________________
व्यवहारकाण्डम्
१०७२
(१) गाथाशब्दो वृत्तविशेषवचनः । यथोक्तं पिङ्गलेन ' अत्रासिद्धं गाथेति । अविगीताः परम्परागताः श्लोका अप्युच्यन्ते । तदेषापि विज्ञगाथा गीयत इत्युक्त्वा गाथाश्लोका उत्तरत्र वेदे पठ्यन्ते । 'यदस्य पूर्वमपरं तदस्येति वायुना गीताः पठिता वायुप्रोक्ताः, पुराविदः पुराणकल्पान्तरवेदिनः, परपरिग्रहे परक्षेत्रे ।
मेधा. (२) अस्मिन्नर्थे वायुप्रोक्ता गाथाश्छन्दोविशेषयुक्तानि वाक्यानि नीतिकालज्ञाः कथयन्ति । यथा पर भार्यायां बीजं मनुष्येण न वप्तव्यं इति । गोरा. नैश्यतीषुर्यथा विद्धः खे विद्धमनुविध्यतः । तथा नश्यति वै क्षिप्रं बीजं परपरिग्रहे ॥
ता इदानीं गाथा दर्शयति । इषुः शरः । स नश्यति खे छिद्रे अन्येनेष्वासेन विद्धं मृगमनुविध्यतः, पूर्वस्य वेधकस्यात्र स्वाम्यम् । अथवा आकाशे व शरः क्षिप्तो लक्ष्यमन्तरेण नश्यति निष्फलो भवति विद्धं चानुविध्यतः । एवं परस्त्रियं तेजो निक्षिप्तं तस्य बीजिनः क्षेत्रस्वामिनोऽपत्यं भवति । मेधा. पृथोरपीमां पृथिवीं भार्या पूर्वविदो विदुः । स्थाणुच्छेदस्य केदारमाहुः शल्यवतो मृगम् ॥
शोऽयं पुराणकृतो जायापतिलक्षणसंबन्धो यद्भिन्नावपि तावेकीकृताविव दर्शयति । तथाहि अनेकवर्षसहस्रातीत पृथुसंबन्धा मही तेनैव व्यपदिश्यते पृथिवीति । तस्मादन्याऽपि स्त्री यस्य भार्या तस्य पुत्रोऽन्येनापि जातः, स्थाणुच्छेदस्य केदारं स्वमाहुः संबन्धान्तरस्याभावात् । स्वस्वामिसंबन्धं षष्ठी प्रतिपादयति । खाणुर्गुच्छगुल्मलतादिप्ररूढो यत्र भवति तच्छिनत्ति यः स स्थाणुच्छेदः तस्य तत्क्षेत्रं येन प्ररूढगुल्मलतावीरुधः छित्त्वा भूमिः क्षेत्रीकृता न कर्षवपनजातं फलं तस्यैव । शल्यवतो मृगमाहुरित्यनुषज्यते। बहूनां मृगमनुधावतामाखेटकार्य यस्यैव संबन्धि शरशल्यं मृगे दृश्यते तस्य तमाहुर्यत् प्रथमवेद्धुश्च स भवतीत्युक्तं ' नश्यतीषुः' इत्यत्र ।
मेधा.
(१) मस्मृ. ९।४३; विर. ५७८ विद्ध: (क्षिप्तः) क्षिप्रं (क्षिप्तं). (२) मस्मृ. ९।४४.
ऐतावानेव पुरुषो यज्जायात्मा प्रजेति ह । विप्राः प्राहुस्तथा चैतद्यो भर्ता सा स्मृताङ्गना ॥ युक्तं च यस्य भार्या तस्यापत्यं यस्माद्भार्याया भर्तुश्चैकत्वमेव प्रजाऽप्यात्मभूतैव कथं वाऽन्यस्यात्मा सोऽन्यस्य भवेत् । एवं तावद्द्दष्टमेत लोके, शास्त्रज्ञा अप्येवमेव विप्राः प्राहुरिति । मेधा. ने निष्क्रयविसर्गाभ्यां भर्तुर्भार्या विमुच्यते । एवं धर्मं विजानीमः प्राक्प्रजापतिनिर्मितम् ॥
अथ मन्येत धनादिदानेन क्रीत्वा स्वीयाः करिष्यन्ते परभार्याः, ततो विनिवृत्ते परस्वाम्ये तजातो जनयितुः पुत्रो भवतीत्येतन्न, यतो न शक्या भार्यात्वेन निष्कसहस्रैरप्यन्यदीयाः स्वत्वमानेतुम् । नापि भर्त्रा त्यक्ता प्रहीणद्रव्यतया प्रतिग्रहीतुः स्वत्वमापद्यते । यत 'उद्वहे - तेति कर्त्रभिप्रायक्रियाफलविषयादात्मनेपदाल्लिङ्गान्नान्येन संस्कृताऽन्यस्य भार्या भवति । यथा नाहवनीयादय आधातुरन्यस्य क्रयादिनाऽऽहवनीयादिव्यपदेश्याः, निष्क्रयो विक्रयो विनिमयश्च विसर्गस्त्यागस्ताभ्यां न मुच्यते न भार्यात्वमस्या अपैति । मेघा. सकृदशो निपतति सकृत्कन्या प्रदीयते । सकृदाह ददानीति त्रीण्येतानि सतां सकृत् ॥ (१) अयमनुशय विधावष्टमे व्याख्यातः । विभागकाले हि सभविषमांशभाग्भिः समविषमांशभागेषु परिकल्प्य विभागः कर्तव्यः । तत्र कृते यो विप्रतिपद्येत तस्य प्रतिषेधार्थमिदम् । तत्रापि यद्ययमादावयथार्थतां कस्यचिदंशस्य प्रज्ञापयेत्तदा स्यादेव पुनर्विभागः । अथ बहुना कालेनायथाकृततां ब्रूयाद्यावदितरैः स्वेषु स्वेषु भागे
(१) मस्मृ. ९।४५ व्यक. १५८; विर. ५७८ ६ (च). (२) मस्मृ. ९।४६; गोरा. नीम: (नीत); व्यक. १५८; विर. ५७८ पू.
(३) मस्मृ.९।४७ख. पुस्तके नी (मी); मेधा. नी (मी); गोरा. मेधावत्; स्मृच. ३११ सतां (सकृत् ); पमा. ५७१ नी (मी) सतां (सकृत् ); दात. १८२ मनुनारदकात्यायन बृहस्पतयः; चन्द्र.९० स्मृचवत्, मनुनारदकात्यायनाः दानि.६ दाह (द्दानं) नी (ती) सतां (सकृत् ); व्यप्र. ५६४ स्मृचवत्; विता. ३३१ पू. : ४७५ दाह ददानीति (देव सतां नीतिः); बाल. २१४९; सेतु. ८३ स्मृचवत्; समु. १४६ स्मृचवत्; विच. ९५ दाह (देव) सतां (सकृत् ) मनुनारद कात्यायनबृहस्पतयः.