________________
९८०
हे नासत्या नासत्यौ युवं युवाममाजुरश्चित्पितृगृहे - सूर्यन्त्या अपि दुर्भगाया घोषाया भगो भवथः । शोभनरूपेणात्मानं परिणमय्य पतिं दत्तवन्तौ स्थ इत्यर्थः । तथा च निगमान्तरम् । घोषायै चित्पितृपदे दुरोणे पतिं I सूर्यन्त्या अश्विनावदत्तम् (ऋ. १।११७।७) इति । ऋसा. राक्षस विवाहः
युवं रथेन विमदाय शुन्ध्युवं न्यूहथुः पुरुमित्रस्य योषणाम् | युवं हवं वमित्या अगच्छतं युवं सुषुतिं चक्रथुः पुरन्धये ॥
अश्विनौ युवं युवां पुरुमित्रस्य पुरुमित्रनामधेयस्य योषणां दुहितरं शुन्ध्युवं नाम जायां विमदाय विमदनामधेयायये रथेन स्वसेनापरिवृतेन रथेन न्यूहथुः । प्रापयतम् । विमदस्य गृहं नीतवन्तौ स्थ इत्यर्थः । तथा च निगमान्तरम् । 'यावर्भगाय विमदाय जायां सेनाजुवा न्यूहतूरथेन' (ऋ. १।११६ । १ ) इति । किञ्च युवं `युवां वमित्याः संग्रामे शत्रुभिरिछन्नहस्ताया हवमाह्वा नमगच्छतम् । आगत्य च तस्यै हिरण्मयं हस्तं प्रायच्छतम् । तथा च निगमान्तरम् । 'अजोहवीन्नासत्या करा वां महे यामन्पुरुभुजा पुरन्धिः श्रुतं तच्छासुरिव वमित्या हिरण्यहस्तमश्विनावदत्तम्' (ऋ. १।११६ | १३) इति । किञ्च युवं युवां पुरन्धये बहुप्रज्ञायै वत्रित्यै सुतिं सुप्रसवं शोभनमैश्वर्ये वा चक्रथुः । कृतवन्तौ
स्थः ।
ऋसा.
व्यवहारकाण्डम्
नियोगः Patai शत्रा विधवेव देवरं मर्यं न योषा कृणुते सधस्थ आ । व युवां को यजमानः सधस्थे सहस्थाने वेद्याख्य आ कृणुते । आकुरुते । परिचरणार्थमात्माभिमुखीकरोति । तत्र दृष्टान्तौ दर्शयति । शयुत्रा शयने विधवेव यथा मृतभर्तृका नारी देवरं भर्तृभ्रातरमभिमुखीकरोति । मन यथा च सर्वे मनुष्यं योषा सर्वा नारी संभोग कालेऽभिमुखीकरोति तद्वदित्यर्थः । पतिपत्नीप्रेम
ऋसा.
जैनिष्ट योषा पतयत्कनीनको वि चारुहन्वीरुधो (१) ऋसं.१०।३ ९।७. (२) ऋसं. १०।४०।२; नि. ३ । १५. (3) 4.30.18013.
दंसना अनु । आस्मै रीयन्ते निवनेव सिन्धaiser अहे भवति तत्पतित्वनम् ॥
हे अश्विनौ युवयोः प्रसादादियं घोषा योषा स्त्रीगुणोपेता सुभगा जनिष्ट । जाता । अस्याः समीपे कनी नकः कन्याकामः पतिः पतयत् । पततु । अस्मै कनी नकाय युवयोर्देसना अनु दृष्टिलक्षणानि कर्माणि लक्षीकृत्य वीरुध ओषधयो वि चारुहन् । विरोहन्तु । प्रादुर्भवन्तु । अस्मै कनीनकाय निवनेव प्रवणेनेव सिन्धव उदकान्या रीयन्ते । ता वीरुधोऽभिगच्छन्तु । किञ्चाह्ने केनाप्यहन्तव्यायास्मै कनीनकाय तत्संभोगसमर्थ पतित्वनं यौवनं भवति । भवतु । 'जीवं रुदन्ति वि मयन्ते अध्वरे दीर्घामनु प्रसितिं धर्नरः । वामं पितृभ्यो य इदं समेरिरे मयः पतिभ्यो जनयः परिष्वजे ॥
ऋसा.
अश्विनौ युवयोरनुग्रहाद्ये नरः पतयो जायानां जीवं जीवनमुद्दिश्य रुदन्ति । रोदनेनापि जायानां जीवनमेवाशासत इत्यर्थः । ता जाया अध्वरे यज्ञे वि मयन्ते निवेशयन्ति च किञ्च तासु दीर्घा महतीं प्रसितिं भुजयोः प्रबन्धनमनु दीधियुः अनुदधति इदं वामं वननीयमपत्यं पितृभ्यः समेरिरे संप्रेरयन्ति च तेभ्यः पतिभ्यो जनयो जायाः परिष्वजे परिष्वङ्गार्थं मयः सुखं कुर्वन्तीति शेषः ।
ऋसा.
न तस्य विद्म तदुषु प्र वोचत युवा ह यद्यवत्याः क्षेति योनिषु । प्रियोत्रियस्य वृषभस्य रेतिनो गृहं गमेमाश्विना तदुश्मसि ॥
हे अश्विनाश्विनौ तस्य तत्सुखं वयं न विद्म । न जानीमः । तत्सुखं यूयं सु सुष्ठु प्र वोचत । बहुवचनं पूजार्थम् । युवा ह तरुणः खलु मत्पतिर्युवत्या यौवनान्वितायां मम योनिषु गृहेषु यत्क्षेति निवसतीति । किञ्च प्रियोसियस्य प्रिययुवतेर्वृषभस्य सेक्तू रेतिनो रेतस्विनो मत्पतेर्गृहं गमेम | गच्छेम । वयं तद्गृहमुश्मसि । कामयामहे ।
ऋसा
(१) ऋसं. १०।४०।१०; असं. १४ । १।४६ मयन्ते (मयन्ति)
दीधियु ( दीध्यु) तमे (समी) जनयः (जनये); आगृ.११८१४; शागृ. १।१५।२; कौसू. ७९ ३ ०; आपगृ. २।४।६ जीवं (जीवां). (२) ऋसं. १०।४०।११.