________________
स्वामिपालविवाद:
मी वस्तेन ईशत माघशंस इत्याशिषमेवाशास्ते । परि वो रुद्रस्य हेतिर्वृणक्त्विति रुद्रमेव पशुभिः परिवृणक्त्यधातुकोsस्य रुद्रः पशून् भवति यस्यैवं विदुषो यचैवं विद्वान् हविषे गाः प्रार्पयति ध्रुवा अस्मिन् गोपतौ स्यातेति हत्येवैना बह्वीरिति भूमानमेवैना गमयति यजमानस्य पशून् पाहीति यजमानस्य पशूनां गोपीथाय । प्रतीचीं शाखामुपगूहति तस्माद्ग्राम्याः पशवः सायमारण्याड् ग्राममायन्ति । यत्पराचीमुपगूहेदरण्ये हीयेरन् । मी वः स्तेन ईशत माघ सा इत्याशिषमेवा - शास्ते ध्रुवा अस्मिन् गोपतौ स्यात बह्वीरिति प्रैव जनयति । शुद्धा अपः सुप्रपाणे पिबन्तीः । इति पुनात्येवैनाः । रुद्रस्य हेतिः परि वो वृणक्तु । इति रुद्रादेवैनास्त्रयन्ते । पूषा वः परस्या अदितिः त्वया इन्द्रो वोsध्यक्षोऽनष्टाः पुनरेत । इति त्रयो वा इमे लोका एभ्य एवैना लोकेभ्यः पुनरावर्तयति । यजमानस्य पशून् पाहीति यजमानस्यैव पशूनां गोपीथायाहिंसायै । प्रतीची शाखामुपगूहति तस्माद्द्याम्याः पशवः सायमरण्यादुग्राममायन्ति प्रत्यञ्च एनं पशवो भवन्ति य एवँ वेद |
मौ वस्तेन ईशत माघशँस इत्याह गुप्त्यै । रुद्रस्य हेतिः परि वो वृणक्त्वित्याह । रुद्रादेवैनास्त्रा यते । ध्रुवा अस्मिन् गोपतौ स्यात बह्वीरित्याह । ध्रुवा एवास्मिन् बह्वीः करोति । यजमानस्य पशून् पाहीत्याह । पशूनां गोपीथाय । तस्मात्सायं पशव उपसमावर्तन्ते ।
पशुपालप्रकाराः
अर्मेभ्यो हस्तिपं जवायाश्वपं पुष्टयै गोपालं वीर्यायाविपालं तेजसेऽजपालम् ।
(१) कासं . ३०।१० कसं. ४६ १८ गोपीथाय + ( वसोः पवित्रमसि शतधारं वसूनां पवित्रमसि सहस्रधार मिति । वसूनां मा एतद्भागधेयं यत्पवित्रम् । तेभ्य एवैनत्करोति ।). - (१) मैसं. ४।१.
(३) तैब्रा. ३।२।१।५.
(४) शु. ३०।११६ तैब्रा. ३ | ४|११९.
व्य. का. ११४
९०३
गोपालांश्चाविपालांश्च सह्वयित्वा उवाच ।
गौतमः
शस्यरक्षणम् । तदर्थं पशुदण्डविधिः ।
पशुपीडिते स्वामिदोषः ।
पशुभिरुपहते सस्यादौ यस्य पशवस्तस्य दण्डो वक्ष्य
Xमभा.
माणः ।
पौलसंयुक्ते तु तस्मिन् ।
पालान्विते पाल एव दण्डभागित्यर्थः । तुशब्दः पालेन कारिते दण्डभूयस्त्वज्ञापनार्थः । भूयस्त्वमपि द्विगुणं, 'पालकारिते द्विगुणो दण्डः' इति स्मृत्यन्तरदर्श
नात् ।
Xमभा.
क्षेत्रे नावृते पालक्षेत्रिकयोः ।
(१) पालस्यायत्न करणादितरस्यापि वृतेरकरणात् तावर्धमधं दद्यातामित्यर्थः । Xमभा.
(२) दीर्घकालं पशुतः सस्यपीडन इति शेषः । क्षेत्रिकः क्षेत्रकारी । तस्य वृतिमकुर्वतो राजभागविनाशनिबन्धनो दोषः । ततश्च सोऽपि दोषानुसारेण दण्ड्य इत्यभिप्रायः । सपाल पशुस्वामिनस्तु दोषस्तदभावे पालकस्यैव विज्ञेयो भृत्यापराधनिबन्धनत्वात् स्वाम्यपराधस्य एवं च यत्र पालस्य दोपो न विद्यते तत्र स पालपशुस्वामिनोऽपि दोषाभावाद्विनष्टधान्यादिमूल्यं क्षेत्रिकाय स्वामिना न देयमिति मन्तव्यम् । विपालपशुस्वामिनाऽपि न देयम् । पशोर्व्यतिक्रमेऽपि पालस्येव तस्याप्यपरिहार्य - तया व्यतिक्रमाभावादत एव दण्डयत्वमपि पालकवत् तस्यास्मिन्विप्रये वेदितव्यम् । अत एवास्य क्षेत्रिकेणापि शदो न याच्यम् ।
स्मृच. २०९
x गौमि, मभावत् ।
(१) शत्रा.४/१/५/४.
(२) गौध. १२।१६; मभा गौमि . १२।१६; स्मृच. २०९ पीडिते स्वामि (पीडने स्वामिनि); रत. १०८; विता. ६७४ पीडिते (पीडने); समु. १०३ स्मृचवत् .
(३) गौध.१२।१७; मभा गौमि. १२।१७ स्मृच. २०९ विता. ६७४ (पालासंयुक्त); समु. १०३.
(४) गौध. १२/१८; मेधा . ८ | २४०१ मभा ; गौमि १२/१८ स्मृच.२०९ समु.१०३.