________________
९९२
व्यवहारकाण्डम्
कृताभिषेका राज्ञः स्त्री महिषी, परिवृक्तिः प्रीतिरहिता राज्ञः स्त्री ।
तैसा.
बहुत्री कामना याः स्त्रियः समनसस्ता अहं कामये हृदा ता मां कामयन्ता ँ हृदा ताम आमनसः कृधि स्वाहा ।
स्त्रीणां यथाकामसंभोगाभ्यनुज्ञा । रजस्वलाधर्माः । से स्त्रीष सादमुपासीददस्यै ब्रह्महत्यायै तृतीयं प्रतिगृह्णीतेति ता अब्रुवन्वरं वृणामहा ऋत्विया त्प्रजां विन्दाम है काममा विजनितोः सं भवामेति तस्मादृत्वियात्त्रियः प्रजां विन्दन्ते काममा वि
तोः संभवन्ति वारेवृत ँ ह्यासां तृतीयं ब्रह्महत्यायै प्रत्यगृह्णन्त्सा मलवद्वासा अभवत्तस्मान्मलबद्वाससा न सं वदेत । न सहाऽऽसीत नास्या अन्नमद्याद्ब्रह्महत्यायै ह्येषा वर्ण प्रतिमुच्याऽऽस्तेऽथो खल्वाहुरभ्यञ्जनं वाव स्त्रिया अन्नमभ्यनमेव न प्रतिगृह्यं काममन्यदिति यां मलद्वासस संभवन्ति यस्ततो जायते सोऽभिशस्तो यामरण्ये तस्यै स्तनो यां पराचीं तस्यै ह्रीतमुख्यपगल्भो या स्नाति तस्या अप्सु मारुको या । अभ्यङ्क्ते तस्यै दुवर्मा या प्रलिखिते तस्यै खलतिरपमारी याऽऽङ्क्ते तस्यै काणो या दतो धावते तस्यै श्यावदन्या नखानि निकृन्तते तस्यै कुनखी या कृणत्ति तस्यै क्लीबो या रज्जु सृजति तस्या उद्बन्धुको या पर्णेन पिबति तस्या उन्मादुको या खर्वेण पिबति तस्यै खर्वस्तिस्रो रात्रीतं चरेदञ्जलिना वा पिबेदखर्वेण वा पात्रेण प्रजायै गोपीथाय ।
स्त्रियः सम्यक्सीदन्ति विश्रम्भेणोपविशन्ति यस्यां सभायामिति स्त्रीसभाविशेषः स्त्रीष सादः । ऋत्वियाहतुसंबन्धाद्वीर्यात्प्रथम संभोगादेव गर्भे जातेऽपि काम मुदिश्याऽऽविजनितोरा प्रसवात्पुरुषेण संगच्छेमहि । गर्भोपद्रवः प्रत्यवायश्च निषिद्धदिनकृतोऽस्माकं मा भूदिति वरः । अत एव याज्ञवल्क्यस्मृतिः - ' यथाकामी भवेद्वापि स्त्रीणां वरमनुस्मरन्' इति । यो ब्रह्महत्यायास्तृतीयो भागः सा मलवद्वासा रजस्वला योषिद
(१) तैसं. २३/९/२. (२) तैसं. २/५/१।५-७.
भवत् । यस्मादियं ब्रह्महत्याया रूपं शरीरे कञ्चुकवत्प्रतिमुच्याssस्ते तस्मात्तया सह संभाषणं न कुर्यात् । तया सद्दैकस्मिन्गृहे वासो न कर्तव्यः । तत्स्वामिकं तत्स्पृष्टं वाऽन्नं नाश्नीयात् । अपि चाभिज्ञा: केचिदेवमाहुःस्त्रियाः शृङ्गारोपयोगित्वेनाभ्यञ्जनमेवान्नस्थानीयं, तदीयं तैलादिकमेव न गृह्णीयात् । तया वा स्वशरीराभ्यञ्जनं न कारयेत् । अन्यदन्नं सत्यामिच्छायां भोक्तव्यमिति । अभिशस्तो मिथ्यापवादयुक्तः यामरण्ये, मलवद्वासस ँ संभवन्तीत्यनुवर्तते । पराचीमुच्चारणभीत्या लज्जया वा पराङ्मुखीम् । सभायामवाङ्मुखो वक्तुमशक्तो हीतमुख्यपगल्भ इत्युच्यते | मारुको मरणशीलः । दुश्चर्मा कुष्ठी । प्रलिखते भित्तौ चित्रादिकं करोति । खलतिः केशशून्यः । अपमारी दुर्मरणयुक्तः । काणः कुण्ठिताक्षः । श्यावदन्मलिनदन्तः । कृणत्ति तृणादि छिनत्ति । उद्व न्धुको रज्जुं बद्ध्वा मरणशीलः । खर्वेण वह्निपक्वेन शरावादिना । खर्वो वामनः । यस्मादुक्ता दोषा वर्तन्ते : तस्मात्तत्परिहाराय रजस्वलाव्रतं संभवादिवर्जनरूपं नियममाचरेत् । भोजनेऽञ्जलिरदग्धशरावादिर्वा साधनमस्तु । व्रताचरणमुत्पत्स्यमानायाः प्रजाया रक्षणार्थं भवति । अत्र मीमांसा । तृतीयाध्यायस्य चतुर्थपादे चिन्तितम् । 'न संवदेत मलवद्वाससेत्यपि पूर्ववत् । पुमर्थः स्यात्क्रतौ क्वापि संवादस्याप्रसक्तितः ॥ दर्शपूर्णमासप्रकरणे श्रूयते ' मलवद्वाससा न संवदेत' इति । अस्य निषेधस्य प्रकरणात्क्रत्वङ्गत्वमिति चेन्न । अप्रसक्तप्रतिपेधप्रसङ्गात् । 'यस्य व्रत्येऽहन्पत्न्यनालम्भुका भवति । तामपरुध्य यजेत' इति रजस्वलाया निःसारणान्न ऋतौ संवादप्रसक्तिः । तस्मात्केवलपुरुषार्थस्यास्य प्रकरणादुत्कर्षः । तैसा.
अमावास्या पौर्णमास्योभोंगनिषेधः नामावास्यायां च पौर्णमास्यां च स्त्रियमुपेयाद्य-. दुपेयान्निरिन्द्रियः स्यात्सोमस्य वै राज्ञोऽर्धमासस्य रात्रयः पत्नय आसन् तासाममावास्यां च पौर्णमासीं च नोपैत् । ते एनमभि समनह्येतां तं यक्ष्म आछेद्राजानं यक्ष्म आरदिति तद्राजयक्ष्मस्य जन्म
(१) तैसं. २।५।६।४-५.