________________
श
व्यवहारकाण्डम्
कानों निरुक्तिः, संग्रहकारः ( स्मृतिसंग्रहः ) - | ब्रह्मस्वं ब्राह्मणानामेव न राज्ञः; मृतापुत्रधनभाजः क्रमेण (१४६ ३) ब्राह्मणीकन्याया दायभागः.
प्रत्यासन्नाः सपिण्डाः सकुल्या आचार्यः शिष्यः ऋत्विजः सत्स्त्रियश्च. याज्ञवल्क्यः - (१४७९ - १५११ ) अपुत्रमृतधनभाजः क्रमेण पत्नी दुहितरः पितरौ भ्रातरः तत्सुता गोत्रजा बन्धुः शिष्यः सहाध्यायिनश्च; मृतवानप्रस्थयतिब्रह्मचारिणां धनभाजः क्रमेणाचार्यसच्छिष्यधर्म भ्रात्रे कतीर्थिनः नारदः - ( १५११ - २) अनपत्यमृतधनभाक् पतिव्रता पत्नी; अपुत्रमृतघनभाजः क्रमेण दुहिता सकुल्या बान्धवाः सजातीया राजा च; ब्रह्मस्वं ब्राह्मणानामेव, तत्स्त्रियो प्रजीवनमात्रभाजः . बृहस्पतिः - ( १५१२ - २० ) अपुत्रमृतसर्वधनभाक् पत्नी साध्वी एव; पत्न्यभावे दुहिता दौहित्रश्चापुत्रमृतधनभाक् ; अपुत्रमृतधनभाजः क्रमेण माता भ्राता तत्पुत्रः प्रत्यासन्नाः सपिण्डाः सकुल्या बान्धवाः शिष्याः श्रोत्रियाश्च; अब्राह्मणानां पत्नी भ्रात्रभावे राजाऽपुत्रमृतधनभाक् ; विभक्तापुत्रमृतस्थावरातिरिक्तधनभाक् पत्नी; अपुत्रमृतविधवा प्रजीवनभाक् ; पित्र्यकर्माधिकारः पत्न्याः सोदरस्य तत्पुत्रस्य सपिण्डस्य शिष्यस्य च कमेण; विधवायाः प्रजीवन स्वरूपम्. कात्यायनः - ( १५२० - २४ ) मृतापुत्रधनभाक् पत्नी; भर्तृधनभाक् पत्नी दुहिता च क्रमेण; अपुत्रमृतधनभाजः क्रमेण पत्नी दुहितरः पिता माता भ्राता तत्पुत्राश्च; अपुत्रविभक्तमृतधनभाजः क्रमेण पिता भ्राता जननी पितामही च; अविभक्तापुत्रमृतस्त्री अंशं भरणं वा प्राप्नोति भर्तुरौर्ध्वदेहिक करणाधिकारः; ब्राह्मणद्रव्यमदायिकं श्रोत्रियगामि; अब्राह्मणादायिकद्रव्यं राज्ञः; मृतसंस्कर्ता धनहारी. व्यासः - ( १५२४- ५) अपुत्रमृतघनभाजः क्रमेण पत्नी दुहिता दौहित्रश्च तेषां श्राद्धकृत्त्वं च देवलः - ( १५२५ - ६ ) अपुत्रमृतधनहरी दुहिता; अपुत्रमृतधनभाजः क्रमेण सोदराः दुहितरः पिता भ्रातरः माता भार्या कुल्याः सहवासिनश्च; अदाकिमब्राह्मणधनं राजा हरति, ब्रह्मस्वं श्रोत्रियाः; मृतसंस्कर्ता धनहारी उशना - - ( १५२६ ) अपुत्रमृतघनभाक् पत्नी प्रजापतिः -- (१५२६ ) अपुत्रमृतघनभाक् पत्नी; विधवा भरणभाक् यमः - (१५२६ ) अपुत्रमृतधनभाजः क्रमेण भ्राता पितरौ जेष्ठ पत्नी सगोत्राः शिष्याः सब्रह्मचारिणश्च. हारीतः - (१५२६-७) विभक्तापुत्रमृतधनभाजः क्रमेण पत्नी दुहितरः पितरौ भ्रातरः तत्सुताः सपिण्डाः संबन्धिबान्धवाश्च. लघुहारीतः - ( १५२७) मृतापुत्रधनभाजः क्रमेण पत्नीदुहितरः पितरौ भ्रातरः तत्सुतो
