________________
श्रीपुंधर्माः
पत्न्यै वस्त्रदानम्
या अकृन्तन्नबयन् याश्च तत्निरे या देवीरन्ताँ अभितोददन्त । तास्त्वा जरसे सं व्ययन्त्वायुष्मतीदं परि धत्स्व वासः ॥
दीर्घायुष्यं वध्वः प्रायते
जीवं दन्ति नियन्त्यध्वरं दीर्घामनु प्रसितिं युर्नरः । वामं पितृभ्यो य इदं समीरिरे मयः पतिभ्यो जनये परिष्वजे ॥
स्योनं ध्रुवं प्रजायै धारयामि तेश्मानं देव्याः पृथिव्या उपस्थे । तमातिष्ठानुमाया सुवर्चा दीर्घ त आयुः सविता कृणोतु ॥
पाणिग्रहणम् । धर्मपत्नीत्वम् । प्रजार्थं विवादः । येनाग्निरस्यां भूम्या हस्तं जग्राह दक्षिणम् । तेन गृह्णामि ते हस्तं मा व्यथिष्ठा मया सह प्रजया च धनेन च ॥
देवस्ते सविता हस्तं गृह्णातु सोमो राजा सुप्रजसं कृणोतु । अग्निः सुभगां जातवेदाः पत्ये पत्नीं जरदष्टिं कृणोतु ॥
भगस्ते हस्तमग्रहीत् सविता हस्तमग्रहीत् । पत्नी त्वमसि धर्मणाहं गृहपतिस्तव ॥ वध्वः वस्त्रधारणम् । पतिपत्नीसंबन्धः । गृहजनाविरोधित्वं पत्न्या आशास्यते । दम्पत्यो भोग्यसंपत् । इष्टा देवरे प्रीतिः पत्न्याः ।
प्रजार्थं विवाहः । आशिषः । अनिष्टनिवारणम् । मेयमस्तु पोष्या मह्यं त्वादाद् बृहस्पतिः । मया पत्या प्रजावति सं जीव शरदः शतम् ॥ त्वष्टा वासो व्यदधाच्छुभे कं बृहस्पतेः प्रशिषा कवीनाम् । तेनेमां नारीं सविता भगश्च सूर्या -
मिव परिधत्तां प्रजया ॥ इन्द्राग्नी द्यावापृथिवी मातरिश्वा मित्रावरुणा भगो अश्विनोभा । बृहस्पतिर्मरुतो ब्रह्म सोम इमां नारीं प्रजया वर्धयन्तु ।।
।
बृहस्पतिः प्रथमः सूर्यायाः शीर्षे केशा अकल्पयत् -तेनेमामश्विना नारीं पत्ये सं शोभयामसि ॥ इदं तद्रूपं यदवस्त योषा जायां जिज्ञासे मनसा
(१) असं. १४/१/५२-६४.
१००१
चरन्तीम् । तामन्वर्तिष्ये सखिभिर्नवग्वैः क इमान् विद्वान् वि चचर्त पाशान् ।
अहं विव्यामि मयि रूपमस्या वेददित् पश्यन् मनसः कुलायम् । न स्तेयमद्मि मनसोदमुच्ये स्वयं श्रभानो वरुणस्य पात्रान् ॥
प्र त्वा मुखामि बरुणस्य पाशात् येन त्वाबध्नात् सविता सुशेवाः । उरुं लोकं सुगमत्र पन्थां कृणोमि तुभ्यं सहपत्न्यै वधु ॥
उद्यच्छध्वमप रक्षो नाथे मां नारीं सुकृते दधात । धाता विपश्चित् पतिमस्यै विवेद भगो राजा पुर एतु प्रजानन् ॥
भगस्ततक्ष चतुरः पादान् भगस्ततक्ष चत्वार्युष्पafra | त्वष्टा पिपेश मध्यतोनु वर्धन्त्सा नो अस्तु सुमङ्गली ॥
"सुकिंशुकं वहतुं विश्वरूपं हिरण्यवर्ण सुवृतं सुचक्रम् | आ रोह सूर्ये अमृतस्य लोकं स्योनं पतिभ्यो वहतुं कृणु त्वम् ॥
अभ्रातृघ्नीं वरुणा पशुघ्नीं बृहस्पते । इन्द्रापतिघ्नीं पुत्रिणीमास्मभ्यं सवितर्वह । माहिंसिष्टं कुमार्य स्थूणे देवकृते पथि । शालाया देव्या द्वारं स्योनं कृण्मो वधूपथम् ॥ ब्रह्मापरं युज्यतां ब्रह्मपूर्व ब्रह्मान्ततो मध्यतो ब्रह्म सर्वतः । अनाव्याधां देवपुरां प्रपद्य शिवा स्योना पतिलोके वि राज । तुभ्यम पर्यवहत्सूर्य वहतुना सह । स नः पतिभ्यो जायां दा अग्रे प्रजया सह ॥ दीर्घायुरस्या यः पतिर्जीवाति शरदः शतम् ॥ पुनः पत्नीममिरदादायुषा सह वर्चसा ।
सोमस्य जाया प्रथमं गन्धर्वस्तेपरः पतिः । तृतीय अनिष्टे पतिस्तुरीयस्ते मनुष्यजाः ॥ सोमो ददद् गन्धर्वाय गन्धर्वो दददद्मये । रयिं च पुत्रांश्चादादग्निर्मह्यमथो इमाम् ॥ आ वामगन्त्सुमतिर्वाजिनीवसू न्यश्विना हृत्सु कामा अरंसत । अभूतं गोपा मिथुना शुभस्पती प्रिया अर्यम्णो दुर्या अशीमहि ॥
(१) असं. १४।२।१-७५.