________________
८६४
मनुः ग्रामदेशसंघ संविलङ्घने दण्डविधिः
व्यवहारकाण्डेम्
अत ऊर्ध्वं प्रवक्ष्यामि धर्म समयभेदिनाम् ॥ (१) समयः संवित् संकेतः इदं मया भवतामनुमते निश्चितं कर्तव्यमित्यभ्युपगमः । तं भिन्दन्ति व्यतिक्रामन्ति ते समय भेदिनः । 'संविदश्च व्यतिक्रमः' इति यदुद्दिष्टं तदिदानीमुच्यते । पूर्वेणार्धेन पूर्वप्रकरणोपसंहारोऽपरेण यथोद्दिष्टप्रकरणान्तरसूचनम् ।
मच.
मेधा. (२) अनन्तरं समयव्यतिक्रमकारिणां दण्डादिव्यवस्थां वक्ष्यामि । गोरा. (३) समयभेदिनां इदमस्माभिः परिहर्तव्यं इति निश्चयकारिणाम् । यो ग्रामदेशसंघानां कृत्वा सत्येन संविदम् । विसंवदेन्नरो लोभात्तं राष्ट्राद्विप्रवासयेत् ॥ (१) शालासमुदायों ग्रामस्तन्निवासिनो मनुष्या गृह्यन्ते । तेषामेव संविदः संभवात् । एवं ग्रामसमुदायो देशः, संघः एकधर्मानुगतानां नानादेशवासिनां नानाजातीयानामपि प्राणिनां समूहः । यथा भिक्षूणां संघो वणिजां संघश्रातुर्विद्यानां संघ इति । ग्रामादीनां यत्कार्य यथा पारग्रामिकैर्ग्रामो नोऽपहतप्रायः अस्माकीने गोप्रचारे गांश्चारयन्ति उदकं च भित्त्वा नयन्ति । तद्यदि वो मतं तव एतदेषां कर्तुं न दद्मे । एवं नः प्रतिबन्धतां यदि तैः सह दण्डादण्डिर्भवति राजकुले वा व्यवहारस्तत्र सर्वे वयमेककार्या नो चेदुपेक्षा हे । तत्र : संवदते बाढम् । किमिति प्राक्तनी ग्रामस्थितिस्तैर्व्यतिक्रम्येत्येवं प्रोत्साह्य; विसंवदेद्बलात्तैरेव सह सङ्गच्छेत स्वेषु वा नाभ्यन्तरः स्यात्स राज्ञा स्वराष्ट्रान्निर्वासयितव्यो निष्कासयितव्यः । स्वविषयेऽस्य वस्तुं न देयम् । एवं वणिङ्ठब्राह्मणादिकार्ये ईदृशे कृतसंवित्तिना नातिक्रमितव्यम् । यत्कार्यं ग्रामाद्युपकारकं शास्त्राचारप्रसिद्धं
(१) मस्मृ८।२१८.
(२) मस्मृ. ८।२१९; मिता. २।१८७; अप. २ १८७; यक. १६५; स्मृच. २२६; विर. १८२३ पमा. ३५७;दवि. २६७; सवि. ३२९; वीमि . २ १८७; व्यप्र. ३३५; व्यउ. ९२; विता. ६६०; समु. १११ कात्यायनः.
१ देश. २ वर्षां. ३ माह. ४ ये. ५ वित्तेन.
पुरराष्ट्रविरोधि तत्संविद्यतिक्रमे दण्डोऽयम् । लोभादिति स्वेनोपकारगन्धेन परग्रामणीकृतेनास्वातन्त्र्यं लोभः अज्ञानासु विसंवदमानस्यान्यः कल्पः । X मेधा.
(२) अनुबन्धाल्पत्वे तु - यो ग्रामेति । मिता. २।१८७ (३) यस्तु मुख्यः शपथेन स्वमार्गे स्थापयितुमशक्यस्तत्रोक्तं मनुना – यी ग्रामेति । सत्येन शपथेनेत्यर्थः ।
स्मृच. २२६
मच.
(४) विप्रवासयेद्दण्डपुरःसरम् । ब्राह्मणस्य न दण्डः केवलं ग्रामत्याग इति । 'निगृह्य दापयेदेनं समयव्यभिचारिणम् । चतुःसुवर्णान् षग्निष्कांच्छतमानं च राजतम् ॥ (१) निगृह्यावष्टभ्य पीडयित्वा काललाभमकारयित्वा दण्ड्यः । चत्वारि सुवर्णानि येषां निष्काणां परिमाणं ते चतुःसुवर्णा निष्काः । यद्यपि 'चतुःसुवर्णिको निष्क' इत्यत्रोक्तं तथापि शास्त्रान्तरे 'साष्टं शतं सुवर्णानां निष्क माहुर्महाधियः' इत्येवमादिपरिमाणान्तरं पश्यन् विशिनष्टि संज्ञाकारणसामर्थ्यादेव लभ्यत इति चेत् पद्यग्रन्थत्वान्न दोषः । अन्ये तु सहार्थे बहुव्रीहिं कृत्वा त्रीन् दण्डानाहुः । चतुर्भिः सुवर्णैः सह षष्णिष्कान् दण्डनीयो दश निष्काः प्रतिपादिता भवन्ति । बहुव्रीहि-सिद्ध्यर्थे सहार्थे कथंचिन्मत्वर्थो योजितव्यः । न हि चित्राभिर्गोभिः सहितश्चित्रगुर्देवदत्त इति भवति । एते च त्रयो दण्डा यद्वा त्रिभिरेक इति कार्यापेक्षया योजनं, निर्वासनदैण्डेन विकल्प्यते दण्डोऽयम् । *मेघा. (२) मनुप्रतिपादितदण्डानां निर्वासनचतुःसुवर्णषनिष्कशतमानानां चतुर्णामन्यतमो जातिशक्त्याद्यपेक्षया x गोरा, मबि., ममु. मेधावत् । + अप, सवि., वीमि. मितावत् ।
* गोरा, ममु., विर., मच. मेधावद्भावः : (१) मस्मृ. ८ | २२० देनं (च्चैनं ); मिता. २।१८७ निष्कान् (र्ण निष्कं ); अप. २।१८७ मस्मृवत् ; व्यक. १६५ मस्मृवत् ; स्मृच. २२६ मितावत्; विर. १८२१ पमा. ३५७; नृप्र. ३०१ दवि. २१७; सवि. ३२९ मितावत् ; वीमि. २ १८७ च (तु) शेषं मितावत्; व्यप्र. ३३५; व्यउ. ९२ मितावत्; विता. ६६० मितावत् समु. ११२ मितावद,
कात्यायनः.
१ ष्का. २. यदि च ३ दण्डो न.