________________
स्त्रीपुंधर्माः
पाणिग्रहणम् । पतिपत्नीसंबन्धः ।
गृणामि ते सौभगत्वाय हस्तं मया पत्या जरदष्टिर्यथासः । भगो अर्यमा सविता पुरन्धिर्मह्यं त्वादुर्गार्हपत्याय देवाः ॥
हे वधु ते तव हस्तमहं गृभ्णामि । गृह्णामि । किमर्थम् । सौभगत्वाय सौभाग्याय । मया पत्या त्वं यथा जरदष्टिः प्राप्तवार्धक्यासः भवसि । भगोऽर्यमा सविता पुरन्धिः पूषा एते देवास्त्वा त्वां मह्यमदुः । दत्तवन्तः । किमर्थम् । गार्हपत्याय । यथाहं गृहपतिः स्यामिति । तो पूषञ्छितमामेरयस्व यस्यां बीजं मनुष्या वपन्ति । या न ऊरू उशती विश्रयाते यस्यामुशन्तः प्रहराम शेपम् ॥
ऋडसा.
हे पोषनामक देव शिवतमामत्यन्तमङ्गलभूतां तामेरयस्व । आ ईरय । सर्वतः प्रेरय । यस्यामूरौ बीजं रेतोलक्षणं मनुष्या वपन्ति आदधते । या नो Sस्माकमूरू उशती कामयमाना विश्रयाते । यस्यामूरावुशन्तः कामयमाना वयं शेपं स्पर्शनयोग्यं पुंस्प्रजननं प्रहराम । ऊरौ व्यञ्जनसंबन्धं करवामेत्यर्थः ।
ऋसा.
सक्रम बहुपतिकत्व लिङ्गम् । पूर्व देवः अनन्तरं मनुष्यः पतिः । तुभ्यमग्रे पर्यवहत्सूर्या वहतुना सह । पुनः पतिभ्यो जायां दा अग्ने प्रजया सह ॥ गन्धर्वा हे अग्ने तुभ्यमग्रे पर्यवहन् । प्रायच्छन्नित्यर्थः । काम् । सूर्याम् । केन सह । वहतुना सह । त्वं च तां सूर्यो वहतुना सह सोमाय प्रायच्छः । तद्वदिदानीमपि अ पुनः पतिभ्योऽस्मभ्यं जायां प्रजया सह दा: । देहि ।
ऋसा.
९८५
३।८।१०.
(३) ऋसं. १०।८५ ३८६ असं. १४।२।१६ पागृ. १ ७ ३; आप गृ. २/५ ७,९,१०; मागू. १।११।१२ मधे (मने ); कौसू.७८।१०.
पुनः पत्नी मिरदादायुषा सह वर्चसा । दीर्घायुरस्य यः पतिर्जीवाति शरदः शतम् ॥ पुनः स्वगृहीतां पत्नी मनिरायुषा सह वर्चसा सहादात् । प्रायच्छत् । अस्या अग्निदत्ताया यः पतिः पुमान् स दीर्घायुः सन् शरदः शतं शतसंवत्सरं जीवाति । जीवतु । सोमः प्रथमो विविदे गन्धर्वो विविद उत्तरः । तृतीयो अनिष्ठे पतिस्तुरीयस्ते मनुष्यजाः ॥
ऋसा.
ऋसा.
जातां कन्यां सोमः प्रथमभावी सन् विविदे । लब्धवान् । गन्धर्ष उत्तरः सन् विविदे । लब्धवान् । अग्निस्तृतीयः पतिस्ते तव । पश्चान्मनुष्यजाः पतिस्तुरीयश्चतुर्थः । सोमो ददन्धर्वाय गन्धर्वो दददनये । रयिं च पुत्रांश्चादादग्निर्मह्यमथो इमाम् ॥ सोमो गन्धर्वाय प्रथमं ददत् । प्रादात् । गन्धर्वोऽनये प्रादात् । अथो अपि चाग्निरिमां कन्यां रयिं धनं पुत्रांश्च मह्यमदात् ।
ऋसा.
पतिपत्नीसंबन्धः । धनप्रजायूंषि गार्हस्थ्येष्टम् । इहैव स्तं मावि यौष्टं विश्वमायुर्व्यश्रुतम् । क्रीळन्ती पुत्रैर्नभिर्मोदमानौ स्वे गृहे ॥
इहैव स्तम् । इहैवास्मिँल्लोके स्तम् । भवतम् । मा वि यौष्टम् । मा पृथग्भूतम् । विश्वमायुर्व्यश्नुतम् । प्राप्नुतम् । किञ्च पुत्रैर्नप्तृभिः पौत्रैः सह स्वे गृहे मोदमानौ भवतमिति शेषः ।
ऋसा.
आ नः प्रजां जनयतु प्रजापतिराजरसाय समन
(१) ऋसं. १०।८५ ३९; असं. १४।२।२; आपगृ. २२५/७ ९,१०१ मागू. १।११।१२.
(१) ऋसं. २०१८ ५/३६६ सामबा. ११२ । १६; आग. ११७ ३; शागृ. १।१३।२३ पागृ. ११६।३६ आपगृ. २।४।१५६ मागू. १।१०।१५ गोगृ. २।२।१६६ खागृ. १।३।३१.
(२) ऋसं. १०/८५/४०; असं. १४ । २ । ३ पूर्वार्धे (सोमस्य जाया प्रथमं गन्धर्वस्तेऽपरः पतिः ); (पागृ. १।४।१६; हिगृ. १।२०१२; आपगृ. २२४११०.
(३) ऋसं. १०।८५/४१; असं. १४ । २ । ४ ; सामना. १ १ १७;
(२) ऋसं.१०।८५।३७; असं. १४ । २ । ३८६ आपगृ. गोगृ. २।१११९६ पागृ. १।४।१६६ आपगृ. २।४।१० ; हिगृ.
१ २० २; मागू. १।१०।१०३ खागृ.१1३1९.
(४) ऋसं. १०/८५/४२; असं. १४११।२२; आपगृ. २/६/१०६ शागृ. १ । १६ । १२.
(५) ऋसं. १०/८५/४३; कासं. १३१५, ४०।१; मैसं.