________________
सीमाविवादः
०००
वेदाः क्षेत्रमिति: 'क्षेत्रमिव वि ममुस्तेजनेन एकं पात्रमृभवो समैरत् । जेहमानम् ।
ऋभवो जेहमानं होमक्रियां प्रति प्रयतमानमेकम सहायं पात्र पानसाधनं त्वष्ट्रा निर्मितं चमसं मानदण्डेन क्षेत्रमिव भूमिमिव, तेजनेन तीक्ष्णेन शस्त्रेण चमसचतुष्ट्रयरूपेण कर्तुं वि ममुः । विशेषेण मानं कृतवन्तः ।
ऋसा.
अनस्वती आर्तना चेति द्विविधा उर्वरा सं हि शर्धो न मारुतं तुविष्वणिरमस्वतीपूर्व - रास्विष्टनिरार्तनास्विष्टनिः ।
स हि स एव स्तुत्यतया प्रसिद्ध एवाग्निस्तुविष्वणिः । तुवीति बहुनाम उरु तुवीति तन्नामसु पाठात् । बहुस्वनिः प्रभूतध्वनियुक्तो वर्तते । अत्यन्तज्वलितेst वायुसंपर्कात् भुगिभुगिति ध्वनिरुत्पद्यते । ज्वलतीत्यर्थः । ध्वनने दृष्टान्तः । मारुतं शर्धो न मरुत्संबन्धि बलमिव मरुतां समूहों यथा ध्वनयति तथेत्यर्थः । कुत्रेति । तदुच्यते । अप्रस्वतीषु खननप्रोक्षणादिकर्मोपेतासु । अन इति कर्मनाम अनो दंस इति तन्नामसु पाठात् । उर्वरासूरुवरुणयुक्तासु श्रेष्ठासु वेदिभूमिषु । कीदृशो - ऽयम् । इष्टनिर्यष्टव्यः । औणादिकोऽनिक् तुडागमश्च । किंचार्तनासु । आर्तान्करोत्यार्तयति । आर्तयन्तीत्यार्तनाः पृतनाः । तासु । ण्यासश्रन्थो युच् । वृषादित्वादाद्युदात्तत्वम् । तासां जयायेष्टनिरेष्टव्यो यष्टव्यो वा
ऋसा.
* वेदेषु क्षेत्रमानक्षेत्रप्रकारक्षेत्रस्वत्व से नुकूप कुल्यादिविषयीणि वचनानि अत्रोध्दृतापेक्षया बहूनि सन्ति केवलं दिक्प्रदर्शनाथै कतिचित्संगृहीतानि ।
(१) ऋसं. १११०/५. (२) ऋसं. १।१२७/६.
क्षेत्रं हिरण्यं पशवश्च धनम्
हि क्षेत्रं पुरु चन्द्रं विविद्वानादित्सखिभ्यश्वरथं
योऽयमिन्द्रो महि महत् क्षेत्र केदारादि पुरु प्रभूतं चन्द्रं हिरण्यं च विविद्वान् अर्थिभ्यः सखिभ्योऽस्मभ्यं लम्भयन् । आदित् अनन्तरं चरथं चरात्मकं गवादिकं च समैरत् सम्यक् प्रैरयत् । दत्तवानित्यर्थः । ऋसा. क्षेत्रे स्वाम्यम्
मानि त्रीणि विष्टपा तानीन्द्र वि रोहय । शिरस्ततस्योर्वरामादिदं म उपोदरे ।।.
इन्द्रेण किं कामयसे तद्दास्यामीत्युक्ता सा वरमनया प्रार्थयते । हे इन्द्र इमानि त्रीणि विष्टपानि स्थानानि सन्ति । तानि त्रीणि स्थानानि वि रोहय । उत्पादय । कानि तानि । ततस्य मम पितू रोमवर्जितं शिरः । खलतिमित्यर्थः । तखाप- गमय । रोमशं कुर्वीत्यर्थः । उर्वरां तस्योपरं क्षेत्र सर्वसस्याढ्यं कुरु । आदनन्तरं मे ममोपोदर उपोदरस्य समीपे यदिदं स्थानम् । गुह्यमित्यर्थः । तच्च त्वग्दोषे सत्यसंजातरोमकम् । तदपि त्वग्दोषपरिहारेण रोमयुक्तं कुरु । एतानि त्रीणि स्थानानि । एषोऽर्थः शाख्यायनके प्रपञ्चेनोक्तः । तामब्रवीदपाळे किं कामयसीति । साब्रवीदिमानि त्रीणि विष्टपेति खलतिर्दास्यै पिता स तं हाखलतिं चकारोर्वरा हास्य न जज्ञे सो जज्ञ उपस्थे हास्यै रोमाणि नासुस्तान्यु ह जज्ञिर इत्यस्योत्तरा भूयसे निवर्चनायासौ च या न इति । असौ च या न उर्वरादिमां तन्वं मम । अथ ततस्य यच्छिरः सर्वा ता रोमशा कृधि ॥ उक्तमेवार्थमनया विवृणोति । नोऽस्माकं पितुर्या सा
ऋसा.
(१) ऋसं. ३।३१।१५. (३) ऋसं. ८१९११६.
२) सं. ८।९११५.