________________
.१०४४
व्यवहारकाण्डम्
(१) इच्छातः शुल्कग्रहणे पूर्वेण विधिरुक्तः, कस्यचित्तत एवाशङ्का स्याददोषं शुल्कग्रहणं, शास्त्रे गृहीत - शुल्काया विशेष उक्तो यतः, अत इमामाशङ्कामपनेतुमाह । आददीत न शूद्रोऽपि शुल्कमिति । इच्छातः प्रवृत्तौ शास्त्रीयो नियमो न तु शास्त्रेण पदार्थस्यैव कर्तव्यतोक्ता । यथा मद्यपीतस्य प्रायश्चित्ते न मद्यपानं शास्त्रेणानुज्ञातं भवति । शुल्कसंज्ञेन यदेवोक्तं 'गृह्णन्हि शुल्कं लोभेन' इति । येन तु विशेषेण पुनः पाठोऽसौ प्रदर्शित एव । मेधा.
(२) अत्र प्रसंगादर्थान्तरमाह - आददीतेति । छन्नमपि शुल्कं प्रतिग्रहादिरूपेणापि छद्मना कन्याभिसंधिना शुल्कं गृह्णन्दुहितृविक्रयं कुरुते । वि.
(३) शास्त्रानभिज्ञः शूद्रोऽपि पुत्रीं ददच्छुल्कं न गृह्णीयाकिं पुनः शास्त्रविद्विजातिः । यस्माच्छुल्कं गृह्णन्गुप्तं दुहितृविक्रयं कुरुते । न कन्यायाः पितेत्येनेन निषिद्धमपि शुल्कग्रहणं कन्यायामपि गृहीतशुल्कायां शास्त्रीयनियमदर्शनाच्छुल्कग्रहणे शास्त्रीयत्वशङ्कायां पुनस्तन्निषिध्यते ।
ममु.
ऐतत्तु न परे चक्रुर्नापरे जातु साधवः । यदन्यस्य प्रतिज्ञाय पुनरन्यस्य दीयते ॥
(१) यदुक्तं गृहीते शुल्के कन्येच्छायां सत्यां मृते तु शुल्कदेऽस्या अन्यत्र दानमिति तन्निषेधति । यदन्यस्य शुल्कदस्य प्रतिज्ञाय पुनरन्यस्मै दीयते पुनः शुल्कं गृही त्वेति । परं स्वयंवरं तु कारयेत्कन्याम् । एष एवार्थः ।
X मेधा
I
(२) अतो देवरं प्रत्यननुमतायां कन्यायां नान्यस्मै सा देया । सोदरस्तु भ्रातात्मैवेति गृहीतस्य शुल्कस्य तद्धनत्वात्तस्मै दीयमानायां कन्यायां दोषाभाव इति तात्पर्यम् । अभ्यनुज्ञाय शुल्कग्रहणेनान्यस्मै प्रतिपद्य । +मवि.
नोनुशुश्रुम जात्वेतत्पूर्वेष्वपि हि जन्मसु । शुल्कसंज्ञेन मूल्येन छन्नं दुहितृविक्रयम् ॥
x ममु. मेधावत् । + मच. मविवत् । (१) स्मृ. ९ ९९ समु. ११९ मविवत् उत्त.
१ वरं..
चि. स्य प्रति (स्याभ्यनु) विभ. ३४; (२) मस्मृ. ९ | १००.
(१) न कुतश्चिदस्माभिः श्रुतं पूर्वेषु जन्मसु कल्पान्तरेध्वित्यर्थः । मेधा. (२) छन्नशुल्कग्रहेण दुहितृविक्रये प्रागुक्ते सदाचारविरोधं दर्शयति--नानुशुश्रुमेति । ÷मवि. स्त्रीपुंधर्मप्रतिज्ञा
पुरुषस्य स्त्रियाश्चैव धर्म्ये वर्त्मनि तिष्ठतोः । संयोगे विप्रयोगे च धर्मान्वक्ष्यामि शाश्वतान् ॥
(१) स्त्रीसंग्रहणानन्तरं विवादपद निर्देशः 'स्त्रीपुंधर्मो विभागचे 'ति तदिदानीमुच्यते । भर्त्रा कथंचिदपि बाध्यमानया तेन सह राजनि विवदितव्यमिति । पत्युरुपचर्योक्ता न भार्या प्रति प्रभुत्वं उपचारश्च भृत्यवच्छुश्रूषा पादसंवाहनादि । स्त्रीपुरुषशब्दौ च यद्यपि लिङ्गविशेषावच्छिन्नमनुष्यजातिवचनौ तथापीह संबन्धिनि जायापत्यौ 'अस्वतन्त्राः स्त्रियः कार्याः पुरुषैः स्वैर्दिवानिशमिति (मस्मृ. ९।२ ) स्वग्रहणेन संबन्धितां लक्षयति । भर्तुः स्त्रियाश्च जायायाः संयोग एकत्र संबन्धिनिधाने तथा विप्रयोगे प्रवासप्रायणे । शाश्वतग्रहणं स्तुतिः । धर्म्ये वर्त्मनि तिष्ठतोरनुवादोऽयम् । न्याय्यः धर्मशास्त्राचारनिमेधा. रूढो मार्गः । (२) स्त्रीपुंसयोर्द्वम्पत्योरन्योन्याव्यभिचारलक्षणे मार्गे वर्तमानयोः संयुक्तयोर्वियुक्तयोश्च नित्यान् धर्मान्वक्ष्यामि । जायापत्योरितरेतरविप्रतिपत्तौ कथंचित् राजनिवेदने सत्यनया व्यवस्थया राज्ञा दण्डादिनापि मार्गस्थापनं करणीयम् । अकरणाद्राज्ञो दोषः । इत्येतदर्थे व्यवहार*गोरा. मध्ये राजधर्मेषु स्त्रीपुंसयोर्धर्मा उच्यन्ते । स्त्रीणामस्वातन्त्र्यविधिः, रक्षणविधिः, रक्षणप्रयोजनम् अस्वतन्त्राः स्त्रियः कार्याः पुरुषैः स्वैर्दिवानिशम् । विषयेषु च सज्जन्त्यः संस्थाप्या ह्यात्मनो वशे ॥ ÷ ममु. मविवत् ।
* मवि, ममु., मच, नन्द. गोरावत् ।
(१) मस्मृ. ९।१६ व्यक. १२८३ स्मृच. २३९६ विर. ४०९; रत्न. १३३; स्मृचि. २७ धर्म्ये (स्वे स्वे); व्यप्र. ४०४; व्य. १३९; विता. ८२० धन्यै (धर्मे); बाल. २।२९५; सेतु. २८० धर्म्ये (धर्मे) संयो (संभो); विभ. २१ वितायत्; समु. ११९.
(२) मस्मृ. ९/२ ह्या ( आ ); मिता. २।२९५; व्यक. १२८; स्मृच.२३९ षु च सज्जन्त्य : (सज्जमानाश्च ); विर.