________________
संविव्यतिक्रमः
धर्मज्ञाः शुचयोऽलुब्धा भवेयुरिति । श्रौतस्मार्तधर्मशा | भेदं धर्मव्यवस्थां नृपो रक्षेत् बाह्याभ्यन्तरशौचयुक्ताः अर्थेष्वलुब्धाः कार्यविचारकाः कर्तव्याः । तेषां वचनमितरैः कार्यमित्येतदादरार्थे पुनर्वचनम् । मिता. (३) एवंविधाः समूहकार्याणां साधकबाधकविचाराः स्युः । वेदज्ञत्वादिविशिष्टानां कार्यचिन्तकत्वं विधीयते, अन्यदनूद्यते ।
अप.
(४) एतेषां समूहहितषादिनां वचनमकरणे दण्डप्रसक्त्याऽवश्यं सर्वैः कर्तव्यमित्यर्थः । बीमि.
उक्त विद्यसंविद्विधेः श्रेण्यादावतिदेशः 'श्रेणिनैगमपाषण्डिगणानामप्ययं विधिः । भेदं चैषां नृपो रक्षेत्पूर्ववृत्तिं च पालयेत् ॥ (१) योऽयं ब्राह्मणानां समूह विधिरुक्तः - श्रेणिनैगमपाषण्डीति । कर्मकरादिशिल्पिसमूहः श्रेणिः । सार्थवाहादिसमूहो नैगमः । गुग्गुलिकादिसमुदायः पाषण्डाः । वणिक्समूहो राणः, हस्त्यारोहादिसमूह इत्यन्ये । पूगादिलक्षणार्थो वा गणशब्दः । तथा च नारदः - पाषण्डनैगमश्रेणीति । किंच भेदश्चैषामन्योन्यं समुदायिनां वा राज्ञा रक्षणीयः । चशब्दादन्यसंघातराजादिविरोधिव्यवहारश्च । तथा च नारदः - 'प्रतिकूलं च यदिति । पूर्वकल्पितां च धर्माविरोधिनीं वृत्तिं पालयेत् । चशब्दात् स्वयं च वर्धयेदित्यभिप्रायः । विश्व. २।१९६ (२) इदानीं त्रैविद्यानां प्रतिपादितं धर्म श्रेण्यादिष्वतिदिशन्नाह — श्रेणिनैगमपाखण्डीति । एकपण्यशिल्पोपजीविनः श्रेणयः । नैगमाः ये वेदस्याप्तप्राणी - तत्वेन प्रामाण्यमिच्छन्ति पाशुपतादयः । पाखण्डिनो ये वेदस्य प्रामाण्यमेव नेच्छन्ति । नग्नाः सौगतादयः । गणो व्रातः । आयुधीयादीनामेककर्मोपजीविनाम् । एष चतुर्विधानामप्ययमेव विधिः । यो 'निजधर्माविरोधेनेत्यादिना प्रतिपादितः । एतेषां च श्रेण्यादीनां
(१) यास्मृ. २।१९२३ अपु. २५७।४२; विश्व. २ । १९६; मिता.; अप. षं (षा); व्यक. १६४ पाषण्डि (पाखण्ड); विर. १८९. पाषण्डि (पाषण्ड); सवि. ३३० श्रेणि (श्रेणी); वीमि ; *यप्र.३३७ वृत्तिं च (वृत्तं च); विता. ६६० पूर्ववृत्तिं (पूर्वा वृत्ति); राकौ . ४७८; समु. १११ विरवत्.
ટર
पूर्वोपात्तां वृत्तिं च पालयेत् । मिता. (३) एकजातिनिविष्टानां समान वृत्त्युपजीविनां समूहः श्रेणिर्यथा रजक श्रेणिरिति । सह देशान्तरवणिज्यार्थे ये नानाजातीया अधिगच्छन्ति ते नैगमा अवैदिकाः प्रव्रज्यास्थिताः पाषाण्डिनो, ब्राह्मणेभ्योऽन्ये समानजीविका इह गणाः, एषामप्ययमेव धर्मः यो निजधर्माविरोधेनेत्येवमादायुक्तः । तथा श्रेण्यादीनां परस्परभेदं मतिभेदं नृपो रक्षेन्निवारयेत् । प्राक्तनीं च तेषां वृत्तिं पालयेत् ।
अप.
(४) श्रेणयः समानकर्मकराः कारवः, नैगमाः नानापौरसमूहाः, पाखण्डाः प्रव्रज्यावसिताः, गणो ब्राह्मणसमूहः ।
• व्यक. १६४
(५) पाखण्डिनो वेदप्रामाण्यानभ्युपगन्तारः । आद्यचकारेण प्रागुक्तानां ब्राह्मणानां समुच्चयः । द्वितीयचकारेणाऽवृत्तीनां वृत्तिं कल्पयेदिति समुच्चीयते ।
वीमि
नारदः समयानपाकर्मलक्षणम्
पाषण्डनैगमादीनां स्थितिः समय उच्यते । समयस्यानपाकर्म तद् विवादपदं स्मृतम् ॥
(१) तस्य च लक्षणं नारदेन व्यतिरेकमुखेन दर्शितंपाखण्डीति । पारिभाषिकधर्मेण व्यवस्थानं समयः तस्यानपाकर्माव्यतिक्रमः परिपालनं तद्यतिक्रम्यमाणं विवादपदं भवतीत्यर्थः । #मिता.२।१८५ (२) पाषण्डाः क्षपणादयः । नैगमाः सार्थिका वणिजः । आदिशब्देन त्रैविद्यब्राह्मणसमूह श्रेणिपूगवातगणगुल्मग्रामदेशादयो गृह्यन्ते । Xस्मृच. ५ (३) पापण्डास्त्रयवाह्याः । नैगमाः पौराः । विर. १७७ (४) नैगमा वणिजः प्रकृतय इत्यन्ये । तेषां पूर्व
* पमा, व्यप्र., व्यउ मितावत् । x शेषं मितावत् । (१) नासं. १११ ; नास्मृ. १३।१ षण्ड (षण्डि); अपु. २५३।२२; मिता. २११८५ षण्ड (खण्डि); व्यक. १६३३ स्मृच. ५; विर. १७७; पमा. ३४८; नृप्र. ३०३ सवि. ३२८; व्यप्र. ३३१; व्यउ.८९; व्यम. ९३; विता. ६५६ मितावत्: समु. ११०.