SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ वेदाः गृहनेत्री स्त्री । पतिपत्नीसंबन्धः । आघा योषेव सूनर्युषा याति प्रभुञ्जती । उषा देवी प्रभुञ्जती प्रकर्षेण सर्वे पालयन्त्या याति घ। प्रतिदिन मागच्छति खलु । तत्र दृष्टान्तः । सूनरी गृहकृत्यस्य नेत्री योषेव गृहिणीव । ऋसा. पति न पत्नी रुशतीरुशन्तं स्पृशन्ति त्वा शवसावन्मनीषाः । शवसावन् बलवन्निन्द्र तैः प्रयुक्ता मनीषाः स्तुतयस्त्वा त्वां स्पृशन्ति । प्राप्नुवन्ति । तत्र दृष्टान्तः । उशती दशत्यः कामयमानाः पत्नीः पत्न्य उशन्तं कामयमानं पर्ति नं । यथा पतिं संभजन्ते तद्वत् । भ्रातृभगिन्यौ ऋसा. स्त्रीपुंधर्माः जामि: सिन्धूनां भ्रातेव स्वस्राम् । सिन्धूनां स्यन्दनशीलानामपामयमग्निजमिर्बन्धुः । तासामुत्पादकत्वात् । तथा चाम्नातम् । अग्नेराप इति । यद्वा । देवेभ्यः पलायितोऽप्सु वर्तमानः सन् सामपां बन्धुर्बभूवेत्यर्थः । तत्र दृष्टान्तः । स्वस्रां स्वां भ्रातेव । यथा भ्रातातिशयेन हितकरो भवति तद्वत् । ऋसा. गृहनेत्री स्त्री रोकशोचिः क्रतुर्न नित्यो जायेव योनावरं विश्वस्मै । दुरोकशोचिर्दुष्प्रापतेजाः क्रतुर्न नित्यः । क्रतुः कर्मणां कर्ता । स इव ध्रुवः । यथा स कर्मसु ध्रुवोऽप्रमत्तः सन् जागर्ति तद्वदयमप्यनिः कर्मसु रक्षसां दहने ध्रुवो जागर्तीत्यर्थः । योनौ गृहे वर्तमाना जायेव योपिदिव अग्निहोत्रादिगृहे वर्तमानो वह्निर्विश्वस्मै सर्वस्मै यष्टृ जनायारमलं भूषणं भवति । यथा जायया गृहमलङ्कृतं | (१) ऋसं. ११४८/५. (३) ऋसं. १६५७. (२) ऋसं. १६२।११. (४) ऋसं. १६६/५. भवति तद्वदमिना यज्ञगृहमप्यलङ्कृतं सद्दृश्यत इत्यर्थः । ऋसा. कन्याजारः । अनेकजायापतिरेकः । यमो ह जातो यमो जनित्वं जारः कनीनां पतिर्जनीनाम् । 1 ऋसा. यमो ह जात इन्द्रेण सद्द संगतः । यमाविहेह मातरेत्यपि निगमों भवतीति । यो जात उत्पन्नो भूतसंत्रो यच्च जनित्वं जनयितव्यमुत्पत्स्यमानं भूतजातं तदुभयमपि यमो ह अग्निरेव । सर्वेषां भावानामाहुतिद्वाराग्न्यधीनत्वात् । कनीनां कन्यकानां जारो जरयिता । यतो विवाहसमय अग्नौ लाजादिद्रव्यहोमे सति तासां कन्यात्वं निवर्तते । अत्तो जरयितेत्युच्यते । तथा जनीनां जायानां कृतविवाहानां पतिर्भर्ता । उप प्र जिन्वन्नुशतीरुशन्तं पतिं न नित्यं जनयः सनीळाः । स्वसारः श्यावीमरुषी मजुषञ्चित्रमुच्छन्तीमुषसं न गावः ॥ उशती रुशत्यः कामयमानाः सनीळा: । नीळो निवासस्थानम् । समान निवासस्थानाः । एकपाण्यवस्थानात् । स्वसार इत्यङ्गुलिनाम । एवंभूता अङ्गुलय उशन्तं कामयमानममं जनयो जाया नित्यमसाधारणं पतिं न भर्तारमिवोप प्र जिन्वन् । उपेत्य हविष्प्रदानादिकर्मणा प्रीणयन्ति । प्रीणयित्वा च चित्रं चायनीयं पूजनीयं तमनिमञ्जलिबन्धनेनाजुषून् | असेवन्त । तत्र दृष्टान्तः । श्यावीं श्याववर्णो रात्रिसंबन्धात्कृष्णां तत उच्छन्तीं सूर्यकिरण संबन्धात्तमो वर्जयन्तीं अत एवारुत्रीमारोचमानां यद्वा शुभ्ररूपयुक्तामुषसं न उषोदेवतां गावो रश्मयो यथा सेवन्ते तद्वत् । यथा रश्मय उपसा नित्यसंबद्धा एवं सर्वेषु यज्ञेष्वग्निपरिचरणेनाङ्गुलयो (१) ऋसं. १६६।८; नि. १०।२१. (२) ऋसं. १७१ । १ ; आश्रौ. ४ । १३ । ७.
SR No.016114
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 02
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1939
Total Pages1084
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy