________________
व्यवहारकाण्डम्
१०८८
कामास्त्रिवर्गः । स दम्पत्योरानुकूल्ये संप्रतिपत्तौ वर्धते, अतस्तदर्थ यतितव्यमिति तात्पर्यार्थः । मोक्षो ब्रह्मज्ञस्यैव गृहस्थस्य न सर्वस्येत्यभिप्रायेणोक्तं- त्रिवर्ग इति ।
अप.
स्त्रीणामनन्यपरत्वविधि:
मृते जीवति वा पत्यौ या नान्यमुपगच्छति । सेह कीर्तिमवाप्नोति मोदते चोमया सह ।
(१) कस्मात्पुनरधिविन्ना भर्तारं परित्यज्यान्यं न समाश्रयेत् । यस्मात्-मृत इति । सहेत्युपमार्थे । अनुपगमे च स्तुतिदर्शनादुपगमे दोषानुमानम् । ऐहिकफलं च कीर्तिः, आमुष्मिकं स्वर्गावाप्तिः । अन्यथा तु द्वयविपयः । तस्मादधिविन्नयापि न भर्ता त्याज्यः ।
विश्व.१।७५
(२) स्त्रियं प्रत्याह-मृते जीवतीति । भर्तरि जीवति मृते वा या चापल्यादन्यं पुरुषं नैवोपगच्छति सेह लोके विपुलां कीर्तिमवाप्नोति । उमया च सह क्रीडति पुण्यमिता. प्रभावात् । (३) वाशब्दः समुच्चये । अतिरोहितमन्यत् । नित्यस्यापि पत्यव्यभिचारस्याऽऽनुषङ्गिकं फलमेतदुच्यते । पतिरिति भार्या न व्यभिचरेदिति मनुराह - 'अन्योन्यस्याव्यभीचारो भवेदामरणान्तिकः । एष धर्मः समासेन ज्ञेयः स्त्रीपुंसयोः परः ॥' इति । उभयोरव्यभिचारविधिर्नित्यः । तदतिक्रमे प्रायश्चित्तस्मरणात् । अधिवेदनकारणाभावे अधिवेदने विधिः आज्ञासंपादिनीं दक्षां वीरसूं प्रियवादिनीम् । त्यजन्दाप्यस्तृतीयांशमद्रव्यो भरणं स्त्रियाः ॥
अधिवेदनकारणाभावे अधिवेत्तारं प्रत्याह - आज्ञासंपादिनीमिति । आज्ञासंपादिनीमादेशकारिणीम् । दक्षां शीघ्रकारिणीम् । वीरसूं पुत्रवतीम् । प्रियवादिनीं मधुरभाषिणीं, यस्त्यजति अधिविन्दति स राज्ञा स्वधनस्य (१) स्मृ. १७५; विश्व . १ । ७५; मिता.; अप; व्यक १३६; वीमि.
(२) यास्मृ. १।७६ मिता. अप; व्यक. १३२; स्मृच. २४५ मा ४७४; रत्न. १३४; नृप्र. ३३ अद्रव्यो... स्त्रियाः (दव्यैराभरणैः स्त्रियाः); वीमि व्यप्र. ४१०६ व्यउ. १४२; यम. १०८३ वित. ८२३ विभ. १५; समु. १२२.
अप.
तृतीयांशं दाप्यः । निर्धनस्तु भरणं ग्रासाच्छादनादि मिता. दाप्यः ।
पुनर्भूस्वैरिणीस्वरूपम्, नियोगविधिश्च अक्षता च क्षता चैव पुनर्भूः संस्कृता पुनः । स्वैरिणी या पतिं हित्वा सवर्ण कामतः श्रयेत् ॥ (१) कस्मात् पुनर्मृते भर्तरि न पाणिमात्रदूषितान्यस्मै पुनर्दीयते । यस्मात्-अक्षतेति । यथैव क्षतयोनिः पुनर्भर्तृसंयोगात् पुनर्भूर्भवति । एवमक्षतयोनिरपि, अविशेषात् । कस्मात् पुनर्दानम् । स्मृत्यन्तरात् । यथाह मनुः – 'सा चेदक्षतयोनिः स्यात्... पुनः संस्कारमर्हति' इति । तत् कामतः प्रवृत्तौ विशेषविधानं, न कर्तव्यतयोपदेशः । तथा चाह मनुः — 'न विवाहविधावुक्तं विधवावेदनं क्वचित्' इति । 'न द्वितीयश्च साध्वीनां क्वचिद् भर्ती - दिश्यते' इति च । तस्मान्न पुनःसंस्कार इत्याचार्याभि-. प्रायः ।
यदा पुनः स्वयमेवान्यं सवर्णमुत्कृष्टं वा समाश्रयेत्, तदा को दोष इति । उच्यते - स्वैरिणीति । पुनर्भूः स्वैरिणीति च संज्ञा दौष्टयज्ञापनार्था । जीवन्तं मृतं वा या भर्तारं त्यक्त्वा स्वातन्त्र्यात् सवर्णमुत्कृष्टवर्ण वा समाश्रयेत् सापि स्वैरिणी । अतः स्वयमपि नान्य आश्रयितव्यः । यत् पुनः शङ्खनोक्तं – 'तिस्रः पुनर्श्वश्चतस्रः स्वैरिण्यः' इति । तदनयोर्दोंष्टयप्रपञ्चनार्थं प्रायश्चित्तविवेकार्थं वेत्येतन्ना तीवोपयुज्यते । एवं वासिष्ठ - मपि पुनर्भूलक्षणं द्रष्टव्यम् । सर्वथा भोग्ये अप्येते निर्णीतत्वादुपेक्षणीये इति श्लोकार्थः । तथा च वक्ष्यति -- 'मृते जीवति वा पत्याविति । विश्व. १६७ (२) 'अनन्य पूर्विकामि'त्यत्रानन्यपूर्वा परिणेयोक्ता तत्रान्यपूर्वा कीदृशीत्याह - अक्षतेति । अन्यपूर्वा द्विविधा पुनर्भूः स्वैरिणी चेति । पुनर्भूरपि द्विविधाता च । तत्र क्षता संस्कारात्प्रागेव पुरुषसंबन्धदूषिता । अक्षता पुनः संस्कारदूषिता । या पुनः कौमारे पतिं त्यक्त्वा कामतः सवर्णमाश्रयति सा स्वैरिणीति । मिता.
(१) यास्मृ. १।६७; विश्व. १।६७ च (वा) चैव ( वापि ); मिता; अप; व्यक. १३९; विर. ४५२; मच.९।१७६; वीमि ; विता. ८०८ ( =).