________________
स्त्रीपुंधर्माः
(१) मस्मृ.९।१६; व्यक.१२९१ स्मृच. २४०१ विर. ४१३; विचि. १९०; स्मृचि. २८; व्यप्र. ४०७६ समु.१२०१ विव्य. ५६ उत्त.
एवं स्वभावं ज्ञात्वाssसां प्रजापतिनिसर्गजम् । परमं यत्नमातिष्ठेत्पुरुषो रक्षणं प्रति ।। प्रजापतिर्हिरण्यगर्भस्तदीये निसर्ग उत्पत्तिकाले जातम् | शिष्टं स्पष्टम् | मेधा शय्यासनमलङ्कारं कामं क्रोधमनार्जवम् । द्रोह भावं कुचर्या च स्त्रीभ्यो मनुरकल्पयत् ॥ (१) शय्या शयनं स्वप्नशीलत्वम् । आसनमनभ्युत्थानशीलता । अलङ्कारः शेरीरमण्डनम् । कामं पुरुषोपभोगस्पृहा । क्रोधो द्वेषः । अनार्यता स्निग्धेऽपि द्वेषो द्विष्टे st स्नेहः आकारसंवरणं निर्धर्मता । द्रोग्धृभावो द्रोग्धृत्वं भर्तृपित्रादेः । पुरुषव्यसनीयतयाऽधर्मात्मकत्वं भर्त्रा -
दीनाम् । द्रुहे: कर्तरि तृचा भावशब्देन समासः । कुचर्या विहितप्रतिषेधमन्त्रसंबन्धमन्त्रचूडासंस्कारापेक्षं व्याख्येय
नीच पुरुषसेवनम् । एष स्वभावः स्त्रीणां मनुना सर्गादौ कल्पितः । शय्यासनालङ्कारा द्रोहकुचर्ययोर्दृष्टान्तत्वेनोपा दीयन्ते । यथैते पदार्थाः स्वभावभूता अविचालिता एवं कुर्यादयोऽपि । मेधा (२) तत आसां रक्षाकरणे यत्न आस्थेयः । गोरा. (३) कुचर्यामसदाचारम् । वि. नास्ति स्त्रीणां क्रिया मन्त्रैरिति धर्मे व्यवस्थितिः । निरिन्द्रिया ह्यमन्त्राश्च स्त्रियोऽनृतमिति स्थितिः ॥
(२) मस्मृ.९।१७; मेघा. जंवम् (ताम् ) द्रोह (द्रोग्धृ); गोरा. कामं (काम) जैवम् (र्यताम् ); व्यक. १२९; मवि. र्जवम् (र्यताम् ); स्मृच. २४० कुचर्या (अकार्य) शेषं गोरावत्; विर.४१२१ विचि. १९०१ स्मृचि. २८ जैवम् (र्यंताम्) कुचर्यां च (च कुलयोः); व्यप्र. ४०७; सेतु. २८२; विभ. ५६ समु. १२० गोरावत्.
१०४९
(३) मस्मृ. ९।१८ ग. पुस्तके, धर्मे व्यवस्थितिः (धर्मों व्यवस्थितः ); गौमि. २८ । १९ (निरिन्द्रिया अदायादाः स्त्रियो नित्यमिति स्थितिः) उत्त; उ. २।१४ २ ( अनिन्द्रिया अदायादाः स्त्रियो नित्यमिति श्रुतिः) उत्त.; व्यक. १२९ मस्मृवत्; विर. ४१२ मस्मृवत् ; व्यप्र.४०७,५१६ ( निरिन्द्रिया ह्यदायादाः स्त्रियो नित्यमिति स्थितिः) उत्त: ५५४ ( अनिन्द्रिया हृदायाश्च स्त्रियोऽनृतमिति स्थितिः) उत्त; विभ.५. १ शीलम.
(१) केचिदेवं मन्यन्ते । सत्यपि प्रमदाव्यभिचारे वैदिकेन जपेन रहस्यप्रायश्चित्तादिना शुद्धिमाप्स्यन्ति ततो नास्ति दोष इति । तन्न । न हि स्त्रीणां मन्त्रैः क्रिया जपोऽप्यस्ति । येन वृत्तव्यतिक्रमेऽप्रख्यातौ स्वत एवं वैदुष्याच्छुद्धिमाप्नुवन्ति । तस्माद्यत्नतो रक्ष्या इत्येतच्छेषमेवैतत् । अतो ये केचिदविहितमन्त्रे मन्त्रप्रतिषेधो. ऽयमिति वर्णयन्ति ततश्च यत्र स्त्रियः कर्तृतया संबध्यन्ते, सायं बलिहरणादौ, तथा संस्कार्यतया चूडादिषु, संप्रदानतया श्राद्धादौ तत्र सर्वत्र मन्त्रप्रतिषेधादमन्त्रकं स्त्रीणां श्राद्धादि कार्यमिति तेऽयुक्तवादिनोऽन्यपरत्वादस्यार्थवादतया यदस्ति तदालम्बनन्यायेन
मेतत् ।
अध्ययनाभावाच्च प्रायश्चित्तमन्त्रजपाभावः प्रेक्षया । निरिन्द्रिया इन्द्रियं वीर्य धैर्यप्रज्ञाबलादि तासां नास्त्यतोऽच्छिन् कदाचित्पापाचारैर्बलेनाक्रम्यन्ते । ततो रक्षितुं युक्ताः । स्त्रियोऽनृतमिति शील स्नेहमेघा. योरस्थिरत्वादनृतवचनेन निन्द्यते । (२) मन्त्रैर्जातकर्मादिसंस्कारक्रिया स्त्रीणां नास्तीति शास्त्रमर्यादा । एवं मन्त्रवजातकर्मादिसंस्काराभावात् स्वभावतश्च स्त्रियो निर्वीर्या अध्ययनाभावाच्चा मन्त्राश्चामन्त्रत्वे सति धर्मज्ञत्वाभावादशौचेऽपि प्रवृत्तेरन् । तत्प्रवृत्तौ च भयाद्यभावत्वादशुभाः स्त्रिय इति शास्त्र - मर्यादा । गोरा. (३) क्रिया परिणयनप्राक्कालीनः संस्कारो गर्भा धानादिः । मन्त्रवत्संस्कारयोग्यतानिमित्तमन्त्रप्रकाश्यपुल्लिङ्गरहिताः । अत एवामन्त्राः । स्थितिर्मर्यादा । मवि.
(४) जातकर्मादिक्रिया स्त्रीणां मन्त्रैर्नास्तीत्येषा शास्त्रमर्यादा व्यवस्थिताः । ततश्च मन्त्रवत्संस्कारगणाभावान्न निष्पापान्तःकरणाः। इन्द्रियं प्रमाणं, धर्मप्रमाणश्रुतिस्मृतिरहितत्वान्न धर्मज्ञाः । अमन्त्राः पापापनोदनमन्त्रजपरहितत्वात् जातेsपि पापे तन्निर्णेजनाक्षमाः । अनृतवदशुभाः farst शास्त्रमर्यादा । तस्माद्यत्नतो रक्षणीया इत्यत्र तात्पर्यम् । ममु. (५) अनृतवदशुभाः नित्यमनृतवादिन्यो वा सूनृत - वैदिकशब्दप्रयोक्तृत्वाभावात् ।
*मच.
* शेषं ममुवत् ।