________________
स्त्रीपुंधर्माः
जायापदनिरुक्तिः
पतिर्भार्यां संप्रविश्य गर्भो भूत्वेह जायते । जायायास्तद्धि जायात्वं यदस्यां जायते पुनः ॥
(१) अर्थवादोऽयम् । न च पत्युः पत्न्या उदरे प्रवेशदर्शनं, अतः शरीरसारभूतशुक्रद्वारेण गुणवादतः प्रवेशोऽयमुच्यते । 'आत्मा वै पुत्रनामासी'ति । एतदेव जायाशब्दस्य भार्यावचनत्वे प्रवृत्तिनिमित्तम् । यतोऽस्यां पतिर्जायते । अपत्यजन्मनिमित्ते जायाशब्दे जारस्यापि जायोच्येत । मेधा. (२) एवं चासौ रक्षणीयेत्येतदर्थं नामनिर्वचनम् । गोरा. (३) जायापदं व्युत्पादयंस्तद्रक्षणेऽतीव यत्नमावि - ष्करोति-- पतिरिति द्वाभ्याम् । यो भजते हि स्त्री सुतं सूते तथाविधम् । तस्मात्प्रजाविशुद्धयर्थं स्त्रियं रक्षेत्प्रयत्नतः ॥
मच.
(१) ‘स्वां प्रसूतिमि’ति (मस्मृ. ९।७) यदुक्तं तद्दर्शयति । न चैवं मन्तव्यं यादृशं द्वितीयं पुरुषं सेवेत सुतं सूते पुत्रं जनयति तथाविधजातीयं, नापि गुणसादृश्यमभि - प्रेतं यतः शूद्रादिजातस्य चण्डालादिजातित्वं समानजातीयजातस्यापि नैव जातीयत्वं 'पत्नीध्वक्षतयोनि - वि'ति वचनात्, गुणसाहश्येऽपि विशीलदरिद्रपतिकाया उत्कृष्ट पुरुषगमनमनुज्ञातं स्यात् । यदा त्वयमर्थवादस्तदा यादृशं तथाविधमित्यकुलानुरूपमिति नीयते ।
मेधा.
(२) यस्माद्यथाविधं पुरुषं यथाचोदितं भर्तारं शास्त्रनिषिद्धं वा स्त्री सेवते तादृशं शास्त्रोक्तमेव तथोत्कृष्टं निषिद्धसेवनेन च निकृष्टं पुत्रं जनयति । तस्मादपत्यशुद्धयर्थं भार्या यत्नतो रक्षेत् । Xगोरा.
x ममु. गोविदः ।
(१) मस्मृ. ९।८; व्यक. १३०१ विर ४१७; स्मृचि. २७ र्भार्यां (जयां) तद्धि (स्याद्धि ); विभ. ४; समु. १२० संप्रविश्य (प्रविश्य स्वां) त्वेह (त्वाभि).
(२) मस्मृ.९।९; व्यक. १२९; स्मृच. २४१; विर. ४१४ स्त्रियं (स्त्रियो); स्मृचि.२७ व्यप्र. ४०८ द्दि स्त्री (स्त्री हि ); बिभ.४; समु.१२०.
व्य. का. १३२
१०४७
(३) यादृशं पुरुषमार्तवकाले स्त्री मनसा भजते तत्समानशीलं पुत्रं जनयतीति पूर्वार्धस्यार्थः । Xस्मृच. २४१
जायारक्षणोपायाः
ने कश्चिद्योषितः शक्तः प्रसह्य परिरक्षितुम् । एतैरुपायोगैस्तु शक्यास्ताः परिरक्षितुम् ॥
वक्ष्यमाणोपायप्रशंसार्थः श्लोकः । प्रसह्य बलेनावष्टभ्य शुद्धान्तावरोधादिना परपुरुषाधिध्यानादितो न शक्या रक्षितुम् । किंत्वेतैरुपाययोगैः शक्याः । योगाः प्रयोगाः । उपायैः प्रयुज्यमानैरित्यर्थः । ÷मेघा. अर्थस्य संग्रहे चैनां व्यये चैव नियोजयेत् । शौचे धर्मेऽन्नपक्त्यां च पारिणाह्यस्य चेक्षणे ॥
(१) अर्थो धनम् । तस्य संग्रहः संख्यादिना परिच्छिद्य रक्षार्थ वेश्मनि निधानं रज्ज्वाय सबन्धादिना संयम्य स्थापनं मुद्राङ्कमित्येवमादि । व्ययो विसर्गस्तस्यैव इदमेतावद्भक्तार्थमिदं च सूपार्थमेतावच्छाकार्थमिति । शौचं दर्विपिठरादिशुद्धिर्भूमिलेपनादिश्च । धर्म आचमनोदकतर्पणादि दानं स्त्रीवासगृहका दौं बलिकुसुमविकारैर्देवाचनम् । अन्नपक्तिः प्रसिद्धा । पारिणाह्यं यत्स्यादासंदीखयादि तत्प्रत्यवेक्षणे नियोक्तव्या । मेधा. (२) एवं च तद्व्यापृतमना श्रान्ता स्वपिति, संयोगं न स्मरति । गोरा.
x व्यप्र., भाच. स्मृचवत् ।
: गोरा, मवि., ममु., मच., भाच, मेधावत् ।
(१) मस्मृ. ९ | १०६ व्यक. १३०; स्मृच. २४० क्या (क्त); विर. ४१६; पमा. ४७३३ रत्न. १३४पू. नृप्र. ३३; व्यप्र.४०८; व्यउ.१४१; विता. ८२१ पू. सेतु. २८२ स्तु (च); विभ.८० समु. १२०. (२) मस्मृ. ९।११ घ. पुस्तके चेक्ष (वेक्ष); व्यक. १३०१ स्मृच. २४१ णा (णा); विर. ४१६. शौचे धर्मेन (शौचधर्मे च); पमा. ४७३; रत्न. १३४; व्यप्र.४०८ में न (च); व्यउ. १४१ चैनां (वैतां) मेंन्न ( में च); विता. ८२१ मेंsन्न (च) चेक्ष (रक्ष); बाल. २/१४५ (२६२) (शौचे धर्मेऽन्नपक्त्यां च परिणाह्यस्य वीक्षणम् ) उत्त; सेतु. २८२ विरवत्; विभ८ चेक्ष (रक्ष) शौचे (शौच ) ह्यस्य (स्यस्य); समु. १२० स्मृचवत् . १ नादिना.