________________
८६०
व्यवहारकाण्डम्
गणश्रेणिसमूहनार्थ जातानां स्थिरीकरणरूपस्य समयस्यानपाकर्म – अनुल्लङ्घनं यत्तत्समयानपाकर्म । विरुद्धलक्षणया दर्शादिवत्समयानपाकर्माख्यं विवादपदम् । संविद्यतिक्रम इत्येतस्यैव नामान्तरम् । पाषण्डपूगाः श्रेणिनैगमानां संघाः । समूहस्तु ब्राह्मणानां संहतिः । व्रातः आयुधधराणां व्रततिः । सवि. ५६
महाभारतम्
विनापि राशा लोकसमयः प्रजारक्षकः राजकाः प्रजाः पूर्व विनेशुरिति नः श्रुतम् । परस्परं भक्षयन्तो मत्स्या इव जले कृशान् ॥ समेत्य तास्ततश्चक्रुः समयानिति नः श्रुतम् । वाक्शूरो दण्डपरुषो यश्च स्यात्पारजायिकः ॥ यवनः समयं भिन्द्यात्त्याज्या नस्तादृशा इति । विश्वासार्थं च सर्वेषां वर्णानामविशेषतः । तास्तथा समयं कृत्वा समयेनावतस्थिरे || राजा प्रजया निर्मित:
सहितास्तास्तदा जग्मुरसुखार्ताः पितामहम् । अनीश्वरा विनश्यामो भगवन्नीश्वरं दिश || यं पूजयेम संभूय यश्च नः प्रतिपालयेत् । ततो मनुं व्यादिदेश मनुर्नाभिननन्द ताः ॥ मनुरुवाच --
बिभेमि कर्मणः पापाद्राज्यं हि भृशदुष्करम् । विशेषतो मनुष्येषु मिध्यावृत्तेषु नित्यदा ||
भीष्म उवाच -
तमब्रुवन् प्रजा मा भैः कर्तृनेनो गमिष्यति । पशूनामधिपञ्चाशत् हिरण्यस्य तथैव च ॥ धान्यस्य दशमं भागं दास्यामः कोशवर्धनम् । कन्यां शुल्के चारुरूपां विवाहेषूद्यतासु च ॥ मुखेन शस्त्रपत्रेण ये मनुष्याः प्रधानतः । भवन्तं तेऽनुयास्यन्ति महेन्द्रमिव देवताः ।। स त्वं जातबलो राजन् दुष्प्रधर्षः प्रतापवान् । सुख धास्यसि नः सर्वान् कुबेर इव नैर्ऋतान् ॥ यं च धर्मं चरिष्यन्ति प्रजा राज्ञा सुरक्षिता: । चतुर्थ तस्य धर्मस्य त्वत्संस्थं वै भविष्यति ।।
(१) भा. १२।६७।१७ ३९.
तेन धर्मेण महता सुखं लब्धॆन भावितः । पाह्यस्मान् सर्वतो राजन्देवानिव शतक्रतुः ॥ विजयाय हि निर्याहि प्रतपत्रमिवानिव । मानं विधम शत्रूणां धर्मं जनय नः सदा ॥ स निर्ययौ महातेजा बलेन महता वृतः । महाभिजन संपन्नस्तेजसा प्रज्वलन्निव ।। तस्य दृष्ट्वा महत्वं ते महेन्द्रस्येव देवताः । अपतत्रसिरे सर्वे स्वधर्मे च ददुर्मनः ।। ततो महीं परिययौ पर्जन्य इव वृष्टिमान् । शमयन् सर्वतः पापान् स्वकर्मसु च योजयन् ॥ एवं ये भूतिमिच्छेयुः पृथिव्यां मानवाः कचित् । कुर्यू राजानमेवाग्रे प्रजानुग्रहकारणात् ॥ नमस्येव तं भक्त्या शिष्या इव गुरुं सदा । देवा इव च देवेन्द्रं तत्र राजानमन्तिके ॥ सत्कृतं स्वजनेनेह परोऽपि बहु मन्यते । स्वजनेन त्ववज्ञातं परे परिभवन्त्युत । राज्ञः परैः परिभवः सर्वेषामसुखावहः । तस्माच्छत्रं च पत्रं च वासांस्याभरणानि च ॥ भोजनान्यथ पानानि राज्ञे दद्युर्गृहाणि च । आसनानि च शय्याश्च सर्वोपकरणानि च ॥ गोप्ता तस्मादुदुराधर्षः स्मितपूर्वाभिभाषिता । आभाषितश्च मधुरं प्रत्या भाषेत मानवान् ॥ कृतज्ञो दृढभक्तिः स्यात् संविभागी जितेन्द्रियः । ईक्षित: प्रतिवक्षेत मृदु वल्गु च सुष्ठु च ॥ संघः ऐकमत्येनैवावतिष्ठते 'भेदाद्विनाशः संघानां संघमुख्योऽसि केशव । यथा त्वां प्राप्य नोत्सीदेदयं संघस्तथा कुरु ! | नान्यत्र बुद्धिक्षान्तिभ्यां नान्यत्रेन्द्रियनिग्रहात् । नान्यत्र धनसंत्यागाद्गुणः प्राज्ञेऽवतिष्ठते ॥ धन्यं यशस्यमायुष्यं स्वपक्षोद्भावनं सदा । ज्ञातीनामविनाशः स्याद्यथा कृष्ण तथा कुरु ॥ आयत्यां च तदात्वे च न तेऽस्त्यविदितं प्रभो । षाड्गुण्यस्य विधानेन यात्रा यानविधौ तथा ॥ यादवाः कुकुरा भोजाः सर्वे चान्धकवृष्णयः ।
(१) भा. १२८ १।२५-३१,