________________
८६३
व्यवहारकाण्डम्
सर्वहितमेकस्य ब्रुवतः कुर्युराज्ञाम् । अकरणे | त्मकः, दण्ड: । उपहन्तृषु विशिष्टः साक्षाद् घातकैषु पूर्वोक्त एव दण्डः सातिशयः ।
द्वादशपणो दण्डः । तं चेत्संभूय वा हन्युः पृथगेषामपराधद्विगुणेो दण्डः । उपहन्तृषु विशिष्टः ।
ब्राह्मणतश्चैषां ज्यैष्ठयं निमभ्येत । प्रहवणेषु चैषां ब्राह्मणे नाकामाः कुर्युः । अशं च लभेरन् । तेन देशजातिकुलसंघानां समयस्यानपाकर्म व्याख्यातम् ।
राजा देशहितान् सेतून् कुर्वतां पथि संक्रमान् । ग्रामशोभाश्च रक्षाश्च तेषां प्रियहितं चरेत् ॥
समयस्थानपाकर्मेति सूत्रम् । बहुभिः संभूय कल्यमाना व्यवस्था समयः तस्य अनपाकर्म अत्यागः तदिहोच्यत इति सूत्रार्थः । उद्देशक्रमेणास्य प्रकरणस्य व्याख्यानसंगतिः । कर्षकस्येति । कृषीवलस्य, ग्राममभ्युपेत्याकुर्वतः ग्रामजनसमुदायकार्यमङ्गीकृत्याननुतिष्ठतः, ग्राम एव, अत्वयं दण्डं हरेत्, न तु राजा । दण्डविधिमाह—कर्माकरण इति । कर्मणः समुदायकार्यस्य अकरणे, कर्मवेतनाद् आत्मलभ्याद् वेतनभागाद्, द्विगुणं दण्डं दद्यात् । हिरण्यादाने समुदायकार्यार्थे सर्वैर्हिरण्ये दीयमाने सति स्वयं हिरण्यस्य अदाने, प्रत्यंशद्विगुणं एकैकदेयस्य हिरण्यांशस्य द्विगुणं दण्डं दद्यात् । भक्ष्यपैयादाने च प्रहवणेषु गोष्ठीभोजनादिषु भक्ष्यपेययोरात्मदेययोरदाने च द्विगुणमंशं दण्डं दद्यात् । प्रेक्षायामिति । कुशीलवनटनर्तकादिकर्मणि, अनंशदः स्वदेयमंशमददानः, सस्वजनो न प्रेक्षेत स्वयं नेक्षेत स्वजनमपि नेक्षयेत् । प्रच्छन्नश्रवणेक्षणे च प्रच्छन्नं स्थित्वा गीताद्याकर्णने नाट्याद्यवलोकने च, द्विगुणमंश स्वदेयांशद्विगुणं दण्डं दद्यात् । सर्वहिते च कर्मणि, निग्रहेण प्रतिबन्धाचरणेन द्विगुणमंशं स्वदेशद्विगुणं दण्डं दद्यात् ।
सर्वहितमिति । सर्वजनानुकूलं ब्रुवतः एकस्य आशां एकस्यापि नियोगवचनं कुर्युरनुतिष्ठेयुः अर्थादन्ये सामयिकाः । अकरणे द्वादशपणो दण्डः । तं चेदिति । वेति पक्षान्तरे । तं सर्वहितवक्तारं संभूय हन्युश्चेद्, मत्सरवशादन्ये सामयिका इत्यार्थम् । पृथक् प्रत्येकं, एषां हन्तॄणाम् । अपराध - द्विगुणः अकरणापराधोक्तदण्ड द्विगुणश्चतुर्विंशतिपणा
ब्राह्मणतश्चेति । एषां सामयिकानां ब्राह्मणतो ब्राह्मणात् प्रभृति, ज्यैष्ठयं नियम्येत अलङ्घयवचनत्वलक्षणं ज्येष्ठत्वं व्यवस्थाप्येत । प्रहवणेष्विति । प्रीतिभोजनादिषु, एषां सामयिकानां मध्ये, ब्राह्मणे विषये, नाकामाः कुर्युः अंशं च लभेरन् अविज्ञाततदभिप्राया अंश न कल्पयेयुः अशं च लभेरन् । सत्यां तदिच्छायामित्यर्थः । तेनेति । तेन यथोक्तेन समयानपाकर्मन्यायेन, देशजातिकुलसंघानां देशीयजनसंघस्य जातीयजनसंघस्य कुलीयजनसंघस्य चेत्येतेषां समयस्यानपाकर्म, व्याख्यातं श्रीमू.
उक्तप्रायम् ।
संघवृत्तम् 'संघलाभो दण्डमित्रलाभानामुत्तमः । संघा हि संहतत्वादवृष्याः परेषाम् । ताननुगुणान् भुञ्जीत सामदानाभ्याम् । विगुणान् भेददण्डाभ्याम् । काम्बोजसुराष्ट्र क्षत्रियश्रेण्यादयो वार्ताशस्त्रोपजीविनः । लिच्छिविकत्रजिक मल्लमद्रक कुकुरकुरुपाञ्चालादयो राजशब्दोपजीविनः ।
सर्वेषामन्नाः सत्रिणः संघानां परस्परन्यङ्गद्वेषवैरकलहस्थानान्युपलभ्य क्रमाभिनीतं भेदमुपचारयेयुः - 'असौ त्वा विजल्पति' इति । एवमुभयतः बद्धरोषाणां विद्या शिल्पद्यूतवैहारिकेष्वाचार्यव्यञ्जना बालकलहानुत्पादयेयुः । वेशशौण्डिकेषु वा प्रतिलोमप्रशंसाभिः संघमुख्यमनुष्याणां तीक्ष्णाः कलहानुत्पादयेयुः । कृत्यपक्षोपग्रहेण वा । कुमारकान् विशिष्टच्छन्दिकया हीनच्छन्दिकानुत्साहयेयुः । विशिष्टानां चैकपात्रं विवाहं हीनेभ्यो वारयेयुः । हीनान् वा विशिष्ठैरेकपात्रे विवाहे वा योजयेयुः । अवहीनान् वा तुल्यभावोपगमने कुलतः पौरुषतः स्थानविपर्यासतो वा व्यवहारमवस्थितं वा प्रतिलोमस्थापनेन निशामयेयुः । विवादपदेषु वा द्रव्यपशुमनुष्याभिघातेन रात्रौ तीक्ष्णाः कलहानुत्पादयेयुः । सर्वेषु च कलहस्थानेषु हीनपक्षं राजा कोशदण्डाभ्यामुपगृह्य प्रति(१) कौ. ११।१.