________________
(२) न च तस्यास्तर्हि दोषो नास्तीत्याशङ्कनीयमित्याह व्यभिचारादृताविति । अप्रकाशितान्मनोव्यभिचारात् पुरुषान्तरसंभोगसंकल्पात् यदपुण्यं तस्य ऋतौ रजोदर्शने शुद्धिः । शूद्रकृते तु गर्भे त्यागः । 'ब्राह्मणक्षत्रियविशां भार्याः शूद्रेण संगताः । अप्रजाता विशुद्धयन्ति प्राय श्चित्तेन नेतराः॥' इति स्मरणात् । तथा गर्भवधे भर्तृवधे महापातके च ब्रह्महत्यादौ, आदिग्रहणाच्छिष्यादिगमने च त्यागः । ' चतस्रस्तु परित्याज्याः शिष्यगा गुरुगा च या । पतिघ्नी च विशेषेण जुङ्गितोपगता च या ॥' इति व्यासस्मरणात् । जुङ्गितः प्रतिलोमजश्चर्मकारादिः । त्यागश्वोपभोगधर्मकार्ययोः न तु निष्कासनं गृहात्तस्याः । 'निरुन्ध्यादेकवेश्मनी'ति नियमात् । मिता. (३) व्यभिचारे सत्यासां रजोदर्शने शुद्धिर्भवति । एतच्च मानसे व्यभिचारे । यदाह मनुः – 'रजसा स्त्री मनोदुष्टा' इति । ततश्च रजोदर्शनात्प्रागसंव्यवहार्या । संव्यवहाराय प्रायश्चित्तं कारयितव्या । तस्यास्त्यागकारणेषु महापातकेषु स्त्रीपुरुष साधारणेषु (?), प्रातिस्विकेषु तु स्त्रियास्त्यागहेतुषु शिष्यगमनादिषु सर्वात्मना त्याग इति । अथवाऽयमर्थः-व्यभिचारे सति यदि रजोदर्शनात्मकमृतुप्रवृत्त्या गर्भाभावनिश्वये शुद्धिः, शुद्धिहेतुः प्रायश्चित्तक्रिया कार्या । गर्भे तु व्यभिचारनिमित्ते व्यभिचारिण्यास्त्याग एव न प्रायश्चित्तम् । न केवलं तस्मिन् गर्भे किं तु स्वकीयस्य यथाकथंचिदुपात्तस्य गर्भस्य स्वभर्तुश्च वधे त्यागोऽभिहितो न प्रायश्चित्तम् । महापातके तु त्यागोऽभिहितो विशेष इति । महापातकेषु स्त्रीपुरुषसाधारणेषु सत्सु संभोगसंस्पर्शसंभाषण- |वेदनाद्यनुष्ठानम् | सहाधिकारविषयस्त्यागः कार्यः, न पुनर्गृद्दान्निर्वासनरूपः ।
अप.
सुरापी व्याधिता धूर्ता वन्ध्याऽर्थघ्न्यप्रियंवदा । स्त्रीप्रश्वाधिवेत्तव्या पुरुषद्वेषिणी तथा ॥ (१) किं तर्हि - सुरापीति । एवमादिभिर्दोषैरधिवेत्तव्या । न त्याज्येत्यर्थः । सुराशब्देन चात्र गौलीमाध्ध्योर्ग्रहणं, महापातके त्यागोपदेशात् । क्षत्रियादिभिरपि निषिद्धां
धर्माः
- १०८७
पिवन्त्यस्त्याज्याः । व्याधिता असमाधेयकुष्ठादिरोगग्रस्ता । धूर्त्ती वञ्चनशीला । वन्ध्या प्रसिद्धा । अर्थशब्दस्तु धर्मकामयोरपि ग्राहकः । पुरुषार्थघ्नीत्यर्थः । अप्रियंवदा प्रसिद्धैव । स्त्रीप्रसूः केवलस्त्रीप्रजननी । पुरुषद्वेषिणी रतिपराङ्मुखी । अधिवेदनमुपरिपरिणयनम् । तदासामनुभाष्य दोषं कर्तव्यं, स्मृत्यन्तरात् । 'दुष्टां भार्यो जायां परिभाष्याधिवेदयेदिति । विश्व. १७३
(१) यास्मृ. १ ७३; विश्व. १।७३ र्ता (त); मिता.; अप. वीमि.; विभ. १५.
भ्य. का. १३७
(२) द्वितीयपरिणयने तूनाह - सुरापीति । सुरां पिबतीति सुरापी शूद्राऽपि । 'पतत्यर्ध शरीरस्य यस्य भार्या सुरां पिबेदिति सामान्येन प्रतिषेधात् । व्याधिता दीर्घरोगः ग्रस्ता । धूर्ता विसंवादिनी । वन्ध्या निष्फला । अर्थनी अर्थनाशिनी । अप्रियंवदा निष्ठुरभाषिणी । स्त्रीप्रसूः स्त्रीजननी । पुरुषद्वेषिणी सर्वत्राहितकारिणी । अधिवेत्तव्येति प्रत्येकमभिसंबध्यते । अधिवेदनं भार्यान्तरपरि - मिता.
ग्रहः ।
अधिविन्ना तु भर्तव्या महदेनोऽन्यथा भवेत् । यत्रानुकूल्यं दम्पत्योस्त्रिवर्गस्तत्र वर्धते ॥
(१) नन्वधिवेदनमपि त्याग एव । अन्योपादाने तया कार्याभावात् । मैवम् अधिविन्नेति । तुशब्दोऽपि - शब्दार्थः । अधिविन्नापीत्यर्थः । यद्वोत्कृष्यावधारणार्थः । भर्तव्यैव नोपगन्तव्येत्यर्थः । दोषापरित्यागे च तत् । अन्यथा महदेनः स्यात् । महापातकमित्यर्थः । कस्मात् पुनरेवमधिवेदनाद्युपदेशः । यस्मात्——यत्रानुकूल्यमैकमत्थं जायापत्योः । त्रिवर्गो धर्मार्थकामलक्षणस्तत्र वृद्धिमुपैति । अन्यथा तु विपर्ययः स्यात् । तस्मात् सूक्तमधिविश्व. १७४
(२) किं च । साऽधिविन्ना पूर्ववदेव दानमानसत्कारैर्भर्तव्या । अन्यथाऽभरणे महदपुण्यं वक्ष्यमाणों दण्डश्च । न च भरणे सति केवलमपुण्यपरिहारः यतः यत्र दम्पत्योरानुकूल्यं चित्तैक्यं तत्र धर्मार्थकामानां प्रतिदिनमभिवृद्धिश्वः । मिता. (३) स्वगृहे पितृगृहे वा वसन्तीति शेषः । धर्मार्थ
(१) यास्मृ. १७४ विश्व. १।७४; मिता; अप; स्मृच २४४ : २४८ उत्त; विर.४२२ उत्त; वीमि; विता.) ८२३ उत्त.; विभ.१५ पू. समु. १२१ पू. ३१२३ उक्त...