________________
९०६
oratioकाण्डम्
अश्वतरोऽश्वायां रासभादुत्पन्नः, अवश्याः शीघ्रं निवारयितुमशक्याः । प्रकाशपारिजातयोस्तु अवध्या इति पठित्वा अताड्या इति व्याख्यातम् । विर. २४१ कौटिलीयमर्थशास्त्रम्
पशुकृतक्षेत्र पथ हिंसा
स्तम्भैः समन्ततो ग्रामाद्धनुश्शता पकृष्टमुपसालं कारयेत् ।
पशुप्रचारार्थं विवीतमालवनेनोपजीवयेयुः । विवीतं भक्षयित्वापसृतानामुष्ट्रमहिषाणां पादिकं रूपं गृह्णीयुः । गवाश्वखराणां चार्ध - पादिकम् । क्षुद्रपशूनां षोडशभागिकम् ।
भक्षयित्वा निषण्णानामेत एव द्विगुणा दण्डाः । परिवसतां चतुर्गुणाः। ग्राम देववृषा वा अनिर्दशाहा वा धेनुरुक्षाणो गोवृषाश्चादण्ड्याः । सस्यभक्षणे सस्त्रोपघातं निष्पत्तितः परिसंख्याय द्विगुणं दाप येत् । स्वामिनश्चानिवेद्य चारयतो द्वादशपगो दण्डः । प्रमुञ्चतश्चतुर्विंशतिपणः । पालिनामर्धदण्डः । तदेव षण्डभक्षणे कुर्यात् । वाटभेदे द्विगुणः ।
वेश्मखलवलयगतानां च धान्यानां भक्षणे । हिंसाप्रतीकारं कुर्यात् ।
अभयवनमृगाः परिगृहीता वा भक्षयन्तः स्वामिनो निवेद्य यथाऽवध्यास्तथा प्रतिषेद्धव्याः ।
पशवो रश्मिप्रतोदाभ्यां वारयितव्याः । तेषा मन्यथा हिंसायां दण्डपारुष्यदण्डाः । प्रार्थयमाना दृष्टापराधा वा सर्वोपायैर्नियन्तव्याः । इति क्षेत्र पथ हिंसा ।
स्तम्भैरिति । स्तम्भैः शिलामयैर्दारुमयैर्वा, समन्ततःसमन्तात्, ग्रामात्, समन्तग्रामादिति पाठे ग्रामपर्यन्त - देशादित्यर्थः, धनुश्शतापकृष्टं धनुश्शतविप्रकृष्टम्, उपसालं उपप्राकारं, कारयेत् ।
पश्वित्यादि । पशुप्रचारार्थ, पशुसंचारखादनार्थ, विवीत मालवनेन विवीतं तृणस्तम्बजलयुक्तं स्थलं मालमुन्नतभूतलं वनं प्रसिद्धं एतैर्विसृष्टैः, उपजीवयेयुः अर्थाद् ग्रामजनान् ।
(१) कौ. ३११०.
विवीतमिति । तद् भक्षयित्वा अपसृतानां उष्ट्रमहिषाणां, पादिकं रूपं पादपणं, गृह्णीयुः विवी ताध्यक्षाः । गवाश्वखराणां च अर्धपादिकं रूपं पणाष्टांशं गृह्णीयुः । क्षुद्रपशूनां षोडशभागिकं रूपं पणषोडशभागं गृह्णीयुः ।
भक्षयित्वा निषण्णानामिति । भक्षयित्वा अनपसूल्य विवीत एवोपविष्टानां उष्ट्रादीनां एत एवं द्विगुणा दण्डाः यथोक्ता एव पादपणादयो द्विगुणीभूता दण्डाः भवन्ति । परिवसतां, रात्रौ तत्रैव संविशतां, चतुर्गुणाः दण्डाः । भक्षणादौ केषाञ्चित् पशूनामदण्डमाहग्रामदेववृषा वेति 1 ग्रामवृषभाः देवषृषभाश्च, अनिर्दशाहा धेनु अनतिक्रान्तदशाहा प्रसूता गौश्व, उक्षाणः वृद्धवृषभाः, गोवृषाश्च सेक्तारश्च, अदण्डयाः ।
सस्यभक्षण इत्यादि । उष्ट्रमहिषादिभिः सस्ये भक्षिते सति, सस्योपघातं भक्षितक्षेत्रैकदेशसञ्जातं सस्यविनाश, निष्पत्तितः परिसंख्याय कृत्स्न क्षेत्रनिष्पद्यमानफलपर्यालोचनया परिच्छेद्य, द्विगुणं तद्विगुणं दण्डं दापयेत् स्वामिने ।
स्वामिनश्चानिवेद्य चारयत इति । विवीताध्यक्षम विज्ञाप्य पशून् विवीते चारयतः तत्स्वामिन: द्वादशपणो दण्ड: । अथवा अविज्ञाप्यैव स्वामिने प्रचारणं पशून् उपक्षेत्रं नियन्त्र्य चारयतः, द्वादशपणो दण्डः नाशितसस्यफलेद्विगुणदण्डातिरेकेण । प्रमुञ्चतः निर्यन्त्रणं पशून् विसृज्य चारयतः, चतुर्विंशतिपणः दण्डः भक्षितद्विगुणदण्डातिरेकेण । पालिनां क्षेत्रपालकानां, अर्धदण्डः प्रमोक्तृदण्डस्यार्धे दण्डो भवति । 'उष्ट्रमहिषादीनां बालत्वे' इति भाषोक्त्यनुरोधे तु बालानामिति पठनीयम् । तदेव षण्डभक्षणे कुर्यादिति । सस्यभक्षणोक्तमेव) दण्डविधानं कदलीवार्ताकोर्वारुकादिवन भक्षणेऽनुतिष्ठेत् । वाटभेदे द्विगुण इति । वृतिं भित्वा क्षेत्रादिप्रवेशे पूर्वोक्तद्विगुणो दण्डः । वेश्मेत्यादि । वेश्मखलवलयगतानां, वेश्म गृहं खलं धान्यपवनस्थानं वलयं राशि : तद्गतानां, धान्यानां भक्षणे च द्विगुणो दण्डः । हिंसाप्रतीकारं कुर्यादिति । भक्षणनिमित्तस्य धान्यादिनाशस्य निष्क्रयं कुर्यात्, सर्वत्र ।
अभयवनमृगाः परिगृहीता वेत्यादि । अभयवन