________________
हारकाण्डम्
स्वाम्यभाव इति । प्रवर्तक तत्पुत्राद्यभावे, ग्रामाः ग्रामवास्तव्याः, पुण्यशीला वा ग्रामावास्तव्या अपि प्रतिकुर्युः संस्कुर्युः, अर्थाद् भग्नं सेत्वादिकम् ।
पथिहिंसां वक्तुं तत्प्रमाणं दुर्गनिवेशोक्तं स्मारयति - पथिप्रमाणमित्यादि । क्षुद्रपशु मनुष्यपथमिति । क्षुद्रपशुमार्ग मनुष्यमार्ग च दुर्गनिवेशोक्तं, रुन्धतः, द्वादशपणो दण्डः । महापशुपथं गवाश्वादिमार्ग, रुन्धतः, चतुविंशतिपणः । हस्तिक्षेत्रपथं रुन्धतः चतुष्पञ्चाशत्पणः । सेतुवनपथं रुन्धतः षट्छतः । श्मशानग्रामपथं रुन्धतो द्विशतः । द्रोणमुखपथं रुन्धतः पञ्चशतः । स्थानीयराष्ट्रविवीतपथं स्थानीयं प्रसिद्धं राष्ट्रविवीते समाहर्तृसमुदयप्रस्थापनोक्ते तेषां पन्थानं, रुन्धतः, साहस्रः । अतिकर्षणे चैषामिति । अतिकर्षण मपकर्षणं न्यूनीकरण उक्तानां पथामेकदेशापहरणेन प्रमाणतो न्यूनीकरणे, दण्डचतुर्थाः पूर्वोक्तदण्डचतुर्भागाः, दण्डाः । कर्षणे पथिषु कृषिकरणे, पूर्वोक्ताः दण्डाः ।
SER
पशुपर्थ चतुर्विंशतिपणः । हस्तिक्षेत्रपथ चतुष्पवाशत्पणः । सेतुवनपथं षट्छतः । श्मशानग्रामपथं द्विशतः । द्रोणमुखपथं पञ्चशतः । स्थानीयराष्ट्रविवीतपथं साहस्रः । अतिकर्षणे चैषां दण्डचतुर्था दण्डाः । कर्षणे पूर्वोक्ताः ।
क्षेत्रिकस्याक्षिपतः क्षेत्रमुपवासस्य वा त्यजतो द्वादण्डः अन्यत्र दोषोपनिपाता
विषह्येभ्यः ।
करदाः करदेष्वाधानं विक्रयं वा कुर्युः, ब्रह्मदेयिका ब्रह्मदेकेिषु । अन्यथा पूर्वः साहसदण्डः, करदस्य वाकरदग्रामं प्रविशतः ।
करदं तु प्रविशतः सर्वद्रव्येषु प्राकाम्यं स्याद् अन्यत्रागारात् । तदप्यस्मै दद्यात् । अनादेयमकृषतोऽन्यः
वर्षायुपभुज्य
प्रयासनिष्क्रयेण दद्यात् ।
अकरदाः परत्र वसन्तो भोगमुपजीवयेयुः । ग्रामार्थेन प्रामिकं व्रजन्तं उपवासाः पर्यायेबानुगच्छेयुः । अननुगच्छन्तः पणार्धपणिकं योजनं दद्युः 1
ग्रामिकस्य ग्रामादस्तेनपारदारिकं निरस्यत चतुर्विंशतिपणो दण्डः ग्रामस्योत्तमः ।
निरस्तस्य प्रवेशो ह्यधिगमेन व्याख्यातः । अथ वास्तुकस्य तृतीयाध्याय आरभ्यते । पूर्वाध्याये सीमादिनिर्णयः क्षेत्रादीनामुक्तः । उदकमार्गनिरोधे सस्यादिहिंसने च दण्डविधिरिहोच्यते ।
कर्मोदकमार्गमिति । कृष्यर्थजलमार्गम्, उचितं पूर्वानुवृत्तं, रुन्धतः, अनुचितं कुर्वतो वा नवं प्रवर्तयतो वा, पूर्वः साहसदण्डः ।
• सेतुकूपपुण्यस्थान चैत्यदेवायतनानि चेति । सेल्वादीनि पञ्च, परभूमौ, निवेशयतः सृजतः, पूर्वानुवृत्तं धर्मसेतुमाधानं विक्रयं वा नयतो नाययतो वा पूर्वपुरुषैधर्मार्थे विसृष्टं सेतुकूपतटाकादिकं आधीकुर्वतो विक्रीणानस्य तत्पुत्रादेस्तत्प्रयोजकस्य वा, मध्यमः साहसदण्डः । श्रोतॄणां तत्साक्षिणां उत्तमः साहसः । तत्रापवादः - अन्यत्र भग्नोत्सृष्टात्, उपहतासंस्कृतोपेक्षित सेत्वादिव्यतिरेकेण ।
क्षेत्रिकस्येति । बीजकाले, क्षेत्रं अक्षिपतः कर्षकायानर्पयतः, क्षेत्रिकस्य क्षेत्रस्वामिनः, त्यजत उपवासस्य वा कृषिमभ्युपेत्य बीजात्रापकाले क्षेत्रं मुञ्चतः कर्षकस्य वा, द्वादशपणो दण्डः । अन्यत्र दोषोपनिपाताविषह्येभ्य इति । दोषः क्षेत्रदोत्रः उपनिपातो राजचोराद्युपद्रवः अविह्यं महारोगादि एतेषु निमित्तेषु क्षेत्रत्यागो न दोषाय । करदा इति । करदायकाः, करदेंषु आधानं विक्रयं वा कुर्युः, न त्वकरदेष्वित्यर्थः । ब्रह्मदेयिकाः, ब्रह्मदायका इत्यपि पाठः, ब्रह्मदेयं ब्रह्मदायो वा करमोक्षितं ब्राह्मणभोग्यं क्षेत्रादिकमुच्यते तथाविधभूमिस्वामिनः, ब्रह्मदेयिकेषु आधानं विक्रयं वा कुर्युः, न त्वतथाभूतेषु । अन्यथा उक्तविध्यतिक्रमेणाधानविक्रयकरणे, पूर्वः साहसदण्डः । आहितविक्रीतक्षेत्रस्वीकर्तुर्दण्डमाह—करदस्य वेत्यादि ।
करदं त्विति । करदं ग्रामं प्रविशतः करदस्य, सर्वद्रव्येषु धान्यचतुष्यदादिषु, प्राकाम्यं स्वाच्छन्द्यं स्वामित्वं, स्यात्, अन्यत्रागारात् विक्रेतृगृहवर्जम् । तदपि अस्मै दद्यात् क्षेत्र विक्रेता यदि गृहमपि विक्रेतुमिच्छेत् तदा क्षेत्रक्रेत्रे एव तद् विक्रीणीयात् ।
अनादेयमिति । संस्कृतं ग्राह्यफलत्वादादेयं तद्भिन्न