________________
८५८
व्यवहारकाण्डम्
सं जानताम् । समानमेकरूपमेवार्थमवगच्छन्तु । यथा पूर्वे पुरातना देवाः संजानाना ऐकमत्यं प्राप्ता हविर्भागमुपासते यथास्वं स्वीकुर्वन्ति तथा यूयमपि वैमत्यं परित्यज्य धनं स्वीकुरुतेति शेषः ।
ऋसा.
समानो मन्त्रः समितिः समानी समानं मनः सह चित्तमेषाम् । समानं मन्त्रमभि मन्त्रये वः समानेन वो हविषा जुहोमि ॥
"
एषामेकस्मिन्कर्मणि सह प्रवृत्तानामृत्विजां स्तोतॄणां वा मन्त्रः स्तुतिः शस्त्राद्यात्मका गुप्तभाषणं वा समान एकविधोऽस्तु । तथा समिति: प्राप्तिरपि समान्येकरूपाऽस्तु । तथा मनो मननसाधनमन्तःकरणं चैषां समानमेकविधमप्यस्तु । चित्तं विचारजं ज्ञानं तथा सह सहितं परस्परस्यैकार्थेनैकीभूतमस्तु । अहं च वो युष्माकं समानमेकविधं मन्त्रमभि मन्त्रये। ऐकविध्याय संस्करोमि । तथा वो युष्माकं स्वभूतेन समानेन साधारणेन हविषा चरुपुरोडाशादिनाsहं जुहोमि । सेमानी व आकूतिः समाना हृदयानि वः । वो मनो यथा वः सुसहासति ॥ समानमस्तु हे ऋत्विग्यजमानाः वो युष्माकमाकूतिः संकल्पोऽध्यवसायः समान्येकविधोऽस्तु । तथा वो युष्माकं हृदयानि समानान्येकविधानि सन्तु । तथा वो युष्माकं मनोऽन्तः करणं समानमस्तु । यथा वो युष्माकं सुसह शोभनं साहित्यमसति भवति तथा समानमस्त्वित्यन्वयः । ऋसा. संविदः साधारणलिङ्गानि
ऋसा.
'संविच्च मे ।
ग्रामेषु स्वकीयपरकीयाणां सांवत् इष्टा संज्ञानं नो दिवा पशोः संज्ञानं नक्तमर्वतः । संज्ञानं नः स्वेभ्यः संज्ञानमरणेभ्यः संज्ञानमश्विना युवमिहास्मासु नियच्छतम् ।
अरणाः प्रतिकूलाः पुरुषाः, संज्ञानं ऐकमत्यं, नियच्छतं स्थापयतम् ।
असा.
संविदा श्रेष्ठः स्वषु कार्यः
देवा वै न समजानत ते चतुर्धा - व्युदक्रामन्नग्भिर्वसुभिस्सोमो रुद्रैरिन्द्रो मरुद्भिर्वरुण आदित्यैस्तान्बृहस्पतिरत्रवीद्याजयानि वस्सं वै ज्ञास्यध्व इति । तव गृहे याजयानीतीन्द्रमब्रवीत्तव वै श्रेष्ठयाय संज्ञास्यन्त इति । ...... तानिन्द्रस्य गृहेऽयाजयत्ततो वै ते समजानत त इन्द्रस्यैव श्रैष्ठवाय समजानत | ये स्वा न संजानी रस्तानेतया याजयेत् । यं कामयेतायं श्रेष्ठः स्यादिति तस्य गृहे समेव जानत एता एवैनं देवता भागसैषा धेयमभि संजानानाः संज्ञापयन्ति । संज्ञानी नामेष्टिरसमेव जानते । संविदः साधारणलिङ्गानि संज्ञानमस्तु मेऽमुना ।
मे ममामुना देवदत्तादिना संज्ञानं सङ्गतं ज्ञानं अस्तु । इष्टेन मम प्रीतिरस्तु । अमुना सह मे संज्ञानं संगतमस्तु ।
शुभ.
संज्ञानमसि कामधरणं मयि ते कामधरणं संज्ञानाय स्मरकारीम् ।
भूयात् ।
कुलसंविष्टा
(१) ऋसं.१०।१९१।३; मैसं.२।२२६ मन: (व्रत) *येन देवा न वियन्ति नो च विद्विषते मिथः । तत् कृण्मो ब्रह्म वो गृहे संज्ञानं पुरुषेभ्यः ॥
मन्त्रमभि मन्त्रये वः (क्रतुमभिमन्त्रयध्वं ); असं. ६ । ६४ । २ मनः (व्रत) (समानेन वो हविषा जुहोमि समानं चेतो अभिसंविशध्वम्); तैब्रा. २।४।४|५६ शागृ. ५/९/४.
कसं. २८१८६
(२) ऋसं. १०।१९२।४; मैसं. २ २ ६ समानी व आकूति: (समाना वा आकूतानि); असं. ६ | ६४ | ३ ; तैब्रा. २|४|४|११ आगृ. ३।५।८; विस्मृ. २१/१४.
(३) तैसं. ४ | २|४|११ कासं. १६/११३ कसं. २५/२ मैसं. २७/११; शुमा. १२/४६; तैया. १ २ ।१ । १७; शत्रा. ७|१|११८; माश्रौ. ६।११५६ काश्रौ. १७११।४; आपश्री.
५/९/६.
(१) तैसं. ४।७।३।१; कासं. १८१८६ मैसं. १८१८६ शुमा १८ ७.
(२) कासं. १०।१२; मैसं. २२२२६ मिहास्मासु (मिद्दास्मभ्यं); माश्रौ.५।१।१०९.
(३) कासं. ११३.
(४) शुमा. २६ । १; शुका. २८/२. (५) शुमा. ३०।१६ तैया. ३।४।११६. (६) भसं. ३।३०।४.