्बित :);