SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ स्त्रीपुंधर्माः जामयो यानि गेहानि शपन्त्य प्रतिपूजिताः । तानि कृत्याहतानीव विनश्यन्ति समन्ततः ।। (१) यानि गृहाणि नवोढादुहित्राद्याश्वापूजिताः सद्योऽभिशपन्ति तान्यभिचारविशेषहतानीव सर्वनाशं नश्यन्ति । गोरा. (२) यामयः कुलस्त्रियः भगिनीस्नुषाद्याः । व्यक. १३१ तस्मादेताः सदा पूज्या भूषणाच्छादनाशनैः । भूतिकामैर्नरैर्नित्यं सत्कारेषूत्सवेषु च ॥ यस्मादेवं तस्मादेताः सदाभ्यर्च्य इति । भूतिकामैर्नरैर्नित्यं सत्कारेषूत्सवेषु च । तस्मात्कारणादेताः सत्कारेषु कौमुदीमहानवम्यादिषु उपनयनादिषु च सर्व कामैर्मनुष्यैराभरणवस्त्रभोजनैर्नित्यं अभिपूजनीयाः । गोरा. संतुष्ट भार्यया भर्ता भर्त्रा भार्या तथैव च । यस्मिन्नेतत्कुले नित्यं कल्याणं तंत्र वै ध्रुवम् ।। यस्मिन्कुले स्वभार्यया हेतुभूतया नित्यं भर्ता निवृत्ताभिलाषो भार्याऽपि च यत्र नित्यं स्वभर्त्रा हेतुभूतेनानुपजातनरान्तराभिलाषा तत्राविचलं मङ्गलं भवति । गोरा. यदि हि स्त्री न रोचेत पुमांसं न प्रमोदयेत् । अप्रमोदात्पुनः पुंसः प्रजनं न प्रवर्तते ॥ यदि स्त्री सुगन्धलेपनादिना कान्तिमती न भवेत्तदा भर्तारं न प्रहर्षयेत् । भर्तुरप्रहर्षाच्च गर्भग्रहणं न भवति । गोरा. १०५३ 'स्त्रियां तु रोचमानायां सर्व तद्रोचते कुलम् | तस्यामरोचमानायां सर्वमेव न रोचते ॥ (१) मस्मृ. ३।५८; व्यक. १३०,१३१ जा (या); विर. ४१७ जा (या) शपन्त्यप्रति (संशपन्त्यप्र); विभ. १० विरवत् . (२) मस्मृ. ३ । ५९, गोरा. सदा पूज्या (सदाभ्यर्च्या); व्यक. १३१ गोरावत् ; विर. ४१८ सदा पूज्या (समभ्यर्च्या) षूत्सवेषु (णोत्सवेन); विभ.१० सदा पूज्या ( सर्वभावात् ) शेषं विरवत् . (३) मस्मृ. ३।६० न्नेतत् (शेव); व्यक. १३११ स्मृच. २४७; विर.४२१ मस्मृवत्; रत्न. १३५; विता. ८२५ वै ध्रुवम् (वर्धते); सेतु.२८३ भर्त्रा (तेन); विभ. १०; समु. १२३. : (४) मस्मृ. ३।६१; व्यक. १३१; स्मृच. २४७; विर. ४२९; सेतु. २८३; समु. १२३. स्त्रियां वेषादिना कान्तिमत्यां भर्तृमनोहरतया परपुरुषसंपर्काभावात्तत्कुलमुज्वलं भवति । तस्यां पुनररोचमानायां भर्तृद्विष्टतया नरान्तरसंकल्पतः सकलमेव कुलं मलिनीभवति । गोरा. पतिव्रतास्तुतिः । व्यभिचारनिन्दा | पतिं या नाभिचरति मनोवाक्कायसंयता । सा भर्तृलोकानाप्नोति सद्भिः साध्वीति चोच्यते॥ या मनोवाग्देहसंयता सती मनोवाग्देहैः पतिं न व्यभिचरति सा भर्त्रार्जितान् स्वर्गलोकान् प्राप्नोति । सा साध्वीति चोच्यते । गोरा. व्यभिचारात्तु भर्तुः स्त्री लोके प्राप्नोति निन्द्यताम् । सृगालयोनिं प्राप्नोति पापरोगैश्च पीड्यते ।। (१) पञ्चमे श्लोकाविमौ व्याख्यातौ (मस्मृ. ५। १६४,१६५) । मेधा. (२) दुर्जनसंसर्गाल्लोके स्त्री गर्ह्यतां जन्मान्तरे सृगालयोनिं चाप्नोति । अन्तः क्रूरैश्च कुठारै रोगादिभिः पीड्यते । महाप्रयोजनतया स्त्रीणामुत्सेकोत्पत्याशङ्कायां तन्निवारणार्थमिह पुनरुक्तम् । गोरा. (३) पञ्चमाध्याये स्त्रीधर्मे उक्तमप्येतत् श्लोकद्वयं सदपत्यसंपत्त्यर्थत्वेन महाप्रयोजनतया पुनः पठितम् । ममु. अनेकभार्याभिर्वर्तनप्रकार: यदि स्वाश्चापराचैव विन्देरन्योषितो द्विजाः । तासां वर्णक्रमेण स्याज्ज्यैष्ठयं पूजा च वेश्म च ॥ (१) मस्मृ. ३ ६२ स्यामरो (स्यां त्वरो); व्यक. १३१६ स्मृच. २४७, विर. ४२१; सेतु. २८३; समु.१२३. (२) मस्मृ.९।२९ - काय (ग्देह); व्यक. १३६; स्मृच. २४१ भि (ति); विर.४३६ काना (कमा); स्मृचि. २८ नानो (न्प्रामो); विभ. २१ विरवत् ; समु.१२० स्मृचवत्. (३) मस्मृ. ९।३० निंप्रा (निं चा); व्यक. १३६; स्मृच. २४२; विर.४३७ निंप्रा (निमा); स्मृचि. २८ के (कं) न्द्यताम् (न्दितम् ); विभ. २१ विरवत्; समु. १२१. : (४) मस्मृ.९।८५; दा.१६७ श्वा (श्च) ण स्याज् (गैव);
SR No.016114
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 02
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1939
Total Pages1084
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy