________________
व्यवहारकाण्डम्
१०००
समानलोको भवति पुनर्भुवापरः पतिः । योजं पचौदनं दक्षिणा ज्योतिषं ददाति ॥ अनुपूर्ववत्सां धेनुमनङ्ग्राहमुपबर्हणम् । वासो हिरण्यं दत्त्वा ते यन्ति दिवमुत्तमाम् ॥ आत्मानं पितरं पुत्रं पौत्रं पितामहम् । जायां जनित्रीं मातरं ये प्रियास्तानुप ह्वये । पत्युः पत्न्योश्च वयनरूपं एकं कर्म
तेन्त्रमेके युवती विरूपे अभ्याक्रामं वयतः मयूखम् । प्रान्या तन्तूंस्तिरते धत्ते अन्या नाप वृञ्जते न गमातो अन्तम् ॥
तयोरहं परिनृत्यन्त्योरिव न वि जानामि यतरा परस्तात्। पुमानेनद्वयत्युद्गृणत्ति पुमानेनद् वि जभाराधि नाके ||
इमे मयूखा उप तस्तभुर्दिवं सामानि चकुस्तसराणि वातवे ॥
ब्रह्मचारिण्या विवाह:
ब्रह्मचर्येण कन्या युवानं विन्दते पतिम् ।
वराः ज्येष्ठवरश्चेति वरप्रकारौ चैन्मन्युर्जयामावहत् संकल्पस्य गृहादधि । क आसं जन्याः के बराः क उ ज्येष्ठवरोऽभवत् ॥ तपश्चैवास्तां कर्म चान्तर्महत्यर्णवे । त आसं जन्यास्ते वरा ब्रह्म ज्येष्ठवरोऽभवत् ॥ वर्णभरणं वधूकर्म
सर्वे देवा उपाशिक्षम् तदजानाद् वधूः सती । ईशा वंशस्य या जाया सास्मिन् वर्णमाभरत् ॥ कन्यादानम् । वध्र्वः पतिगृहगमनम् । एकस्याः पतिद्वयम् । बध्वः वैवाहिकालङ्कारादीनि । "चित्तिरा उपबर्हणं चक्षुरा अभ्यञ्जनम् ।
६
• यौर्भूमिः कोश आसीद् यदयात् सूर्या पतिम् ॥ रैभ्यासीदनुदेयी नाराशंसी न्योचनी । सूर्याया भद्रमिदं वासो गाथयैति परिष्कृता ॥
(१) असं. १०।७१४२-४४. (२) असं. ११।७।१८० (३) असं. ११।१०।१, २. (४) असं. ११।१०।१७. (५) असं. १४।१।६; ऋसं. २०७५/७६ शा. १।१२/४. (६) असं. १४।१।७; ऋसं. २०१८५/६६ शागृ. १।१२।३.
स्तोमा आसन् प्रतिधयः कुरीरं छन्द ओपशः । सूर्याया अश्विना वराभिरासीत् पुरोगवः ॥ सोमो वधूयुरभवदश्विनास्तामुभा वरा । सूर्या यत् पत्ये शंसन्तीं मनसा सविताददात् ॥ मनो अस्या अन आसीद् द्यौरासीदुत च्छविः । शुक्रावनङ्ग्राहावास्तां यदयात् सूर्या पतिम् ॥ ऋक्सामाभ्यामभिहितौ गावौ ते सामनावैताम् । श्रोत्रे ते चक्रे आस्तां दिवि पन्थाश्चराचरः ॥ शुची ते चक्रे यात्या व्यानो अक्ष आहतः । अनो मनस्मयं सूर्यारोहत् प्रयती पतिम् ॥ सूर्याया वहतुः प्रागात् सविता यमवासृजत् । मघासु हन्यन्ते गावः फल्गुनीषु व्युह्यते ॥ यदश्विना पृच्छमानावयातं त्रिचक्रेण वहतुं सूर्यायाः । कैकं चक्रं वामासीत् क देष्ट्राय तस्थथुः ॥
पत्न्याः पतिनिष्ठा गृहे अन्यजनसंबन्धश्च युवं भगं सं भरतं समृद्धमृतं वदन्तावृतोद्येषु । ब्रह्मणस्पते पतिमस्यै रोचय चारु संभलो वदतु वाचमेताम् ॥ इदसाथ न परो गमाथेमं गावः प्रजया वर्धयाथ | शुभं यतीरुस्रियाः सोमबचसो विश्वे देवाः क्रन्निह वो मनांसि ॥ आशासाना सौमनसं प्रजां सौभाग्यं रयिम् । पत्युरनुव्रता भूत्वा सं नास्वामृताय कम् ॥ यथा सिन्धुर्नदीनां साम्राज्यं सुषुवे वृषा । एवा त्वं सम्राज्ञ्येधि पत्युरस्तं परेत्य ॥ सम्राज्ञयेधि श्वशुरेषु सम्राज्ञ्युत देवृषु । ननान्दुः सम्राज्ञ्येधि सम्राज्ञ्युत श्वश्वाः ॥
(१) असं. १४/१/८ - १४ ऋसं. १०।८५/८-१५ सूर्या पतिम् (सूर्या गृहम् ) वैताम् (वित :) मघासु (अधासु ) फल्गुनीषु न्युह्यते (अर्जुन्योः पर्युह्यते)...
(२) असं. १४।१।३१,३२.
(३) असं. १४ । १ । ४२; तैसं. १।१।१०।१ पत्युरनु (अझेरनु); कासं. १1१० तैसंवत्; तैब्रा. ३/३+३२; आपचौ. २ 1 ५२ पू. मात्रौ . १ २ ५ १२; आपगृ. २५/८; वैसू. २५६ पू. कौसू. ७६/७ पू. (४) असं. १४।१।४३ - ४९, ५१.