________________
व्यवहारकाण्डम्
९२४
कूपाख्य संग्रामविशेषाणानि सिञ्चतेत्यनेन संबध्यन्ते । द्रोणो दुममयः स एव रथ आहाव आहावस्थानीयो यस्य संग्रामस्य तम् । अवतम् । कूपनामैतत् । कूपं संग्रामाख्यम् । अश्मचक्रं कूपप्रान्तनिबद्धाश्म - सदृशप्रहरणायुधवन्तम् । असनानि वा क्षेपणानि वा चक्राख्यायुधविशेषा यस्मिन् तम् । व्याप्तचरणवन्तं व्याप्तक्रमणवन्तं वा । चक्रं चकतेर्वा चरतेर्वा क्रामते र्वेति निरुक्तम् । अंसत्रकोशं अंसत्राणि धनूंषि कवचानि च कोशस्थानीयानि यस्मिन् तं सिञ्चत । नृपाणं यस्मिन् योद्धार उदकवत्पीयन्ते मार्यन्ते तम् ! ईदृशं कूपसदृशं संग्रामं सिञ्चत हे अस्मदीया योद्धारः । सूक्तस्य वैश्वदेवत्वाद्धे सैनिका विश्वेषां देवानां प्रसादेन सर्वमेतत्कुरुतेत्यर्थः। एवं निराहावानित्यादिषु कूपरूपव्याजेन संग्रामवर्णनमवगन्तव्यम् ।
ऋसा.
या आपो दिव्या उत वा स्रवन्ति खनित्रिमा उत वा याः स्वयंजाः । समुद्राथी याः शुचयः पावकास्ता आपो देवीरिह मामवन्तु ॥
।
- या आपो दिव्या अन्तरिक्षभवाः सन्ति । उत वापि च या आपो नद्यादिगताः सत्यः स्रवन्ति गच्छन्ति याश्च खनित्रिमाः खननेन निवृत्ताः । उत वापि च याः स्वयंजाः स्वयमेव प्रादुर्भवन्त्यः समुद्रार्थाः । समुद्र एवार्थी गन्तव्यो यासां ताः समुद्रार्थाः । शुचयो दीप्तियुक्ताः पावकाः शोधयित्र्यश्च भवन्ति । ता आपो मामवन्त्विति । आपो न सिन्धुमभि यत्समक्षरन्त्सोमास इन्द्रं कुल्या इव हृदम् ।
ऋसा.
यद्यदा सोमासः सोमा इन्द्रमभि समक्षरन् अभिक्षरन्ति । अभिगच्छन्तीत्यर्थः । तत्र दृष्टान्तौ दर्शयति । आपो न यथापः सिन्धुं समुद्रमभिसंचरन्ति । कुल्या इव यथा च कुल्या हृदमभिसंक्षरन्ति तद्वदित्यर्थः ।
ऋसा.
क्षेत्रवाद लिङ्गम् अग्नये यविष्ठाय पुरोडाशमष्टाकपालं निर्वपेत् । स्पर्धमानः क्षेत्रे वा सजातेषु वा । ... जयते । (१) ऋसं. ७ ४९।२. (२) ऋसं. १०१४३१७. (३.) तैलं, २२२३॥१.
सेतु लिङ्गम् समुद्रवितताव
पर्यावर्तेते जठरेव पादाः । तयोः पश्यन्तो अति यन्त्यन्यमपश्यन्तः सेतुनाऽति यम्यन्यम् ॥
तत्र प्रथममन्त्रेण समुद्रद्वयरूपत्व महोरात्रद्वयरूपत्वं चाऽऽरोप्य पूतभृदाघवनीयौ स्तूयेते । द्वौ समुद्रौ विततौ विस्तीर्णावजूर्यावजीण कदाचिदप्यशुध्यन्तौ । तादृशावेतौ पर्यायेणाऽऽवर्तेते । तत्र दृष्टान्तः- जठरा समुद्रस्योदरे पादा इव यथा पादसदृशा ऊर्मयः समुद्रमध्ये पर्यायेणाऽऽवर्तन्ते प्रथममेक आगच्छति पश्चादपर इति तथा पूतभृत्कदाचिदुपयुज्यते कदाचिदाघवनीय इति पर्यायः । तौ समुद्रात्मकौ पूतभृदाधवनीयौ पुनरहोरात्ररूपौ वर्तेते तयोर्मध्येऽन्यमहरात्मकं जनाः पश्यन्तोऽतियन्ति उत्तरन्ति । अथान्यं रात्रिरूपमपश्यन्तो जनाः सेतुसदृशेन नौरूपेण साधनेनातियन्ति । तैसा. देवीरापो अपां नपादित्याह यद्वो मेध्यं यज्ञिय देवं तद्वो माऽव क्रमिषमिति वावैतदाहाच्छिन्नं तन्तुं पृथिव्या अनु गेषमित्याह सेतुमेव कृत्वा - ऽत्येति ॥
आक्रमणमेव तत्सेतुं यजमानः कुरुते ॥ कर्षकसीरपत्योर्भेदः । कुलपा व्राजपतिं प्रति धनमर्पयन्ति । इन्द्र आसीत्सीरपतिः शतक्रतुः कीनाश' आसन्मरुतः सुदानवः ।
परि त्वासते निधिभिः सखायः कुलपा न व्राजपतिं चरन्तम् ॥ पृथी वैन्यः कृषिकर्मप्रवर्त्तयिता सेतुः क्षेत्रस्वाम्यं च Fi पृथी वैन्योऽधोक् तां कृषिं च सस्यं चाधोक् ॥ ते कृषिं च सस्यं च मनुष्या उपजीवन्ति कृष्ट राधिरुपजीवनीयो भवति य एवं वेद ।
सं सेतुर्विधरण एषां लोकानामसंभेदाय ॥ गोअवमिह महिमेत्याचक्षते हस्तिहिरण्यं
(२) तैसं. ६ । १४९.
(१) तसं. ३ २ २ १ (३) तसं. ६।५।३।३. (५) असं. ७।७५।२
(४) असं. ६ । ३०१४.
(६) असं. ८।१३।११-१२.
(७) शब्रा. १४।७।२।२४; बृउ. ४/४/२२ स (एष) - (८) छाउ. ७।२४।२.