________________
स्वामिपालविवादः
वेदाः स्वामिपशुपाल तत्कर्तव्यतालिङ्गानि
उप ते स्तोमान् पशुपा इवाकरम् ।
हे रुद्र स्तोमान् स्तुतिरूपान्मन्त्रान् ते तुभ्यमुपाकरं उपाकरोमि समर्पयामि । तत्र दृष्टान्तः । पशुपा इव । यथा पशूनां पालयिता गोपः प्रातःकाले स्वस्मै समर्पितान् पशून् सायंकाले स्वामिभ्य: प्रत्यर्पयति एवं त्वत्स - काशाल्लब्धान् स्तुतिरूपान्मन्त्रान् स्तुतिसाधनतया तुभ्यं प्रत्यर्पयामीत्यर्थः । प्रवीराय प्र तवसे तुरायाजा यूथेव पशुरक्षिरस्तम् ।
ऋसा.
ऋसा.
श्रीराय विक्रान्ताय विविधं शत्रूणामीरकाय वा मरुगाय प्राज । हे स्तोतः स्तुतिं प्रगमय । तथा तवसे लिने तुराय क्षिप्रगमनाय च तस्मै गणाय प्राज । तत्र दृष्टान्तः । पशुरक्षिः पशुपालको यूथेव । स यथा गोयूथानि सायंकालेऽस्तं गृहं शीघ्रं गमयति तद्वत् शीघ्रं स्तुतिं प्रेरयेत्यर्थः । पुनरेता निवर्तन्तामस्मिन् पुष्यन्तु गोपतौ । एता एना ईश्यो गाव आपो वा पुनर्नि वर्तन्ताम्, भूयो भूयो मां प्रत्यागच्छन्तु । आगत्य च गोपतौ धेनूनां अपां पालके मयि पुष्यन्तु पुष्ठा भवन्तु । येन्नियानं न्ययनं संज्ञानं यत्परायणम् । आवर्तनं निवर्तनं यो गोपा अपि तं हुवे ॥
ऋसा.
नियानं गोष्ठाख्यं स्थानं यत् अस्तीति शेषः । यच्छ योगात् तच्छब्दोऽध्याहर्तव्यः । हुवे इति क्रियापदं सर्वत्रानुषज्यते । तत्स्थानं हुवे आह्वयामि । गोसहितं गोष्ठं प्रार्थये इत्यर्थः । न्ययनम् । नियमेन गृहं प्रति प्राप्तिलक्षणं गमनं यदस्ति तदपि प्रार्थये । निवर्तनम् । बने चरित्वा गृहं प्रति यदागमनमस्ति तदपि प्रार्थये । ast गोपा गवां पालकोऽस्ति तमपि हुवे प्रार्थये । सा. शाश्रौ. ९।२६।३. (२) ऋसं. ६ । ४९ । १२. (१) ऋसं. १०।१९।३. (४) ऋसं. १०।१९।४.
(१) ऋसं. १।११४/९; आश्रौ. ४।११।६;
ये उदानव्ययनं य उदानपरायणम् । आवर्तनं निवर्तनमपि गोपा नि वर्तताम् ॥
यो गोपा गोपालो व्ययनं नष्टानां गवामन्वेषणार्थ विविधं गमनमुदानट् व्याप्नोति अनुभवति । यः परायणं परागमनं उदानद् व्याप्नोति । वनं प्रति गवां चर णाय गमनमित्यर्थः । यश्चावर्तनं वनचारिणीभिर्गोभिः सह प्रवर्तनमनुभवति । योऽपि गोपा निवर्तनं गोभिः सह वनाद्गृहं प्रति निर्गमनमनुभवति । सोऽपि गोपालो नि वर्तताम् । गोभिः सह वनाद् गृहं प्रति क्षेमेणागच्छतु ।
ऋसा.
य प्रयुता अर्यो अक्षन्ता अपश्यं सहगोपाश्चरन्तीः । हवा इदर्यो अभितः समायन्कियदासु स्वपतिश्छन्दयाते ॥
गावो धेनवः प्रयुताः प्रकर्षेण मिश्रिताः परस्परेण सह भूता यदृष्टिजनितयवादिघासमक्षन् । अदन्ति । भक्षयन्ति । अर्यः सर्वस्य स्वाम्यहं ता गा अपश्यम् । पश्यामि । कीदृशीः । सहगोपाः पशुपालकेन सहिताश्चरन्तीर्घासं भक्षयन्तीः । एवंभूतास्ताः परया प्रीत्या पश्यामीत्यर्थः । किंच. हवा वाहन दोहनार्थमाह्वानार्हा गावो अर्थः । द्वितीयार्थे प्रथमा । अये स्वामिनं प्रत्यभितः सर्वतः समायन् । एकीभूयागच्छन्ति । आगता स्वासु गोषु स्वपतिः स्वानां गवां स्वामी कियत्क्षीरं छन्दयाते । दोग्धुं कामयते । मदर्थे दोग्धीत्यर्थः ।
ऋसा.
मी वस्स्तेन ईशत माघशंसः । परि वो रुद्रस्य हेतिर्वृणक्तु । ध्रुवा अस्मिन्गोपतौ स्यात बव्हीर्यजमानस्य पशून् पाहि । यजमानस्य पशुपा असि ।
(१) ऋसं. १०।१९।५; असं. ६ ७७/२. (२) ऋसं. १०।२७/८.
(३) तैसं. १।१।१ ( यजमानस्य पशुपा असि० ); कासं. १।१; कसं. ११ तैसंवत्; मैसं. १११११ ( परि वो.......... (०) शेषं तैसंवत् शु. १ । १ मैसंवत् माश्रौ. १।१।१.