________________
१०८६
व्यबहारकाण्डम्
स्त्रीत्यागविचारः, अधिवेदनविचारश्च ताधिकारां मलिनां पिण्डमात्रोपजीविनीम् । परिभूतामधःशय्यां वासयेद्व्यभिचारिणीम् ॥
(१) यदा पुनर्ब्राह्मण्यप्येवं कुर्यात् तदा तां तद्रक्षणाधिकृतः - हृताधिकारामिति । एवं तावत् संतानपरि aast नियोगानधिकारात् प्रवर्तमाना व्यभिचारिण्येव । तामेवमपनीतगृहाधिपत्यां कुचेलां वरोपनीतसंस्काररहितां प्रासमात्रभक्तां सर्वथा परिभूतां स्थण्डिलशायिनीं वासयेत् । एतदेव प्रायश्चित्तं न वक्ष्यमाणं, शास्त्रव्यामोहात् प्रवृत्तेरल्पदोषता यतः । स्मृत्यन्तराच्चैतत् संवत्सरप्रायश्चित्तम् । विश्व. १७०
(२) व्यभिचारिणीं प्रत्याह - हृताधिकारामिति । या व्यभिचरति तां हृताधिकारां भृत्यभरणाद्यधिकाररहिताम् । मलिनां अञ्जनाभ्यञ्जन शुभ्रवस्त्राभरणशून्याम् । पिण्ड मात्रोपजीविनीं प्राणयात्रामात्र भोजनाम् । धिक्कारादिभिः परिभूतां भूतलशायिनीं स्ववेश्मन्येव वासयेत् । वैराग्यजननार्थे न पुनः शुद्धयर्थम् । 'यत्पुंसः परदारेषु तच्चैनां चारयेद्व्रतमिति पृथक्प्रायश्चित्तोपदेशात् । मिता. (३) हृताधिकारां श्रौतस्मार्तादिकर्मणि निवृसाधि स्मृच. २४२ सोमः शौचं ददावासां गन्धर्वश्व शुभां गिरम् । पावकः सर्वमेध्यत्वं मेध्या वै योषितो ह्यतः ॥
काराम् ।
|
(१) अथवा, यदि स्त्रियः स्वातन्त्र्यादन्यमाश्रयेयुस्ततो दोषभागिन्यः स्युः । यदा पुनर्धन लोभायामोहाद् वा बन्धुभिर्नियुज्यन्ते, तदा तेषामेव दोषः प्रायश्चित्तं च । न तु स्त्रीणाम् । अतः स्त्रियो निर्दोषाः । किन्तु — सोम इति । वैशब्दोऽवधारणार्थः । यस्मात् सोमादिभिरासां शौचं मनोवाक्काय लक्षणं दत्तं तस्मान्निर्दोषा एवैताः ।
(१) यास्मृ. १।७०; विश्व. १ ७०; मेघा. ९१९५ ( = );
मिता; अप. १७० : २ १३६ (=) प्रथमपादः ; व्यक. १३३; स्मृच. २४२ रिभू (तिन); विर. ४२६; वीमि ; व्यप्र. ५०३; विभ. १६; समु. १२१ नां (नीं).
(२) यास्मृ. १।७१; विश्व. १ ७१ दावासां (दौ स्त्रीणां ) यतः (मता:); मिता.; अप. दावासां (दौ स्त्रीणां ); स्मृच. २४३ अपवत्; वीभि. दावासां (दौ तासां ) वैश्च (र्वाश्च); विभ.१७ दावासां (दौ तासां); समु. १२१ अपवत्.
पुंसामेव नियोगकर्तॄणां दोष इत्यभिप्रायः । अनेन नियोगकर्तॄणामपि प्रायश्चित्तमस्तीत्युक्तं, न तु स्त्रीणां निषिद्धं, पूर्व श्लोकानर्थक्यप्रसङ्गात् । स्वातन्त्र्याद् व्यभि चारे वा तद् द्रष्टव्यम् । नियोगे तु पारतन्त्र्यात् स्त्रियो निर्दोषाः । विश्व. १७१
(२) तस्या अल्पप्रायश्चित्तार्थवादमाह - सोम इति । परिणयनात्पूर्व सोमगन्धर्ववह्नयः स्त्रीर्भुक्त्वा यथाक्रमं तासां शौच मधुरवचनसर्वमेध्यत्वानि दत्तवन्तः । तस्मास्त्रियः सर्वत्र स्पर्शनालिङ्गनादिषु मेध्याः शुद्धाः स्मृताः । मिता. अप.
(३) स्त्रीप्रशंसामाह – सोम इति । (४) सर्वमेध्यत्वं सर्वयज्ञार्हत्वमित्यर्थः । तदेतत्प्रशंसामात्रम् । । तेन विप्रदुष्टत्वं हृताधिकारत्वं च व्यभिचारिण्या उक्तमविरुद्धम् । स्मृच. २४३ व्यभिचारादृतौ शुद्धिर्गर्भे त्यागो विधीयते । गर्भभर्तृवथादौ च तथा महति पातकै ।
(१) क्क पुनः स्त्रीणां दोषः । क्व वा त्यागः । उच्यतेव्यभिचारइति । स्त्रीणां दोषो व्यभिचाराद् भर्तुः । तत्र चोक्तं प्रायश्चित्तं हृताधिकारामित्यादि । एवमृतावपि व्यभिचारे न चेद् गर्भसंभवः शुद्धिरस्त्येवेत्यभिप्रायः । गर्भोत्पत्तौ त्याग एव । विधीयत इति विचिकित्सानिवृत्यर्थम् । तथा गर्भवधे भर्तृवर्धे महापातकसंबद्धे च ब्रह्महत्यादौ । त्याग इत्यनुषङ्गः । गर्भववश्व सौभाग्यदर्पादिना ऋतुस्कन्दनम् । तथाच बौधायनः - - ' भर्तुः प्रतिनिवेशेन या भार्या स्कन्दयेडतुम् । तां ग्राममध्ये विख्याप्य भ्रूणघ्नीं निर्धमेद गृहात् ॥' इति । भर्तृवश्व वाचनिकः । अन्यत्र महापातकवचनादेव सिद्धत्वात् । तथा चाह गार्ग्य: -- 'पतिताः स्त्रियस्त्याज्याः भर्तवधप्रतिज्ञायां चे'ति । क्षत्रियादिविषयो वाऽयं गर्भभर्तृवधो योज्यः । अतोऽन्यत्र महत्यपि दोषे न त्याज्याः ।
विश्व. १।७२
(१) यास्मृ. १।७२; विश्व. १।७२ रादृतौ (र ऋतौ वधादौ च (वधे चासां); मिता.; अप. विश्ववत्; व्यक. १३२ वधादौ च (वधे तासां); स्मृच.२४६ गर्भ... ...च (गर्भे भर्तृव तासां) प्रथमपादं विना वीमि ; विभ. १६३ समु. १२२ व्यकवत् प्रथमपादं विना.