वृद्ध
मृतापुत्रधनाधिकारक्रमः [पृ.१४६४-१५४०]
वेदा: - ( १४६४) ब्राह्मणधनं न राजगामि. गौतमः - ( १४६४ - ६ ) प्रत्यासन्नाः सपिण्डसगोत्रसप्रवराः क्रमेण अपुत्रमृतघनभाजः; नियुक्ता पत्नी वा सर्वेषामभावे ब्राह्मणानामनपत्यानां धनं श्रोत्रियगाम्यैव इतरेषां राजगामि; विभक्तानपत्यधनभाक् ज्येष्ठ एव. हारीतः -- (१४६६ ) अपुत्रमृतपत्नी यौवनादिदोषवती प्रजीवनमात्रभाकू. आपस्तम्बः - ( १४६६ - ७) अपुत्रमृतघनभाजः क्रमेण प्रत्यासन्नाः सपिण्डाः, आचार्यान्तेवासिनो दुहिता वा, सर्वाभावे राजा. बौधायनः - ( १४६७ - ९ ) सपिण्डसकुल्यनिरुक्तिः; अनपत्यमृतधनभाजः प्रत्यासन्नाः सपिण्डाः सकुल्याः आचार्यान्तेवासि ऋत्विजः राजा च क्रमेण; ब्रह्मस्वं न राज्ञः किं तु श्रोत्रियस्य. वसिष्ठः -- (१४६९-७० ) अविभक्तानपत्यमृतधनभाक् पत्नी; अपुत्रमृतघनभाजः क्रमेण सपिण्डाः आचा | यन्तेवासिनो राजा च ब्रह्मस्वं श्रोत्रियाणामेव न राज्ञः . विष्णुः - ( १४७० - १ ) अपुत्रमृतधनभाजः क्रमेण पत्नीदुहितृपितृमातृभ्रातृतत्पुत्रबन्धुसकुल्य सहाध्यायिराजानः; ब्रह्मस्वं ब्राह्मणानामेव न राज्ञः; अपुत्रमृतघनभाक् न पुत्रिका बान्धवा वा किन्तु ज्ञातयः; अपुत्रमृतधनभाक् दौहित्रः; मृतवानप्रस्थधनभाजौ क्रमेण आचार्य शिष्यौ. शङ्खः शङ्खलिखितौ च - (१४७१-३) अपुत्रमृतघनभाजः क्रमेण भ्रातृपितृसगोत्रशिष्य सब्रहा चारिणः; भ्रात्रभावे ज्येष्ठा पत्नी वा; अपुत्रस्त्रीणां प्रजीवनमात्रम् ; ब्रह्मस्वं ब्राह्मणपरिषदः न राज्ञः; बाल स्त्रीधनादीन्यपि न राज्ञः; अनपत्यमृतभ्रातृधनभाजो भ्रातरो न भार्या दुहितरो वा, ताः प्रजीवनमात्रभाजः महाभारतम् - (१४७३) मृतापुत्रधनहारिणः दुहितृदौहित्राः. . कौटिलीयमर्थशास्त्रम् – (१४७३- ४) धर्म्यविवाहजाः पुत्रा दुहितरो वा रिक्थभाजः; अपुत्रधनभाजः सोदरभ्रातरः कन्याश्च तदभावे पिता भ्रातरो तत्पुत्राश्च क्रमेण; अदायकं राजा हरेत्; ब्रह्मस्वं ब्राह्मणानामेव मनुः -- (१४७४ - ९) मृतापुत्रधनहारिणः दुहितृदौहित्राः अनपत्यमृतधनभाजौ क्रमेण माता पितामही च अपुत्रमृतधनभाजः पिता भ्रातरः प्रत्यासन्नाः सपिण्डाः सकुल्या आचार्यशिष्यौ राजा च क्रमेण;