________________
क्रयविक्रयानुशयः
तथा 'वोढुः कन्यासमुद्भवम्' इति क्षतयोनेरपि मनुनैव बिवाहसंस्कारस्य वक्ष्यमाणत्वात् । देवलेन तु 'गान्ध
+ममु.
विवादेषु पुनर्वैवाहिको विधिः । कर्तव्यश्च त्रिभिवर्णैः समयेनाग्निसाक्षिकः' ॥ इति गान्धर्वेषु विवाहेषु होममन्त्रादिविधिरुक्तः । गान्धर्वश्चोपगमनपूर्वकोऽपि भवति । तस्य क्षत्रियविषये सुधर्मत्वं मनुनोक्तम् । अतः सामान्यविशेषन्यायादितरविषयोऽयं क्षतयोनिविवाहस्याधर्मत्वोपदेशः । पाणिग्रहणिका मन्त्रा नियतं दारलक्षणम् । तेषां निष्ठा तु विज्ञेया विद्वद्भिः सप्तमे पदे ॥ (१) दारा भार्या तस्या लक्षणं निमित्तं विवाहमन्त्रास्तैस्तत्र प्रयुक्तैर्विवाहाख्यः संस्कारो निर्वर्तते । द्विजा तीनां पुनर्मन्त्राः । तत्र शूद्रस्य दारप्रसङ्गो, न हि तस्य मन्त्राः सन्ति मन्त्रवर्ज सर्वाऽन्येतिकर्तव्यताऽस्ति । अतो विवाहाख्यसंस्कारोपलक्षणं मन्त्रास्तेषां मन्त्राणां निष्ठा समाप्तिः सप्तमे पदे विज्ञेया लाजाहोममभिनिर्वर्त्य त्रिःप्रदक्षिणममिव सप्तपदानि स्त्री प्रक्रम्यते ' एप एकपदी भव' इत्यादि यावत् 'सखा सप्तपदी भवेति । तस्मिन्प्रक्रान्ते कन्यायाः पदे कन्यापितु दुर्वा ऽनुशयो नास्ति । उन्मादवत्यपि भार्यैव । न त्याज्या | मैथुनवत्यास्तु नैवासौ विवाहः । सत्यपि लाजाहोमादावितिकर्तव्यतास्वरूपे न भार्या सा । अतस्तत्र द्रव्यान्तरवदनुशयः । यथा च शूद्रकर्तृकेणाधानेन नाहवनीयो भवति । सपिण्डायाश्च कृतेऽप्यग्निसंस्कारे न विवाहस्वरूपत्वं, तत्र तु प्रसिद्धम् - 'संस्कारकरणादेव प्रायश्चितीयते पुमान्' । कन्या चान्यस्याप्यविवाह्या, वसिष्ठवचनात् । यदि प्रजनविघातरोगगृहीतामूढा न त्यजति का तर्हि गतिः । सत्यधिकारे अन्यामुद्वाहयिष्यति । सद्यस्त्वप्रियवादिनीतिवत् । कृते तु जातपुत्रायामाधाने यदि यो व्याधिः स्यात्तथापि नैनामधिविन्देदधिवेदनिमित्तानां परिगणनात् । तत्रापि यदि 'कामतस्तु प्रवृत्तानाम्' इत्येतत्प्रयोजकमिष्यते न निवारयामस्तेनैव
+ मच. ममुवद्भावः ।
* ममु., मच., भाच. एषु रपृष्टमैथुनकन्याविषयेऽनिर्णयः । (१) मस्मृ. ८।२२७; बाल. २।१२७.
*
संक्षेपतः कन्यानां धर्मो यथाऽन्येषां द्रव्याणां दशाहादूर्ध्वमपि साम्ना प्रत्यर्पणं, नैवं कन्यानां कृतविवाहानां शुल्कदेयानामपि प्राविवाहाद्रव्यान्तरधर्मः । या तु धर्माय दीयते तस्या नैवानुशय इति वचनात् । तत्रापि 'दत्ता - मपि हरेत्कन्यां ज्यायांश्चेवर आव्रजेत्' इत्यस्त्येवापहार आ सप्तमपदात् । सप्तमे तु पदे दानानिवृत्तेर्गवादिद्रव्यदानवन्नास्त्यपहारः । अथैवं केनचित्कस्मैचि द्वविदत्तायां न तयोरन्योन्येच्छयाऽनुशयो दानादाने, दानस्य तदानीमेव निवृत्तत्वात् । प्रतिगृहीतं चेद्दात्रे पुनः प्रयच्छेत्तद्दानान्तरमेव तत्स्यान्न पूर्वदान निवृत्तिः । एवं सगुणयोः कन्यावरयोर्नान्योन्येच्छया त्यागोऽस्ति प्रागपि विवाहात् । विवाहे कृते दोषवत्या अपि नास्ति त्यागः कन्यायाः । स्पृष्टमैथुना या कन्यैव न भवत्यतोऽसौ त्यज्यते । कन्याया यतो विवाहो विहितो विवाहश्चोपभोगस्थानीयो यथा परिभुक्तं वस्त्रमन्तर्दशाहमपि नैव विक्रेत्रेऽर्प्यते तथैव कन्या कृतविवाहा । पुनश्चायमर्थो निर्णेष्यते ' सकृत्कन्या प्रदीयत' इत्यत्रान्तरे । +मेधा.
( २ ) पाणिग्रहणिका मन्त्रा नियतमिति । ववाहिका मन्त्राः निश्चितं भार्यात्वे निमित्तं तैः प्रयुक्तैर्भार्या भवति तेषां पुनर्मन्त्राणां सखा सप्तपदी भवेति मन्त्रेण कन्यायाः सप्तमे पदे दत्ते सति शास्त्रज्ञैः समाप्तिबोद्धव्यैव च । सप्तमात्पदादर्वागकन्यात्त्व परिज्ञानेऽनुशये स त्यजेन्नोर्ध्व, कानीनसहोढ गूढोत्पन्नानां शास्त्रे वोढुः पुत्रदर्शनात् । गोरा. (३) किंच सप्तपदीगमनात्प्राग्दोषदर्शने कन्याया अशुस्काया अपि त्याग इत्युपपादयति - पाणिग्रहणिका इति । दारलक्षणं दारहेतुः । निष्ठा अनिवर्तमानोचिता समाप्तिः ।
मवि.
याज्ञवल्क्यः गृहीतमूल्यपण्यविक्रेत्रनुशयः
गृहीतमूल्यं यः पण्यं क्रेतुनैव प्रयच्छति । सोदयं तस्य दाप्योऽसौ दिग्लाभं वा दिगागते ॥
+ नन्द. मेधावद्भावः ।
(१) यास्मृ. २।२५४; अपु. २५८ ।४४; विश्व. २।२६० दिगा (दिशां ); मिता; अप. स्मृच. २१८ यः (यत्) चतुर्थ. पादं विना; पमा. ३६५ रत्न. १०४; नृप्र. २९ यः पण्यं