SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ स्त्रीपुंधर्माः तथा भगो देवः सं निनीयात् । हे देवाः आसं गतमस्तु पतिकुलमिति शेषः । तथेदं जास्पत्यं जायापत्योर्युगलं सुयममस्तु । सुमिथुनमस्तु | ऋसा. प्रेत्वा मुचामि वरुणस्य पाशाद्येन त्वाबध्नात्सविता सुशेवः । ऋतस्य योनौ सुकृतस्य लोके sरिष्टां त्वा सह पत्या दधामि ॥ पन्या योक्त्रविमोचने प्रत्वा मुञ्चामीत्येपा । सूत्रितं च । ‘अथास्या योक्त्रं विचृतेत्प्र त्वा मुञ्चामि वरुणस्य पाशात्' इति । जातं प्राणिनं सवित्रा प्रेरितो वरुण आत्मपाशैर्वभाति । तस्माद्वरुणस्य पाशात् हे वधु त्वा त्वां प्रमुञ्चामि येन त्वा त्वां सविता वरुणस्य प्रेरक : सुशेवः सुखोऽबनात् बन्धनं कृतवान् । यज्ञाङ्गपक्षे पत्नीं योक्त्रेण बध्नाति । बन्धनस्य वरुणोऽभिमानी । अतो वरुणपाशाद्योक्त्रात् मुञ्चामि येन योक्त्रेण सविता कर्मणामनुज्ञाता देवऋत्विक्पाशेनावनात् । तं मोचयित्वा चर्तस्य यज्ञस्य योनौ स्थाने यांगभूमौ सुकृतस्य लोके कर्मक्षेत्रे भूलोके चारिष्टामहिंसितां त्वां पुत्राद्यर्थे पत्या सह दधामि । स्थापयामि । * प्रेतो मुञ्चामि नामुतः सुबद्धाममुतस्करम् । यथेयमिन्द्र मीढ्वः सुपुत्रा सुभगासति ॥ ऋसा. इतः पितृकुलात्प्र मुञ्चामि त्वां नामुतो भर्तृगृहात्प्र`मुञ्चामि । अमुतो भर्तृगृहे सुबद्धां करम् । यथेयं कन्या हे इन्द्र मीढ्वः सेक्तः सुपुत्रा सुभगा सुष्ठु भाग्या वासति भवति तथा कुरु । ऋसा. पूँषा त्वेतो नयतु हस्तगृह्याश्विना त्वा प्र वहतां रथेन । गृहान्गच्छ गृहपत्नी यथासो वशिनी त्वं विदथमा वदासि | (१) ऋसं. १०।८५।२४; असं. १४।१।१९,५८६ आश्रौ. १|११|३३ आगृ. १७/१७; आपगृ. २।५।१२; शाश्रौ. १|१५|९; शागृ. १।१५।१६ कौस. ७५।२३:७६।२८. (२) ऋसं. १०।८५ । २५; असं. १४ । १ । १७, १८; सामना. १ २ ३, ४ मुञ्चामि ( मुचातु ); आगृ. १७ १३ मुञ्चामि (मुञ्चातु); शागृ. १।१८।३ आगृवत्; पागृ. ११६।२ आगृवत्; आपगृ. २/५/२ मागृ. १।११।१२ आगृवत् . (३) ऋसं. १०।८५।२६; असं. १४।१।२० पूषा (भगः); आ.१।८।१६ आप. २/४ ९; कौसू. ७६ । १० असंवत्. व्य. का. १२४ ९८३ विवाहानन्तरभाविनि प्रयाणें पूषा त्वेतो नयत्वित्यनया रथादियानमारोहयेत् । सूत्रितं च । 'पूषा त्वेतो नयतु हस्तगृह्येति यानमारोहयेत् । हस्तगृह्य ग्राह्यहस्तः पूषा त्वा त्वामितो नयतु । प्रापयतु । अश्विनाश्विनौ त्वा त्वां रथेन प्र वहताम् । प्रगमयताम् । गृहान् भर्तृसंबन्धिनो गच्छ त्वं गृहपत्नी यथासः भवसि स्वगृहस्वामिनी भवसि । वशिनी सर्वेषां गृहगतानां वशं प्रापयित्री पत्युर्वशे वर्तमाना वा विदथं पतिगृहमा वदासि । आवदसि । गृहस्थितं भृत्यादिजनमावद । ऋसा. हप्रियं प्रजया ते समृध्यतामस्मिन्गृहे गाईपत्याय जागृहि । एना पत्या तन्वं सं सृजस्वाधा जित्री विदथमा वदाथः ॥ इह प्रियमित्येषा वध्वा गृहप्रवेशनी । सूत्रितं च । प्रियं प्रजया ते समृध्यतामिति गृहं प्रवेशयेत् । इति । हे वधु ते तवेहास्मिन्पतिकुले प्रियं प्रजया सह समृध्यताम् । अस्मिन्गृहे गार्हपत्याय गृहपतित्वाय जागृहि । बुध्यस्व । एनानेन पत्या सह तन्वं स्वीयं शरीरं सं सृजस्व । संसृष्टा भव । अधाथ जिव्री जीर्णो जायापती युवां विदथं गृहमा वदाथ: । आभिमुख्येन वदतम् । ऋसा. नीललोहितं भवति कृत्यासक्तिर्व्यज्यते । एधन्ते अस्या ज्ञातयः पतिर्बन्धेषु बध्यते ॥ कृत्याभिचाराभिमानिनी देवता नीललोहितं भवति । नीलं च लोहितं च तस्या रूपं भवतीत्यर्थः । सा कृत्यासक्तिरासक्तास्यां संबद्धा व्यज्यते । त्यज्यत इत्यर्थः । तस्यां कृत्यायामपगतायामस्या वध्वा ज्ञातय एधन्ते । वर्धन्ते । पतिर्वन्धेषु सांसारिकेषु बध्यते । ऋसा. पैरा देहि शामुल्यं ब्रह्मभ्यो वि भजा वसु । कृत्यैषा पद्वती भूव्या जाया विशते पतिम् ॥ (१) ऋसं. १०/८५।२७; असं. १४।१।२१ प्रजया (प्रजायै); आगृ.१।८।८; आपगृ. २।५।११६ शागृ. १।१५/२२६ कौसू. ७७/२०. असं. १४११ । २६३ शागृ. (२) ऋसं. १०।८५।२८६ १।१२।८; आपगृ. २/५/२३. (३) ऋसं. १०।८५/२९३ असं. १४/१/२५१ भापगृ ३।९।११; कौसू.७९।२ ०.
SR No.016114
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 02
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1939
Total Pages1084
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy