SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ स्वामिपालविवादः धेनुः शतं परीणाहो ग्रामक्षेत्रान्तरं भवेत् । द्वे शते खर्वटस्य स्यान्नगरस्य चतुःशतम् ॥ (१) ग्रामनगरोभयधर्मयुक्तं कर्पटम् । स्पष्टमन्यत् । विश्व. २।१७१ (२) इदमपरं गवादीनां स्थानासनसौकर्यार्थमुच्यते - धनुः शतमिति । ग्रामक्षेत्रयोरन्तरं धनुः शतपरिमितं परीगाहः । सर्वतो दिशं अनुप्तसस्यं कार्यम् । खर्वटस्य प्रचुर कण्टकसंतानस्य ग्रामस्य द्वे शते परीणाहः । नगरस्य बहुजनसंकीर्णस्य धनुषां चतुःशतपरिमितमन्तरं कार्यम् । मिता. शस्यरक्षणम् । तदर्थं पशुदण्डविधिः । मानौ तु महिषी सस्यघातस्य कारिणी । - दण्डनीया तदर्थं तु गौस्तदर्धमजाविकम् ॥ (१) यदि तु पशुपालापराधात् स्वाम्यपराधाद्वा पशवः सस्योपघातं कुर्युः, तत्र कथम् । तत्रापि हि - माषानष्टौ इति । कार्षापणविंशतिभागो माषः । स्पष्टमन्यत् । विश्व. २।१६३ (२) परसस्य विनाशकारिणी महिषी अष्टौ माषान्दण्डनीया । गौस्तदर्ध चतुरो माषान् । अजा मेषाश्च माषद्वयं दण्डनीयाः । महिष्यादीनां धनसंबन्धाभावात्तत्स्वामी पुरुषो लक्ष्यते । • ताम्रिकपणस्य विंशतितमो भागः । 'मात्रो विंशतिमो भागः पणस्य परिकीर्तितः' इति नारदस्मरणात् । एतच्चा ज्ञानविषयम् । ज्ञानपूर्वे तु 'पणस्य पादौ द्वौ गां तु द्विगुणं महिषीं तथा । तथाऽजाविकवत्सानां पादो माषश्चात्र (१) यास्मृ. २।१६७; अपु. २५७।१८ विश्व. २।१७१ खर्व (कर्ष); मिता.; अप. णाहो (हारो); विर. २३० खर्व ( कर्व); पमा. ३७७ ग्राम (ग्रामे); रत्न. १०८; विचि. १०३; दवि २७७; वीमि ; व्यप्र. ३४९ द्वे (द्वि); व्यउ. ९८ न्तरं ( दिकं ); व्यम. ९६ ग्रामक्षेत्रा (ग्रामाद्द्यामा); विता. ६६९; सेतु. १९६६ समु. १०३; विव्य.४८ धनुः (भूमि:). (२) यास्मृ. २।१५९; अपु. २५७ १०१ विश्व. २।१६३; मिता.; अप; व्यक. १००१ स्मृच.२११६ विर. २३५; पमा. ३८०; रत्न. १०९; स्मृचि. २११ सवि. १८२ ( ) (ब) कारिणी (काकिणीम् ) ; मच. ८।२४१; वीमि ; व्यप्र. ३५०; व्यउ ९९; व्यम. ९६; विता. ६७६; समु. १०४ घात (नाश), ९१३ दण्डः प्रकीर्तितः' || इति स्मृत्यन्तरोक्तं द्रष्टव्यम् । मिता. (३) अत्रापराधानुसारेण दण्डनाथे ताम्रिकमाषो ग्राह्यः । न पुनः सौवणों राजतो वा । ताम्रिकश्च कार्षापणस्य षोडशभागो भवति । यैस्त्वनुरूपदण्डनाथै 'भाषो विंशतिमो भागः पणस्य परिकीर्तितः' इति नारदेनोक्तमाषः स्वीकृतः । तेषां 'संख्या रश्मिरजोमूला मनुना समुदाहृता । कार्षापणान्ता सा दिव्ये नियोज्या विनये तथा ॥ इति वार्हस्पत्यवचनविरोधो दुर्वारः । मनुनोदाहृतमाषास्वीकारात्ताम्रिकमापस्य तु मनुनोक्तस्य स्वीकारे न केनापि विरोध इत्यलं परपक्षयुक्तायुक्त चिन्तया । यत्तु मनुनोक्तं 'सपादं पण मर्हति' इति तत्स्वामिमतिपूर्वपशुव्यतिक्रमविषयं, याज्ञवल्क्यवचनं त्वबुद्धिपूर्वविषयमिति न तयोर्विरोधः । यत्तु विष्णुनोक्तं 'महिषी चेत्सस्यघातं कुर्यात्पालस्वष्टौ माषान्दण्ड्यः । अपालायां स्वामी' इति तदसमूलसस्यनाशविषयम् । अन्यतरदण्डस्याल्पापराध एवं युक्तत्वात् । यत्तु शंखलिखिताभ्यामुक्तं 'महिषी दश' इति तन्नारदोक्तमाषाभिप्रायम् । तथात्वे फलतस्ताम्रिकाष्टमाषात्मक एव दण्डो भविष्यति तेन न 'माषानष्टावि'ति याज्ञवल्क्यवचनेन विरोधः । न च ' संख्या रश्मीत्यादि बार्हस्पत्यवचनेन । यच्च ताभ्यामेवोक्तं 'खरोष्ट्रं षोडश अजाविकं चतुर' इति तद्भक्षयित्वोपविष्टखरादिविषयम् । यत्तु कात्यायनेनोक्तं 'दापयेत्पणपादं गां द्वौ पादौ महिषीं तथा ' इति, यच्च नारदेन 'गाव: पादं प्रदण्डयास्तु महिष्यो द्विगुणं ततः' तत्ताम्रिकमापस्वीकारपक्षे फलतः समानत्वादविरुद्धमेव । नारदोक्तपक्षे तु परं विरोधः । अत एव स च पक्षो नास्माकमिति सर्वमविरुद्धम् । भक्षयित्वोपविष्टानां यथोक्ताद्विगुणो दमः । सममेषां विवीतेऽपि खरोष्ट्रं महिषीसमम् ॥ स्मृच.२११ (१) यास्मृ. २।१६०३ अपु. २५७।११ यथोक्ताद्विगुणो ( द्विगुणो वसतां ) विवीतेऽपि (विधीयेत ); विश्व. २।१६४ यथोक्ताद्विगुणो ( द्विगुणोऽवसतां ); मिता; अप; व्यक. १००; स्मृच. २११ मेषां (मेतां ) तेऽपि (तस्थे); विर. २३५ ष्टं (ष्ट); पमा. ३८०; रत्न. १०९; स्मृचि. २२ ( = ) त्वोप (त्वा प्र) पू.; सवि.४९२ विरवत् नारदः; मच. ८।२४१; वीमि ; व्यप्र
SR No.016114
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 02
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1939
Total Pages1084
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy