________________
संविव्यतिक्रमः
वयासक्ता महाबाहो लोका लोकेश्वराश्च ये ॥ उपासन्ते हि त्वबुद्धिमृषयश्चापि माधव । त्वं गुरुः सर्वभूतानां जानीषे त्वं परां गतिम् ॥ त्वामासाद्य यदुश्रेष्ठमेधन्ते यादवाः सुखम् ॥ गणरक्षणरीति:
गणानां वृत्तिमिच्छामि श्रोतुं मतिमतां वर । यथा गणाः प्रवर्धन्ते न भिद्यन्ते च भारत । अश्व विजिनीवन्ते सुहृदः प्राप्नुवन्ति च ॥ भेदमूल विनाशो हि गणानामुपलक्षये । मन्त्रसंवरणं दुःखं बहूनामिति मे मतिः ॥ एतदिच्छाम्यहं श्रोतुं निखिलेन परंतप । यथा च ते न भिद्येरंस्तच्च मे वद पार्थिव || भीष्म उवाच
गणानां च कुलानां च राज्ञां भरतसत्तम । वैरसंदीपनावेतौ लोभामर्षो नराधिप । arat हि वृणुते ततोऽमर्पमनन्तरम् । तौ क्षयव्ययसंयुक्तावन्योन्यं च विनाशिनौ || चारमन्त्रबलादानैः सामदानविभेदनैः । क्षयव्ययभयोपायैः प्रकर्षन्तीतरेतरम् ॥ तत्रादानेन भिद्यन्ते गणाः संघातवृत्तयः । भिन्ना विमनसः सर्वे गच्छन्त्यरिवशं भयात् ॥ भेदे णा विनश्यर्हि भिन्नास्तु सुजयाः परैः । तस्मात्संघात योगेन प्रयतेरन् गणाः सदा ॥ अर्थाचैवाधिगम्यते संघातवलपौरुषैः ।
ह्याच मैत्रीं कुर्वन्ति तेषु संघातवृत्तिषु ॥ ज्ञानवृद्धाः प्रशंसन्ति शुश्रूषन्तः परस्परम् । विनिवृत्ताभिसंधानाः सुखमेधन्ति सर्वशः ॥ affair व्यवहारांश्च स्थापयन्तश्च शास्त्रतः । थावत्प्रतिपश्यन्तो विवर्धन्ते गणोत्तमाः ।। पुत्रान् भ्रातृन् निगृह्णन्तो विनयन्तश्च तान्सदा । faatain प्रगृह्णन्तो विवर्धन्ते गणोत्तमाः ॥ चारमन्त्रविधानेषु कोशसंनिचयेषु च । नित्ययुक्ता महाबाहो वर्धन्ते सर्वतो गणाः ॥ प्राज्ञान् शूरान महोत्साहान् कर्मसु स्थिरपौरुपान् । मानयन्तः सदा युक्ता विवर्धन्ते गणा नृप ॥
(१) मा.१२२१०७१६-३२.
८६१
द्रव्यवन्तश्च शूराश्च शस्त्रज्ञाः शास्त्रपारगाः । कृच्छ्रास्वापत्सु संमूढान् गणाः संतारयन्ति ते ॥ क्रोधो भेदो भयं दण्डः कर्षणं निग्रहो वधः । नयत्यरिवशं सद्यो गणान् भरतसत्तम ॥ तस्मान्मानयितव्यास्ते गणमुख्याः प्रधानतः । लोकयात्रा समायत्ता भूयसी तेषु पार्थिव ।। मन्त्रगुप्तिः प्रधानेषु चारश्चामित्रकर्षण । न गणाः कृत्स्नशो मन्त्रं श्रोतुमर्हन्ति भारत ॥ गणमुख्यैस्तु संभूय कार्य गणहितं मिथः ॥ पृथग्गणस्य भिन्नस्य विततस्य ततोऽन्यथा । अर्थाः प्रत्यवसीदन्ति तथाऽनर्था भवन्ति च ॥ तेषामन्योन्यभिन्नानां स्वशक्तिमनुतिष्ठताम् । निग्रहः पण्डितैः कार्यः क्षिप्रमेव प्रधानतः ॥ कुलेषु कलहा जाताः कुलवृद्धैरुपेक्षिताः गोत्रस्य नाशं कुर्वन्ति गणभेदस्य कारकम् ॥ आभ्यन्तरं भयं रक्ष्यमसारं बाह्यतो भयम् । आभ्यन्तरं भयं राजन् सद्यो मूलानि कृन्तति ॥ अकस्मात्क्रोधमोहाभ्यां लोभाद्वाऽपि स्वभावजात् । अन्योन्यं नाभिभाषन्ते तत्पराभवलक्षणम् ॥ जात्या च सदृशाः सर्वे कुलेन सदृशास्तथा । न चोद्योगेन बुद्धया वा रुपद्रव्येण वा पुनः ॥ भेदाचैव प्रदानाच्च नाम्यन्ते रिपुभिर्गणाः । तस्मात्संघातमेवाहुर्गणानां शरणं महत् ॥
कौटिलीयमर्थशास्त्रम्
समुदायकर्म समयः । समुदायार्थभाय्यादिकर्मणि अनंशदोऽनधिकारी । सर्वहितादेशपालनम् । त्रैष्ठ्यनियमः संघे ।
उक्त समयस्यातिदेशः देशजातिसंघेषु । समयस्यानपाकर्म । कर्षकस्य ग्राममभ्युपेत्या - कुर्वतो ग्राम एवात्ययं हरेत् । कर्माकरणे कर्मवेतनाद द्विगुणं, हिरण्यादाने प्रत्यंशद्विगुणं भक्ष्यपेयादाने च प्रहवणेषु द्विगुणमंशं दद्यात् ।
प्रेक्षायामनंशदः सस्वजनो न प्रेक्षेत । प्रच्छन्नश्रवणेक्षणे च सर्वहिते च कर्मणि निग्रहेण द्विगुणमंशं दद्यात् ।
(१) को. ३११०.