________________
१०३६
व्यवहारकाण्डम्
ऊर्ध्वम्, अशुश्रूषायां अपरिचर्यामां द्वादशपणः स्त्रियाः । विभ्यतिक्रमनिमित्तः स्त्रियाः दण्डः वाक्पारुष्यदण्डदण्डः, पुंसो द्विगुणः चतुर्विंशतिपणो दण्डः । पारुष्योक्त एव न त्वर्धदण्डः पुंस इव । इति पारुष्यं, व्याख्यातम् ।
भर्मण्यायामिति । गृहभरणनियुक्तायाम्, अनिर्दिष्टकालायां अद्वैतावद् गृहीतमेतावद् विनियुक्तमित्यकृतकालनिर्देशायां, ग्रासाच्छादनं वाधिकं ग्रासमाच्छादनं च पर्याप्तं किञ्चिदधिकं वा, यथापुरुषपरिवापं गृहभरणीयजनोपकरणानतिक्रमणेन, सविशेषं सातिशयं दद्याद् असंख्यायैव । निर्दिष्टकालायां तदेव ग्रासाच्छादनमेव न तु ततोऽधिकं, संख्याय एकस्याहोरात्रस्यैतावदितीयत्तामाकलय्य, दद्यादित्यनुषज्यते । बन्धं च दद्यात् विवदमानायां तस्यां साध्यद्रव्यस्य पञ्चभागं दशभागं च दद्यात् । शुल्कादीनामनादाने च शुल्कस्त्रीधने प्रतीते आधिवेदनिकं अधिवेदननिमित्तं पत्या दत्तं एते षामग्रहणेऽपि बन्धं दद्यात्, ग्रहणे तु का कथेत्यर्थः । ७. श्वशुरेत्यादि । श्वशुरकुलप्रविष्टायां विभक्तायां वा श्वशुरगृहप्राप्तायां वा भर्तृकृतविभागायां वा स्त्रियां, नाभियोज्यः पतिः भर्ता तया अभियोक्तुं न योग्यो ग्रासाच्छादनार्थे । इति भर्मेति । व्याख्यातमिति शेषः ।
द्वेषमाह भर्तारमिति । भर्तारं द्विषती अरोचयमाना, स्त्री, सप्तार्तवानि सप्त ऋतुकालान् अमण्डयमाना शयनार्थमनुपतिष्ठमाना प्रतीक्ष्येतेति शेषः । ततो मण्डयमाना किं कुर्यादित्याह तदानीमेव सद्य एव स्थाप्याभरणं निधाय स्थाप्यशब्दो न्यासवाची स्वीयं भूषणं अपुनद्वेषप्रत्ययार्थं भर्तुन्यसं कृत्वा, अन्यया सह शयानं भर्तारं अनुशयीत सपश्चात्तापमुपतिष्ठेत । स्त्रियाः स एप भर्तृपदण्डो बोद्धव्यः । श्रीमू. भिक्षुक्यन्वाधिज्ञातिकुलानामन्यतमे वा भर्ता द्विषन् स्त्रियमेकामनुशयीत ।
दृष्टलिङ्गे मैथुनापहारे सवर्णापसर्पोपगमे बा मिथ्यावादी द्वादशपणं दद्यात् ।
अमोक्ष्या भर्तुरकामस्य द्विषती भार्या भार्यायाश्च भर्ता । परस्परं द्वेषान्मोक्षः ।
।
- पारुष्यमाह - नग्ने इत्यादि । नग्ने असंस्कृतबुद्धिस्वात् कोट्टवीतुल्ये। विनग्ने विशेषेण नग्ने । नष्टे विनष्टे इति पाठे स्फुट एवार्थः । न्यङ्गे निन्द्ये, अङ्गहीने वा, अपितृके, अमातृके, कुत्सितपितृके, कुत्सितमातृके, इत्यनिर्देशेन एवंप्रकारेण साक्रोश संबोधनेन, विनयग्राहणं सदाचारस्योपदेशना कर्तव्या । अनिर्देशेन विनयासिद्धावाह - वेणुदलेत्यादि । वेणुदलादीनां त्रयाणां अन्यतमेन वा, पृष्ठे, त्रिराघातः श्रीणि ताडनानि, कर्तव्यानि । तस्यातिक्रमे उक्तस्य द्विविधस्य पारुष्यस्य अतिक्रमे विहितविजातीयारुन्तुदाक्रोशकरणे अवेण्वादिना अपृष्ठे सकृदपि वाघाते वेण्वाद्यन्यतमेन पृष्ठ एव चतुराघाते चेत्यर्थः, वाग्दण्डपारुष्यदण्डाभ्यामर्धदण्डाः वाक्पारुष्यदण्डाद् दण्डपारुष्यaust वक्ष्यमाणादर्धदण्डाः, भवन्ति ।
गणिकाद्यासक्तिनिमित्तकेर्ष्यावशाद् भर्तरि विषये स्त्रियाः पतिव्रतायाः पारुष्यस्य प्रसक्तस्य मात्रामाह - तदेवेत्यादि । तदेव भर्तुर्यादृशमुक्तं तादृशमेव । द्वारेषु पारुष्यप्रयोगस्थानेषु । अत्ययो यथानिर्दिष्ट इति उक्त
1
स्त्रीविप्रकाराद् वा पुरुषश्चेन्मोक्षमिच्छेद् यथागृहीतमस्यै दद्यात् । पुरुषविप्रकाराद् वा स्त्री चेन्मोक्षमिच्छेत्, नास्यै यथागृहीतं दद्यात् । अमोक्षो धर्मविवाहानाम् । इति द्वेषः ।
प्रतिषिद्धा स्त्री दर्पमद्यक्रीडायां त्रिपणं दण्डं दद्यात् । दिवा स्त्रीप्रेक्षाविहारगमने षट्पणो दण्डः । पुरुषप्रेक्षाविहारगमने द्वादशपणः । रात्रौ द्विगुणः ।
सुप्रमत्तप्रत्रजने भर्तुरदाने च द्वारस्य द्वादशपणः । रात्रौ निष्कासने द्विगुणः ।
स्त्रीपुंसयो मैथुनार्थेऽनङ्गविचेष्टायां रहोश्लीलसंभाषायां वा चतुर्विंशतिपणः स्त्रिया दण्डः, पुंसो द्विगुणः । केशनीवीदन्तनखावलम्बनेषु पूर्वः साहसदण्डः, पुंसो द्विगुणः ।
शङ्कितस्थाने संभाषायां च पणस्थाने शिफादण्डः । स्त्रीणां ग्राममध्ये चण्डालः पक्षान्तरे पश्चशिफा दद्यात् । पणिकं वा प्रहारं मोक्षयेत् 1 इत्यतिचारः ।
प्रतिषिद्धयोः स्त्रीपुंसयोरन्योन्योपकारे क्षुद्रक